मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १५३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 153

हिरण्येश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि हिरण्येश्वरमुत्तमम् ॥

ब्रह्मकुण्डस्य वायव्ये धनुषां द्वितये स्थितम्

॥१॥

सर्वपापप्रशमनं दारिद्र्यौघविनाशनम् ॥

कृतस्मराच्च परतो ह्यग्नितीर्थाच्च पूर्वतः

॥२॥

यमेश्वराच्च नैर्ऋत्ये समुद्रस्योत्तरे तथा ॥

तस्य लिंगस्य प्राग्भागे ब्रह्मा तेपे महत्तपः ॥

आराधयामास तदा देवदेवं त्रिलोचनम्

॥३॥

ततस्तुष्टो महादेवो ब्रह्मन्ब्रूहि वरो मम

॥४॥

ब्रह्मोवाच

यदि तुष्टोऽसि मे देव याज यामीति मे मतिः ॥

स्थानं च यन्महापुण्यं तन्ममाख्यातुमर्हसि

॥५॥

ईश्वर उवाच

कृतस्मराद्ब्रह्मकुंडं यमेशात्सागरावधि ॥

एतदंतरमासाद्य पापी चापि विमुच्यते

॥६॥

वहेद्विषुवती तत्र सदा पुण्यात्मनां नृणाम् ॥

यत्र तत्र कुरु विभो मनसा ते यथेप्सितम्

॥७॥

इत्युक्तः स तदा ब्रह्मा प्रारेभे यज्ञमुत्तमम्

॥८॥

ततो भागार्थिनो देवा इन्द्राद्यास्तत्र चागताः ॥

ऋषयो भागकामास्तु सर्वे तत्र समागताः

॥९॥

ततो यज्ञागतेभ्यः स दक्षिणामददात्पुनः ॥

ततोऽथ दक्षिणा क्षीणा दीयमाना यशस्विनि

॥१०॥

ततोब्रह्मा बहूद्विग्नो दध्यौ वै मनसा तदा ॥

बद्धाञ्जलिपुटो भूत्वा इदं वचनमब्रवीत्

॥११॥

भगवन्वै विरूपाक्ष क्रतुर्नैव समाप्यते ॥

दक्षिणाहै(दै?)न्यतो देव न याति परिपूर्णताम्

॥१२॥

दक्षिणासहिताः सर्वे यथा यांति तथा कुरु ॥

पितामहवचः श्रुत्वा कृत्वा ध्यानं तदा मया

॥१३॥

स्मृता सरस्वती देवी देवानां हितकाम्यया ॥

आगता सा महापुण्या उक्ता देवी मया तदा

॥१४॥

पद्मयोनेर्धनं क्षीणं क्रतुर्वै न समाप्यते ॥

तस्मान्मम प्रसादेन भव काञ्चनवाहिनी

॥१५॥

सरस्वत्यास्ततः स्रोत उत्थितं पश्चिमामुखम् ॥

काञ्चनानां तु पद्मानि उच्छ्रितानि सहस्रशः

॥१६॥

काञ्चनेन प्रवाहेण तोयं सारस्वतं शुभम् ॥

दैत्यसूदनमासाद्य अग्नितीर्थावधि प्रिये ॥

पूरयामास पद्मैश्च कोटिशश्च समंततः

॥१७॥

काञ्चनानि तु तान्येव दत्त्वा विप्रेषु दक्षिणाम् ॥

यज्ञं निर्वर्तयामास हृष्टो ब्रह्मा द्विजैः सह

॥१८॥

शेषाणि यानि पद्मानि तानि निःक्षिप्य भूतले ॥

तदूर्ध्वं स्थापयामास लिगं तु कनके श्वरम्

॥१९॥

तत्र लिंगं प्रतिष्ठाप्य सर्वदेवनमस्कृतम् ॥

ऋषिभ्यो दक्षिणां प्रादादेकैकस्य यथाक्रमम् ॥

काञ्चनानां च पद्मानां प्रत्येकमयुतं ददौ

॥२०॥

ततः शेषाणि पद्मानि निहितानि धरातले ॥

ब्रह्मकुण्डस्य मध्ये तु नापुण्यो लभते नरः

॥२१॥

तत्कुण्डतोयमद्यापि नानावर्णं प्रदृश्यते ॥

तत्राधः पद्मसंयोगान्नीरं स्वर्णायते क्षणात्

॥२२॥

हिरण्मयानि पद्मानि अधः कृत्वा प्रजापतिः ॥

लिंगमूर्ध्वं प्रतिष्ठाप्य स्वयं पूजितवांस्तदा ॥

हिरण्यकमलैर्दिव्यैर्हिरण्येशस्ततोऽभवत्

॥२३॥

सर्वपापप्रशमनं तथा दारिद्र्यनाशनम् ॥

दृष्ट्वा हिरण्मयेशानं सर्वपापैः प्रमुच्यते

॥२४॥

माघ मासे चतुर्दश्यां यस्तल्लिंगं प्रपूजयेत् ॥

पूजितं तेन सकलं ब्रह्माण्डं सचराचरम्

॥२५॥

सर्वदानानि दत्तानि सर्वे देवाश्च तोषिताः ॥

ब्रह्माण्डं तेन दत्तं स्याद्येन तल्लिंगमर्चितम्

॥२६॥

एतन्मया ते कथितं स्नेहेन वरवर्णिनि ॥

न कस्यचिन्मयाऽऽख्यातं महागोप्यं वरानने

॥२७॥

य इदं शृयुयाद्भक्त्या पठेद्वा भक्तिसंयुतः ॥

स गच्छेद्देवलोकं तु मुक्तः सर्वैस्तु पातकैः

॥२८॥

इति ते चातिविख्याताः पवित्राः पञ्च भैरवाः ॥

ब्रह्मकुण्डसमीपस्थाः कथितास्तव सुन्दरि

॥२९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्ये हिरण्येश्वरमाहात्म्यवर्णनंनाम त्रिपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५३ ॥