लक्ष्मणेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि लक्ष्मणेश्वरमुत्तमम् ॥
रामेशात्पूर्वदिग्भागे धनुस्त्रिंशकसंस्थितम्
॥१॥स्थापितं लक्ष्मणेनैव तत्र यात्रागतेन वै ॥
महापापहरं देवि तल्लिंगं सुरपूजितम्
॥२॥यस्तं पूजयते भक्त्या नृत्यगीतादिवादनैः ॥
होमजाप्यैः समाधिस्थः स याति परमां गतिम्
॥३॥अन्नोदकं हिरण्यं च तत्र देयं द्विजातये ॥
संपूज्य देवदेवेशं गंधपुष्पादिभिः क्रमात्
॥४॥माघे कृष्णचतुर्दश्यां विशेषस्तत्र पूजने ॥
स्नानं दानं जपस्तत्र भवेदक्षयकारकम्
॥५॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रामेश्वरक्षेत्रमाहात्म्ये लक्ष्मणेश्वरमाहात्म्यवर्णनंनाम द्वादशोत्तरशततमो ऽध्यायः ॥ ११२ ॥