कलकलेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि लिंगं शाकलकलेश्वरम् ॥
शाकल्येश्वरनैर्ऋत्ये धनुषां षष्टिभिः स्थितम्
॥१॥तच्चतुर्युगनामाढ्यं स्मृतं पातकनाशनम् ॥
पूर्वं कामेश्वरंनाम त्रेतायां पुलहेश्वरम्
॥२॥द्वापरे सिद्धिनाथं तु नारदेशं कलौ स्मृतम् ॥
तथा कलकलेशं च नाम तस्यैव कीर्त्तितम्
॥३॥समुद्रे च महापुण्ये यस्मिन्काले सरस्वती ॥
आगता सा महाभागा हृष्टा तुष्टा सरिद्वरा ॥
तस्य तोयस्य शब्देन सागरस्य महात्मनः
॥४॥ततो देवाः सगन्धर्वा ऋषयः सिद्धचारणाः ॥
नेदुः कलकलं तत्र तुमुलं लोमहर्षणम्
॥५॥तेन शब्देन महता मम मूर्त्तिः समुत्थिता ॥
कल्कलेश्वरनामेति ततो लिंगं प्रकीर्तितम्
॥६॥इति ते पूर्ववृत्तांतं कथितं नामकार णम् ॥
सांप्रतं तु यथा जातं पुनः कलकलेश्वरम् ॥
तत्तेऽहं संप्रवक्ष्यामि शृणुष्वैकमनाः प्रिये
॥७॥पुरा द्वापरसंधौ च प्रविष्टे तु कलौ युगे ॥
नारदस्तु समागत्य क्षेत्रं प्राभासिकं शुभम् ॥
संचकार तपश्चोग्रं तत्र लिंगसमीपतः
॥९॥ततो वर्षशते पूर्णे समाराध्य वृषध्वजम् ॥
गांधर्वं प्राप्य देवेशि भूषितं सप्तभिः स्वरैः
॥९॥ततो हृष्टमना भूत्वा तल्लिंगस्य समीपतः ॥
स चकार महायज्ञं पौंडरीकमिति श्रुतम्
॥१०॥देवदेवस्य तुष्ट्यर्थं स सदा भावितात्मवान् ॥
समाहूय ऋषींस्तत्र ब्रह्मलोकात्सहस्रशः
॥११॥ततः संभृतसंभारो यज्ञोपकरणान्वितः ॥
कृत्वा कुण्डादिकं सर्वं समारेभे ततः क्रतुम्
॥१२॥ततः संपूर्णतां प्राप्ते तस्मिन्क्रतौ वरानने
॥१३॥अथागमंस्ततो विप्रास्तत्र क्षेत्रनिवासिनः ॥
दक्षिणार्थं महदेवि शतशोऽथ सहस्रशः
॥१४॥ततः स कौतुकाविष्टस्तेषां युद्धार्थमेव हि ॥
प्राक्षिपत्तत्र रत्नानि सुवर्णं च महीतले
॥१५॥ततस्ते ब्राह्मणाः सर्वे युध्यमानाः परस्परम् ॥
कोलाहलं परं चक्रुर्बहुद्रव्यपरीप्सया
॥१६॥एके दिगंबरा देवि त्यक्तयज्ञोपवीतिनः ॥
विकचाः केऽपि दृश्यंते त्वन्ये रुधिरविप्लवाः
॥१७॥अन्ये परस्परं जघ्नुर्मुष्टिभिश्चरणैस्तथा ॥
एवं तत्र तदा क्षिप्तं यद्द्रव्यं नारदेन तु
॥१८॥अथाभावे तु वित्तस्य ये च विप्रा ह्यकिंचनाः ॥
विद्याविनयसंपन्ना ब्राह्मणैर्जर्जरीकृताः
॥१९॥ते तमूचुर्भृशं शांताः स्मयमानं मुहुर्मुहुः ॥
कलहार्थं यतो दानं त्वया दत्तमिदं मुने
॥२०॥विद्यायुक्तान्परित्यज्य विधिं त्यक्त्वा तु याज्ञिकम् ॥
तस्मादस्य मुने नाम ख्यातं कलकलेश्वरम्
॥२१॥तेन नाम्ना द्विजश्रेष्ठ लिंगमेतद्भविष्यति ॥
एतस्मात्कारणाद्देवि जातं कलकलेश्वरम्
॥२२॥यस्तं स्नाप्य नरो भक्त्या कुरुते त्रिः प्रदक्षिणम् ॥
स गच्छेद्रुद्रलोकं तु त्वत्प्रसादादसंशयम्
॥२३॥यस्तं पूजयते भक्त्या गंधपुष्पानुलेपनैः ॥
हेमं दत्त्वा द्विजातिभ्यः स गच्छेत्परमं पदम्
॥२४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कलकलेश्वरमाहात्म्यवर्णनंनाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥