मंकीश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि मंकीश्वरमनुत्तमम् ॥
त्रिसंगमसमीपस्थं सर्वपातकनाशनम्
॥१॥मंकीनाम ऋषिः पूर्वमासीत्स तपतां वरः ॥
स च ज्ञात्वा महाक्षेत्रं प्रभासं शंकरप्रियम्
॥२॥अतपद्वै तपो घोरं कन्दमूलफलाशनः ॥
वर्षाणामयुतं साग्रं प्रतिष्ठाप्य महेश्वरम्
॥३॥ततस्तुष्टो महादेवो ददौ प्रीतो वरं तदा ॥
स वव्रे यदि तुष्टोऽसि अस्मिन्स्थाने स्थितो भव
॥४॥मन्नामांकितलिंगस्तु वस कल्पायुतायुतम् ॥
एवमस्त्वित्यथेत्युक्त्वा तत्रैवान्तरधीयत
॥५॥तदाप्रभृति तल्लिंगं मंकीश्वरमिति श्रुतम् ॥
माघे मासे त्रयोदश्यां चतुर्दश्यामथापि वा
॥६॥पूज्याः पंचोपचारेण प्राप्नुयादीप्सितं फलम् ॥
गोदानं तत्र वै देयं सम्यग्यात्राफलेप्सुभिः
॥७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मंकीश्वरमाहात्म्यवर्णनंनाम चतुरशीत्युत्तरशततमोऽध्यायः ॥ १८४ ॥