ततो गच्छेन्महादेवि देवीं शालकटंकटाम्
ईश्वर उवाच
ततो गच्छेन्महादेवि देवीं शालकटंकटाम् ॥
सावित्र्या दक्षिणे भागे रैवतात्पूर्वतः स्थिताम्
॥१॥महापापोपशमनीं सर्वदुःखविनाशनीम् ॥
पूजितां सर्वगन्धर्वैः स्फुरद्दंष्ट्रोग्रभीषणाम्
॥२॥महाप्रचण्डदैत्यघ्नीं पौलस्त्येन प्रतिष्ठिताम् ॥
महिषघ्नीं महाकायां क्षेत्रे प्राभासिके स्थिताम्
॥३॥माघे मासे चतुर्दश्यां यस्ता माराधयेन्नरः ॥
स भवेत्पशुमान्धीमाँल्लक्ष्मीवान्पुत्रवान्सुधीः
॥४॥यस्तां पशुप्रदानेन सन्तर्पयति भक्तितः ॥
बलिपूजोपहारैश्च स स्याच्छत्रु विवर्जितः
॥५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शालकटंकटा माहात्म्यवर्णनंनामाष्टषष्ट्युत्तरशततमोऽध्यायः ॥ १६८ ॥