मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३२४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 324

गणनाथमाहात्म्यवर्णनम्

ईश्वर उवाच

तस्मादुत्तरदिग्भागे किंचिद्वायव्यमाश्रितम् ॥

विनायकं प्रपश्येच्च सर्वसिद्धिप्रदायकम्

॥१॥

योऽसौ देवि मया ख्यातः सखा मे धनदः पुरा ॥

गणनाथस्वरूपेण निधीनां परिपालकः ॥

लोकानां सिद्धिदानार्थमस्मिन्स्थाने स्थितः प्रिये

॥२॥

चतुर्थ्यां भौमवारेण भक्ष्यभोज्यः समोदकैः ॥

पूजयेद्विधिवद्देवि तस्य सिद्धिर्भवेद्ध्रुवम्

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गणनाथमाहात्म्यवर्णनंनाम चतुर्विंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२४ ॥