ततो गच्छेन्महादेवि गोप्यादित्यमनुत्तमम्
ईश्वर उवाच
ततो गच्छेन्महादेवि गोप्यादित्यमनुत्तमम् ॥
भूतेशाद्वायवे भागे धनुषां त्रिंशकेन्तरे
॥१॥बलातिबलदैत्यघ्न्या दक्षिणाग्नेयसंस्थितम् ॥
धनुषां दशके देवि संस्थितं पापनाशनम्
॥२॥तस्योत्पत्तिं प्रवक्ष्यामि महापापहरां शुभाम् ॥
यां श्रुत्वा मानवो भक्त्या दुःखशोकैः प्रमुच्यते
॥३॥पुरा कृष्णो महातेजा यदा प्रभासमागतः ॥
सहितो यादवैः सर्वैः षट्पञ्चाशतिकोटिभिः
॥४॥षोडशैव सहस्राणि गोप्यस्तत्र समागताः ॥
लक्षमेकं तथा षष्टिरेते कृष्णसुताः प्रिये
॥५॥तत्र प्राभासिके क्षेत्रे संस्थिताः पापनाशने ॥
यादवस्थलमासाद्य यावद्रैवतको गिरि
॥६॥तत्र द्वादशवर्षाणि संस्थितास्ते महाबलाः ॥
क्षेत्रं पवित्रमादाय शिवलिंगानि ते पृथक् ॥
स्थापयाञ्चक्रिरे सर्वे ह्यंकितानि स्वनामभिः
॥७॥एवं समग्रं तत्क्षेत्रं यावद्द्वादशयोजनम् ॥
ध्वजलिंगांकितं चक्रुः सर्वे यादवपुंगवाः
॥८॥हस्तहस्तान्तरे देवि प्रासादाः क्षेत्र मध्यतः ॥
सुवर्णकलशोपेताः पताकाकुलितांबराः ॥
विराजंते तु तत्रस्थाः कीर्तिस्तंभा हरेरिव
॥९॥ततो गोप्यो महादेवि आद्या याः षोडश स्मृताः ॥
तासां नामानि ते वक्ष्ये तानि ह्मेकमनाः शृणु
॥१०॥लंबिनी चन्द्रिका कान्ता क्रूरा शान्ता महोदया ॥
भीषणी नन्दिनीऽशोका सुपर्णा विमलाऽक्षया
॥११॥शुभदा शोभना पुण्या हंसस्यैताः कलाः स्मृताः ॥
हंस एव मतः कृष्णः परमात्मा जनार्दनः
॥१२॥तस्यैताः शक्तयो देवि षोडशैव प्रकीर्तिताः ॥
चन्द्ररूपी ततः कृष्णः कलारूपास्तु ताः स्मृताः
॥१३॥संपूर्णमण्डला तासां मालिनी षोडशी कला ॥
प्रतिपत्तिथिमारभ्य विचरत्यासु चन्द्रमाः
॥१४॥षोडशैव कला यास्ता गोपीरूपा वरानने ॥
एकैकशस्ताः संभिन्नाः सहस्रेण पृथक्पृथक्
॥१५॥एवं ते कथितं देवि रहस्यं ज्ञानसंभवम् ॥
एवं यो वेद पुरुषः स ज्ञेयो वैष्णवो बुधैः
॥१६॥अथ ताभिः कृताञ्ज्ञात्वा प्रासादान्यादवैः पृथक् ॥
ततो गोप्योऽपि ताः सर्वाः सहस्राणि तु षोडश ॥
कृष्णमाज्ञाप्य भावेन स्थापयांचक्रिरे रविम्
॥१७॥ऋषिभिर्नारदाद्यैस्तास्तथा क्षेत्रनिवासिभिः ॥
तं प्रतिष्ठापयामासुः प्रतिष्ठाविधिना रविम्
॥१८॥प्रतिष्ठिते ततः सूर्ये ददुर्दानानि भूरिशः ॥
ततः क्षेत्रनिवासिभ्यो गोभूहेमांबराणि च
॥१९॥ततस्त ऋषयः सर्वे संतुष्टा हृष्टमानसाः ॥
चक्रुर्नाम रवेस्तत्र गोप्यादित्येति विश्रुतम् ॥
सर्वपाप हरं देवं महासौभाग्यदायकम्
॥२०॥एवं कृते कृतार्थास्ताः संप्राप्यातिमहद्यशः ॥
जग्मुर्यथागतं सर्वा द्वारकां कृष्णसंयुताः
॥२१॥पुनः कालान्तरे देवि शापाद्दुर्वाससः प्रिये ॥
यादवस्थलतां प्राप्ताः प्रभासे पापनाशने
॥२२॥एवं ते कथितो देवि गोप्यादित्यसमुद्भवः ॥
माहात्म्यं तस्य ते वच्मि पूजावन्दनजं क्रमात्
॥२३॥अस्मिन्मित्रवने देवि यो गोपीभिः प्रतिष्ठितः ॥
तस्य दर्शनमात्रेण दुःखशोकैः प्रमुच्यते
॥२४॥सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः ॥
तां गतिं ते नरा यान्ति ये गोपीरविमाश्रिताः
॥२५॥येन सर्वात्मना भावो गोप्यादित्ये निवेशितः ॥
महेश्वरि कृतार्थत्वात्स श्लाघ्यो धन्य एव सः
॥२६॥अपि नः स कुले धन्यो जायते कुलपावनः ॥
भाग्यवान्भक्तिभावेन येन भानुरुपासितः
॥२७॥सप्तम्यां पूजयेद्यस्तु माघे मास्युषसि प्रिये ॥
सप्तावरान्सप्त पूर्वान्पितॄन्सोप्युद्धरेन्नरः
॥२८॥छिनत्ति रोगान्दुश्चेष्टान्दुर्जयाञ्जयति ह्यरीन्
॥२९॥न सप्तम्यां स्पृशेत्तैलं नीलवस्त्रं न धारयेत् ॥
न चाप्यामलकैः स्नानं न कुर्यात्कलहं क्वचित्
॥३०॥नीलरक्तेन वस्त्रेण यत्कर्म कुरुते द्विजः ॥
स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ॥
वृथा तस्य महायज्ञा नीलसूत्रस्य धारणात्
॥३१॥नीलीरक्तं यदा वस्त्रं विप्रस्त्वंगेषु धारयेत् ॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति
॥३२॥रोमकूपे यदा गच्छेद्रसं नीलस्य कस्यचित् ॥
पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रैर्व्यपोहति
॥३३॥नीलमध्यं यदा गच्छेत्प्रमादाद्ब्राह्मणः क्वचित् ॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति
॥३४॥नीलदारु यदा भिद्येद्ब्राह्मणानां शरीरके ॥
शोणितं दृश्यते तत्र द्विजश्चान्द्रायणं चरेत्
॥३५॥कुर्यादज्ञानतो यस्तु नीलं वै दन्तधावनम् ॥
कृत्वा कृच्छ्रद्वयं तस्य शुद्धिरुक्ता मनीषिभिः
॥३६॥इत्येतत्कथितं देवि गोप्यादित्यमहोदय ॥
पापघ्नं सर्वजन्तूनां श्रुतं सर्वार्थसाधकम्
॥३७॥गवां शतसहस्रैस्तु दत्तैर्यत्कुरुजांगले ॥
पुण्यं भवति देवेशि तद्गोप्यादित्यदर्शने
॥३८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गोप्यादित्यमाहात्म्यवर्णनंनामाष्टादशोत्तरशततमोऽध्यायः ॥ ११८ ॥