नन्दादित्यमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि नंदादित्यं समाहितः ॥
नंदेन स्थापितं पूर्वं तत्रैवामितबुद्धिना
॥१॥नंदो राजा पुरा ह्यासीत्सर्वलोकसुखप्रदः ॥
न दुर्भिक्षं न च व्याधि नाकाले मरणं नृणाम्
॥२॥तस्मिञ्छासति धर्मज्ञे न चावृष्टिकृतं भयम् ॥
कस्यचित्त्वथ कालस्य पूर्वकर्मानुसारतः
॥३॥कुष्ठेन महता व्याप्तो वैराग्यपरमं गतः ॥
तेन रोगाभिभूतेन देवदेवो दिवाकरः ॥
प्रतिष्ठितो नदीतीरे स च रोगाद्विमोचितः
॥४॥देव्युवाच
किमसौ रोगवान्राजा सार्वभौमो महीपतिः ॥
तस्य धर्मरतस्यापि कस्माद्रोग समुद्भवः
॥५॥ईश्वर उवाच
एष धर्मसदाचारो नंदो राजा प्रतापवान् ॥
व्यचरत्सर्वलोकान्स विमानवरमास्थितः
॥६॥विमानं तस्य तुष्टेन दत्तं वै विष्णुना स्वयम् ॥
कामगं वरवर्णेन बर्हिणेन विनादितम्
॥७॥स कदाचिन्नृपश्रेष्ठो विचरंस्तत्र संस्थितः ॥
गतवान्मानसं दिव्यं सरो देवगणान्वितम्
॥८॥तत्रापश्यद्बृहत्पद्मं सरोमध्यगतं सितम् ॥
तत्र चांगुष्ठमात्रं तु स्थितं पुरुषसत्तमम्
॥९॥रक्तवासोभिराच्छन्नं द्विभुजं तिग्मतेजसम् ॥
तं दृष्ट्वा सारथिं प्राह पद्ममेतत्समाहर
॥१०॥इदं तु शिरसा बिभ्रत्सर्वलोकस्य सन्निधौ ॥
श्लाघनीयो भविष्यामि तस्मादाहर मा चिरम्
॥११॥एवमुक्तस्ततस्तेन सारथिः प्रविवेश ह ॥
ग्रहीतुमुपचक्राम तत्पद्मं वरवर्णिनि ॥
स्पृष्टमात्रे तदा पद्मे हुंकारः समपद्यत
॥१२॥राजा च तत्क्षणात्तेन शब्देन समजायत ॥
कुष्ठी विगतवर्णश्च बलवीर्यविवर्जितः
॥१३॥तथागतमथात्मानं दृष्ट्वा स पुरुषर्षभः ॥
तस्थौ तत्रैव शोकार्तः किमेतदिति चिंतयन्
॥१४॥तस्य चिंतयतो धीमानाजगाम महातपाः ॥
वसिष्ठो ब्रह्मपुत्रस्तु स तं पप्रच्छ पार्थिवः
॥१५॥एष मे भगवञ्जातो देहस्यास्य विपर्ययः ॥
कुष्ठरोगाभिभूतात्मा नाहं जीवितुमुत्सहे
॥१६॥उपायं ब्रूहि मे ब्रह्मन्व्याधितस्य चिकित्सितम् ॥
उताहो व्रतमन्यद्वा दानं यज्ञमथापि वा
॥१७॥वसिष्ठ उवाच
एतद्ब्रह्मोद्भवं नाम पद्मं त्रैलोक्यविश्रुतम् ॥
दृष्टमात्रेण चानेन दृष्टाः स्युः सर्व देवताः
॥१८॥एतद्धि दृश्यते धन्यैः पद्मं कैः क्वापि पार्थिव ॥
एतस्मिन्दृष्टमात्रे तु यो जलं विशते नरः
॥१९॥सर्वपापविनिर्मुक्तः पदं निर्वाण माप्नुयात् ॥
एष दृष्ट्वा तु ते सूतो हर्तुं तोये प्रविष्टवान्
॥२०॥तव वाक्येन राजेंद्र मृतोऽसौ रोगवान्भवेत् ॥
ब्रह्मपुत्रोऽप्यहं तेन पश्यामि परमेश्वरम्
॥२१॥अहन्यहनि चागच्छंस्त्वं पुनर्दृष्टवानसि ॥
वांछंति देवता नित्यममुं हृदि मनोरथम्
॥२२॥मानसे ब्रह्मपद्मं तु दृष्ट्वा स्नात्वा कदा वयम् ॥
प्राप्स्यामः परमं ब्रह्म यद्गत्वा न पुनर्भवेत्
॥२३॥इदं च कारणं भूयो द्वितीयं शृणु पार्थिव ॥
कुष्ठस्य यत्त्वया प्राप्तं हर्तुकामेन पंकजम्
॥२४॥प्रद्योतनस्तु गर्भेऽस्मिन्स्वयमेव व्यवस्थितः ॥
तवैषा बुद्धिरभवद्दृष्ट्वेदं वरपंकजम्
॥२५॥धारयामि शिरस्येनं लोकमध्ये विभूषणम् ॥
इदं चिन्तयतः पापमेवं देवेन दर्शितम्
॥२६॥ततः सर्वप्रयत्नेन तमाराधय भास्करम् ॥
प्रसादाद्देवदेवस्य मोक्ष्यसे नात्र संशयः
॥२७॥प्रभासं गच्छ राजेंद्र तीर्थं त्रैलोक्यविश्रुतम् ॥
तत्र सिद्धिर्भवेच्छीघ्रमार्त्तानां प्राणिनां भुवि
॥२८॥ईश्वर उवाच
तस्य तद्वचनं श्रुत्वा वसिष्ठस्य महात्मनः ॥
प्रभासं क्षेत्रमासाद्य माहेश्वर्यास्तटे शुभे
॥२९॥नंदादित्यं प्रतिष्ठाप्य गंधधूपानुलेपनैः ॥
पूजयामास तं देवि पुष्पैरुच्चावचैस्तथा
॥३०॥तस्य तुष्टो दिवानाथो वरदोऽहमथाब्रवीत्
॥३१॥नन्द उवाच
कुष्ठेन महता व्याप्तं पश्य मां सुरसत्तम ॥
यथाऽयं नाशमायाति तथा कुरु दिवाकर
॥३२॥सान्निध्यं कुरु देवेश स्थानेऽस्मिन्नित्यदा विभो
॥३३॥सूर्य उवाच
नीरोगस्त्वं महाराज सद्य एव भविष्यसि ॥
अत्र ये मां समागत्य द्रक्ष्यंति च नरा भुवि
॥३४॥सप्तम्यां सूर्यवारेण यास्यंति परमां गतिम् ॥
अत्र मे सूर्यवारेण सांनिध्यं सप्तमीदिने ॥
भविष्यति न संदेहो गमिष्ये त्वं सुखी भव
॥३५॥एवमुक्त्वा सहस्रांशुस्तत्रैवांतरधीयत
॥३६॥नीरोगत्वमवा प्यासौ कृत्वा राज्यमनुत्तमम् ॥
जगाम परमं स्थानं यत्र देवो दिवाकरः ॥
तस्मिंस्तीर्थे नरः स्नात्वा कृत्वा श्राद्धं प्रयत्नतः
॥३७॥नंदादित्यं पुनर्दृष्ट्वा न पुनर्मर्त्त्यतां व्रजेत ॥
प्रदद्यात्कपिलां तत्र ब्राह्मणे वेदपारगे
॥३८॥अहोरात्रोषितो भूत्वा घृतधेनुमथापि वा ॥
न तस्य गुणितुं शक्या संख्या पुण्यस्य केनचित्
॥३९॥इत्येवं देवदेवस्य माहात्म्यं दीप्तदीधितेः ॥
कथितं तव सुश्रोणि सर्वपापप्रणाशनम्
॥४०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नन्दादित्यमाहात्म्यवर्णनंनाम षट्पञ्चाशदुत्तरद्विशततमो ऽध्यायः ॥ २५६ ॥