मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३५५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 355

बहुसुवर्णेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि देवं बहुसुवर्णकम् ॥

हिरण्यापूर्वदिग्भागे स्थाने बहुसुवर्णके

॥१॥

धर्मपुत्रेण यत्रैव कृतो यज्ञः सुदुष्करः ॥

नाम्ना बहुसुवर्णेति स्थाप्य लिंगं महाप्रभम्

॥२॥

सर्वक्रतूनां फलदं नाम्ना सर्वेश्वरं विदुः ॥

तत्रैव संस्थितं लिंगं पूर्णं सारस्वतैर्जलैः

॥३॥

स्नात्वा तत्र वरारोहे पिण्डदानं ददाति यः ॥

कुलकोटिं समुद्धृत्य रुद्रलोके महीयते

॥४॥

यस्तं पूज यते भक्त्या गन्धपुष्पैर्विधानतः ॥

कोटिपूजाफलं तस्य तथेत्याह सदाशिवः

॥५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बहुसुवर्णेश्वरमाहात्म्यवर्णनंनाम पञ्चपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५५ ॥