मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २८३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 283

च्यवनेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः ॥

आयांतं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम्

॥१॥

भयात्स्तंभितरूपेण लेलिहानं मुहुर्मुहुः ॥

प्रणतोऽब्रवीन्महादेवि च्यवनं भयपीडितः

॥२॥

सोमार्हावश्विनावेतावद्यप्रभृति भार्गव ॥

भविष्यतः सर्वमेतद्वचः सत्यं ब्रवीमि ते

॥३॥

मा ते मिथ्या समारम्भो भवत्वथ तपोधन ॥

जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि

॥४॥

सोमार्हावश्विनावेतौ यथैवाद्य त्वया कृतौ ॥

भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव

॥५॥

सुकन्यायाः पितुश्चास्य लोके कीर्तिर्भवेदिति ॥

अतो मयैतद्विहितं तद्वीर्यस्य प्रकाशनम् ॥

तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि

॥६॥

एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः ॥

मन्युर्व्युपारमच्छीघ्रं मानश्चैव सुरेशितुः

॥७॥

मदं च व्यभजद्देवि पाने स्त्रीषु च वीर्यवान् ॥

अक्षेषु मृगयायां च पूर्वं सृष्टं पुनःपुनः ॥

तथा मदं विनिक्षिप्य शक्रं संतर्प्य चेंदुना

॥८॥

अश्विभ्यां सहितान्सर्वान्याजयित्वा च तं नृपम् ॥

विख्याप्य वीर्यं सर्वेषु लोकेषु वरवर्णिनि

॥९॥

सुकन्यया महारण्ये क्षेत्रेऽस्मिन्विजहार सः ॥

तस्यैतद्देवि संयुक्तं च्यवनेश्वरनामभृत्

॥१०॥

लिंगं महापापहरं च्यव नेन प्रतिष्ठितम् ॥

पूजयेत्तं विधानेन सोऽश्वमेधफलं लभेत्

॥११॥

तस्माच्चन्द्रमसस्तीर्थमृषयः पर्युपासते ॥

वैखानसाख्या ऋषयो वालखिल्यास्तथैव च

॥१२॥

अत्राश्विने मासि नरः पौर्णमास्यां विशेषतः ॥

श्राद्धं कुर्याद्विधानेन ब्राह्मणान्भोजयेत्पृथक् ॥

कोटितीर्थफलं तस्य भवेन्नैऽवात्र संशयः

॥१३॥

य इमां शृणुयाद्देवि कथां पातकनाशिनीम् ॥

समस्तजन्मसंभूतात्पापान्मुक्तो भवेन्नरः

॥१४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्यवर्णनंनाम त्र्यशीत्युत्तरद्विशततमोऽध्यायः ॥ २८३ ॥