वराहस्वामिमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि वराहं तत्र संस्थितम् ॥
गोष्पदाद्दक्षिणे भागे स्थितं पापप्रणाशनम्
॥१॥एकादश्यां सिते पक्षे यस्तं पूजयते नरः ॥
स मुक्तः पातकैः सर्वैर्गच्छेद्विष्णुपदं महत्
॥२॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वराहस्वामिमाहात्म्यवर्णनंनाम द्विषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६२ ॥