प्रभासक्षेत्रमाहात्म्येऽर्क्कस्थलमाहात्म्यार्कस्थलपूजाविधानादिवर्णनम्
ईश्वर उवाच
अथ पूजाविधानं ते कथयामि यशस्विनि ॥
अर्कस्थलस्य देवस्य यथा पूज्यो नरोत्तमैः
॥१॥सर्वेषामेव देवानामादिरादित्य उच्यते ॥
आदिकर्त्ता त्वसौ यस्मादादित्यस्तेन चोच्यते
॥२॥नादित्येन विना रात्रिर्न दिवा न च तर्पणम् ॥
न धर्मो वै न चाधर्मो न संतिष्ठेच्चराचरम्
॥३॥आदित्यः पालयेत्सर्वमादित्यः सृजते सदा ॥
आदित्यः संहरेत्सर्वं तस्मादेष त्रयीमयः
॥४॥आराधनविधिं तस्य भास्करस्य महात्मनः ॥
कथयामि महादेवि वेदोक्तैर्मंत्रविस्तरैः ॥
तं शृणुष्व वरारोहे सर्वपापप्रणाशनम्
॥५॥मूर्त्तिस्थः पूज्यते येन विधानेन महेश्वरि ॥
द्वादशात्मा यथा सूर्यस्तत्ते वक्ष्याम्यशेषतः
॥६॥मुखशुद्धिं च कृत्वाऽऽदौ स्नानं कृत्वा विशेषतः ॥
वस्त्रशुद्धिं देह शुद्धिं कृत्वा सूर्यं स्पृशेत्ततः
॥७॥दन्तकाष्ठविधानं तु प्रथमं कथयामि ते ॥
मधूके पुत्रलाभः स्यादर्के नेत्रसुखं प्रिये
॥९॥वक्तृत्वं वै बदर्या च बृहत्या द्रुर्ज्जनाञ्जयेत् ॥
ऐश्वर्यं च भवेद्बिल्वे खदिरे च न संशयः
॥९॥रोगक्षयः कदम्बे तु अर्थलाभोऽतिमुक्तके ॥
मरुतां याति सर्वत्र आटरूषकसंभवैः
॥१०॥जातिप्रधानतां जातावश्वत्थो यच्छते यशः ॥
श्रियं प्राप्नोति निखिलां शिरीषस्य निषेवणात्
॥११॥प्रियंगुं सेवमानस्य सौभाग्यं परमं भवेत् ॥
अभीप्सितार्थसिद्धिः स्यान्नित्यं प्लक्षनिषेवणात्
॥१२॥न पाटितं समश्नीयाद्दंतकाष्ठं न सव्रणम् ॥
न चोर्द्धशुष्कं वक्रं वा नैव च त्वग्विवर्ज्जितम्
॥१३॥वितस्तिमात्रमश्नीयाद्दीर्घं ह्रस्वं च वर्जयेत् ॥
उदङ्मुखो वा प्राङ्मुखः सुखासीनोऽथ वाग्यतः
॥१४॥कामं यथेष्टं हृदये कृत्वा समभिमन्त्र्य च ॥
मंत्रेणानेन मतिमानश्नीयाद्दन्तधावनम्
॥१५॥वरं दत्त्वाऽभिजानासि कामं चैव वनस्पते ॥
सिद्धिं प्रयच्छ मे नित्यं दन्तकाष्ठ नमोऽस्तु ते
॥१६॥त्रीन्वारान्परिजप्यैवं भक्षयेद्दंतधावनम् ॥
पश्चात्प्रक्षाल्य तत्काष्ठं शुचौ देशे विनिक्षिपेत्
॥१७॥दंतकाष्ठेन देवेशि न जिह्वां परिमार्जयेत् ॥
पृथक्पृथक्तदा कार्यं यदीच्छेद्विपुलं यशः
॥१८॥अंगुल्या दंतकाष्ठं च प्रत्यक्षं लवणं च यत् ॥
मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणैः
॥१९॥मुखे पर्युषिते नित्यं भवत्यप्रयतो द्विजः ॥
तस्माच्छुष्कमथार्द्रं वा भक्षयेद्दंतधावनम्
॥२०॥वर्जिते दिवसे चैव गडूषांश्चैव षोडश ॥
तत्तत्पद्मसुगन्धैर्वा मुखशुद्धिं च कारयेत्
॥२१॥मुखशुद्धिमकृत्वा यो भास्करं स्पृशति द्विजः ॥
त्रीणि वर्षसहस्राणि स कुष्ठी जायते नरः
॥२२॥एवं वस्त्रादि संशोध्य ततः स्नानं समाचरेत् ॥
शुचौ मनोरमे स्थाने संगृह्यास्त्रेण मृत्तिकाम्
॥२३॥सानुस्वारोकारयुतो हकारः फट्समन्वितः ॥
अनेनास्त्रेण संगृह्य स्नानं तत्र समाचरेत्
॥२४॥भागत्रयं तु संशुद्धं तृणपाषाणवर्जितम् ॥
एकमस्त्रेण चालभ्य तथान्यं भास्करेण तु
॥२५॥अंगैश्चैव तृतीयं तु अभिमंत्र्य सकृत्सकृत् ॥
जप्त्वास्त्रेण क्षिपेद्दिक्षु निर्विघ्नं तु जलं भवेत्
॥२६॥सूर्यतीर्थ द्वितीयेन तृतीयेन सकृत्सकृत् ॥
गुंठयित्वा ततः स्नायाद्रवितीर्थेन मानवः
॥२७॥तूर्यशंख निनादेन ध्यात्वा देवं दिवाकरम् ॥
स्नात्वा राजोपचारेण पुनराचम्य यत्नतः
॥२८॥स्नानं कृत्वा ततो देवि मंत्रराजेन संयुतम् ॥
हरेफौ बिंदु लक्ष्मीश्च तथाऽन्यो दीर्घया सह
॥२९॥मात्रया रेफसंयुक्तो हकारो बिंदुना सह ॥
सकारः सविसर्गस्तु मंत्रराजोऽयमुच्यते
॥३०॥ततस्तु तर्प्पयेन्मंत्रान्सर्वांस्तांस्तु कराग्रजैः ॥
तुलनादूर्ध्वतो देवान्सव्येन च मुनींस्तथा ॥
पितॄंश्चैवापसव्येन हृद्बीजेन प्रतर्पयेत्
॥३१॥यद्गीतं प्रवरं लोके अक्षराणां मनीषिभिः ॥
एकोनविंशं मात्राया अक्षरं तत्प्रकीर्त्तितम्
॥३२॥एवं स्नात्वा विधानेन संध्यां वंदेद्विधानतः ॥
ततो विद्वान्क्षिपेत्पश्चाद्भास्करायोदकांजलिम्
॥३३॥जपेच्च त्र्यक्षरं मंत्र षण्मुखं च यदृच्छया ॥
मंत्रराजेति यः पूर्वं तवाख्यातो मया प्रिये
॥३४॥पश्चात्तीर्थेन मंत्रास्तु संहृत्य हृदये न्यसेत् ॥
मंत्रैरात्मानमेकत्र कृत्वा चार्घं प्रदापयेत्
॥३५॥रक्तचंदनगंधैस्तु शुचिःस्नातो महीतले ॥
कृत्वा मंडलकं वृत्तमेकचित्तो व्यवस्थितः
॥३६॥गृहीत्वा करवीराणि ताम्रे संस्थाप्य भाजने ॥
तिलतंदुलसंयुक्तं कुशगन्धोदकेन तु
॥३७॥रक्तचंदन धूपेन युक्तम?र्घ्योपसाधितम् ॥
कृत्वा शिरसि तत्पात्रं जानुभ्यामवनिं गतः
॥३८॥मूलमंत्रेण संयुक्तमर्घ्यं दद्याच्च भानवे ॥
मुच्यते सर्वपापैस्तु यो ह्येवं विनिवेदयेत्
॥३९॥यद्युगादिसहस्रेण व्यतीपातशतेन च ॥
अयनानां सहस्रेण यत्फलं ज्येष्ठपुष्करे ॥
तत्फलं समवाप्नोति सूर्यायार्घ्य निवेदने
॥४०॥दीक्षामंत्रविहीनोऽपि भक्त्या संवत्सरेण तु ॥
फलमर्घेण वै देवि लभते नात्र संशयः
॥४१॥यः पुनर्दीक्षितो विद्वान्विधिनार्घ्यं निवेदयेत् ॥
नासौ संभवते भूमौ प्रलयं याति भास्करे
॥४२॥इह जन्मनि सौभाग्यमायुरारोग्यसंपदम् ॥
अचिराल्लभते देवि सभार्यः सुखभाजनम्
॥४३॥एवं स्नानविधिः प्रोक्तः सौरः संक्षेपतस्तव ॥
हिताय मानवेन्द्राणां सर्वपापप्रणाशनः
॥४४॥अथवा वेदमार्गेण कुर्यात्स्नानं द्विजोत्तमः ॥
यद्येवं मन्त्रविस्तारे ह्यशक्तो दीक्षया विना
॥४५॥ईश्वर उवाच
अथ पूजाविधानं ते कथयामि यशस्विनि ॥
वेदमार्गेण दिव्येन ब्राह्मणानां हिताय वै
॥४६॥एवं संभृतसंभारः पुष्पादिप्रगुणीकृतः ॥
तत आवाहयेद्भानुं स्थापयेत्कर्णिकोपरि
॥४७॥उपस्थानं तु वै कृत्वा मंत्रेणानेन सुव्रते ॥
उदुत्यं जातवेदसमिति मंत्रः संपरिकीर्तितः
॥४८॥अग्निं दूतेति मंत्रेण अनेनावाह्य भामिनि ॥
आकृष्णेन रजसा मंत्रेणानेन वाऽर्चयेत्
॥४९॥हंसः शुचिषदिति मंत्रेणानेन पूजयेत् ॥
अपत्येतेति मन्त्रेण सूर्यं देवि प्रपूजयेत्
॥५०॥अदृश्रमस्य चैतेन सूर्यं देवि समर्च्चयेत् ॥
तरणिर्विश्वदर्शेति अनेन सततं जपम्
॥५१॥चित्रं देवानामुदेति भद्रां देवो सदार्चयेत् ॥
विभूतिमर्च्चयेन्नित्यं येना पावक चक्षसा
॥५२॥विद्यामेपिरजस्पृथ्वित्यनेन विमलां सदा ॥
अमोघां पूजयेन्नित्यं मंत्रेणानेन सुव्रते
॥५३॥सप्त त्वा हरितोऽनेन सिद्धिदां सर्वकर्मसु ॥
विद्युतामर्चयेद्देवं सप्त त्वा हरितेन च
॥५४॥नवमीं पूजयेद्देवीं सततं सर्वतोमुखीम् ॥
मन्त्रेणानेन वै देवि उद्वयन्तमितीह वै
॥५५॥उद्यन्नद्य मित्रमहः प्रथममक्षरं जपेत् ॥
द्वितीयं पूजयेद्देवि शुकेषु मे हरिमेति वै
॥५६॥उदगादयमादित्यो ह्यनेनापि तृतीयकम् ॥
तत्सवितुर्वरेण्येति चतुर्थं परिकीर्तितम्
॥५७॥महाहिवो महायेति पञ्चमं परिकीर्तितम् ॥
हिरण्यगर्भः समवर्तत षष्ठं बीजं प्रकीर्तितम्
॥५८॥सविता पश्चातात्सविता सप्तमं वरवर्णिनि ॥
एवं बीजानि विन्यस्य आदित्यं स्थापयेच्छुभे
॥५९॥आदित्यं स्थापयित्वा तु पश्चादङ्गानि विन्यसेत्
॥६०॥आग्नेय्यां हृदयं न्यस्य ऐशान्यां तु शिरो न्यसेत् ॥
नैर्ऋत्यां तु शिखां चैव कवचं वायुगोचरे
॥६१॥अस्त्रं दिशासु विन्यस्य स्वबीजेन तु कर्णिकाम् ॥
अमोसि प्राणितेनेति अनेन हृदयं यजेत्
॥६२॥शिरस्तु पूजयेद्देवि आयुष्यं वर्चसेति वै ॥
गायत्र्या तु शिखां पूज्य नैर्ऋत्यां तु व्यवस्थिताम्
॥६३॥जीमूतस्येव भवति प्रत्येकं कवचं यजेत् ॥
धन्वन्नागा धन्वनेति अनेनास्त्रं सदाऽर्चयेत्
॥६४॥नेत्रं तु पूजयेद्देवि अश्विना तेजसेति च ॥
ह्यतः पूर्वतः सोमं दक्षिणेन बुधं तथा
॥६५॥पश्चिमेन गुरुं न्यस्य उत्तरेण च भार्गवम् ॥
आग्नेय्यां मङ्गलं न्यस्य नैर्ऋत्यां तु शनैश्चरम्
॥६६॥वायव्यां तु न्यसेद्राहुं केतुमीशानगोचरे ॥
आप्यायस्वेति मन्त्रेण देवि सोमं सदार्चयेत्
॥६७॥उद्बुध्यध्वं महादेवि बुधं तत्र सदार्चयेत् ॥
बृहस्पतेति मन्त्रेण पूजयेत्सततं गुरुम्
॥६८॥शुक्रः शुशुक्वानिति च भार्गवं देवि पूजयेत् ॥
अग्निर्मूर्द्धेति मन्त्रेण सदा मंगलमर्चयेत्
॥६९॥शमग्निरितिमन्त्रेण पूजयेद्भास्करात्मजम् ॥
कयानश्चित्रेतिमन्त्रेण देवि राहुं सदाऽर्चयेत्
॥७०॥केतुं कृण्वेति केतुं वै सततं पूजयेद्बुधः ॥
बाह्यतः पूर्वतः शुक्रं दक्षिणेन यमं तथा
॥७१॥ऐशान्यामीश्वरं विंद्यादाग्नेय्यामग्निरुच्यते ॥
नैऋतेति विरूपाक्षं पवनं वायुगोचरे
॥७२॥तमुष्टवाम इति वै ह्यनेनेन्द्रमथार्चयेत् ॥
उदीरतामवरेति सदा वैवस्वतं यजेत्
॥७३॥तत्त्वायामीति मन्त्रेण वरुणं देवि पूजयेत् ॥
इन्द्रासोमावत इति मन्त्रेण धनदं यजेत्
॥७४॥पावकं पूजयेद्देवि अग्निमीळे पुरोहितम् ॥
रक्षोहणं वाजिनेति विरूपाक्षं सदार्चयेत्
॥७५॥वायवायाहि मन्त्रेण वायुं देवि सदार्चयेत् ॥
यथाक्रममिमान्देवि सर्वान्वै पूजयेद्बुधः
॥७६॥बाह्यतः पूर्वतो देवि इन्द्रादीनां समन्ततः ॥
रक्तवर्णं महातेजं सितपद्मोपरि स्थितम्
॥७७॥सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ॥
द्विभुजं चैकवक्त्रं च सौम्यपञ्चकधृक्करम्
॥७८॥वर्त्तुलं तेजबिंबं तु मध्यस्थं रक्तवाससम् ॥
आदित्यस्य त्विदं रूपं सर्वलोकेषु पूजितम् ॥
ध्यात्वा संपूजयेन्नित्यं स्थंडिलं मण्डलाश्रयम्
॥७९॥देव्युवाच
मण्डलस्थः सुरश्रेष्ठ विधिना येन भास्करः ॥
पूज्यते मानवैर्भक्त्या स विधिः कथितस्त्वया
॥८०॥पूजयेद्विधिना येन भास्करं पद्मसंभवम् ॥
मूर्त्तिस्थं सर्वगं देवं तन्मे कथय शंकर
॥८१॥ईश्वर उवाच
साधुसाधु महादेवि साधु पृष्टोऽस्मि सुवते ॥
शृणुष्वैकमना देवि मूर्तिथं येन पूजयेत्
॥८२॥इषेत्वेति च मन्त्रेण उत्तमांगं सदार्चयेत् ॥
अग्निमीळेति मन्त्रेण पूजयेद्दक्षिणं करम्
॥८३॥अग्न आयाहि मन्त्रेण पादौ देवस्य पूजयेत् ॥
आजिघ्रेति च मन्त्रेण पूजयेत्पुष्पमालया
॥८४॥योगेयोगेति मन्त्रेण मुक्तपुष्पांजलिं क्षिपेत् ॥
समुद्रागच्छ यत्प्रोक्तमनेन स्नापयेद्रविम्
॥८५॥इमं मे गंगेति यत्प्रोक्तमनेनापि च भामिनि ॥
समुद्रज्येति मन्त्रेण क्षालयेद्विधिवद्रविम्
॥८६॥सिनीवालीति मन्त्रेण स्नापयेच्छंखवारिणा ॥
यज्ञं यज्ञेति मन्त्रेण कषायैः परिरक्षयेत्
॥८७॥स्नापयेत्पयसा देवि आप्यायस्वेति मंत्रतः ॥
दधिक्राव्णेति वै दध्ना स्नापयेद्विधिवद्रविम्
॥८८॥इमं मे गंगेति यत्प्रोक्तमनेनापि च भामिनि ॥
समुद्रज्येति मंत्रेण स्नानमौषधिभिः स्मृतम्
॥८९॥उद्वर्तयेत्ततो भानुं द्विपदाभिर्वरानने ॥
मानस्तोकेति मंत्रेण युगपत्स्नानमाचरेत्
॥९०॥विष्णोरराटमन्त्रेण स्नापयेद्गंधवारिणा ॥
सौवर्णेन तु मंत्रेण अर्घ्यं पाद्यं निवेदयेत्
॥९१॥इदं विष्णुर्विचक्रमे मंत्रेणार्घ्यं प्रदापयेत् ॥
वेदोसीति च मंत्रेण उपवीतं प्रदापयेत्
॥९२॥बृहस्पतेति मंत्रेण दद्याद्वस्त्राणि भानवे ॥
येन श्रियं प्रकुर्वाणः पुष्पमालां प्रपूजयेत्
॥९३॥धूरसीति च मंत्रेण धूपं दद्यात्सगुग्गलम् ॥
समिद्धोंजनमंत्रेण अंजनं तु प्रदापयेत्
॥९४॥युंजान इति मंत्रेण भानुं रोचनमालभेत् ॥
आरार्त्तिकं च वै कुर्याद्दीर्घायुत्वाय वै पुनः
॥९५॥सहस्रशीर्षा पुरुषः सूर्यं शिरसि पूजयेत् ॥
शंभवायेति मंत्रेण रवेर्नेत्रे परामृशेत्
॥९६॥विश्वतश्चक्षुरित्येवं भानोर्देहं समालभेत् ॥
श्रीश्च ते लक्ष्मीश्चेति सर्वांगे पूजयेद्रविम्
॥९७॥ईश्वर उवाच
अथ मेरोर्महादेवि अष्टशृंगस्य सुव्रते ॥
पूजाविधानमंत्रांस्ते कथयामि समासतः
॥९८॥अष्टशृंगं महादेवि अनेन विधिनाऽर्चयेत् ॥
प्रथमं पूजयेन्मध्ये मंत्रेणानेन सुव्रते
॥९९॥महाहिवोमहायेति नानापुष्पकदंबकैः ॥
त्रातारमिंद्रमंत्रेण पूर्वशृंगं सदार्चयेत्
॥१००॥तमुष्टवामेति मंत्रेण पूजयेत्सुरसुन्दरि ॥
अग्निमीळे पुरोहितमाग्नेयं शृंगमर्चयेत्
॥१०१॥आग्नेय्या चैव गायत्र्या अथवानेन पूजयेत् ॥
यमाय त्वा मखाय त्वा दक्षिणं शृंगमर्च येत्
॥१०२॥उदीरतामवरेप्यथवानेन पूजयेत् ॥
आयं गौरिति मंत्रेण नैर्ऋत्यं शृङ्गमर्चयेत्
॥१०३॥रक्षोहणं वाजिनं वा पूजयेदसुरांतिकम् ॥
इंद्रासोमा च यो मंत्रो ह्यथवा तेन पूजयेत्
॥१०४॥अभि त्वा सूर नोन्विति चैशानं शृंगमर्चयेत् ॥
येनेदं भूतमिति वा अथवानेन पूजयेत्
॥१०५॥नमोस्तु सर्पेभ्य इति मेरुपीठं सदाऽर्चयेत् ॥
हिरण्यगर्भः समवर्त्ततेति पुनर्मध्ये सदार्चयेत्
॥१०६॥सविता पश्चातादिति वै पूजयेत्पुष्प मालया ॥
त्रिकालमर्चयेद्देवि प्रदद्यादर्घ्यमादरात्
॥१०७॥माता रुद्राणां दुहिता वसूनां पूर्वाह्ने चैव पूजयेत् ॥
मध्याह्ने पूजयेद्देवि तद्विष्णोः परमं पदम्
॥१०८॥हँसः शुचिषदिति वा अपराह्णे सदार्चयेत् ॥
एवं भानुं ग्रहैः सार्द्ध पूजयेद्वरवर्णिनि
॥१०९॥देव्युवाच
यानि पुष्पाणि चेष्टानि सदा भास्करपूजने ॥
कानि चोक्तानि देवेश कथयस्व प्रसादतः
॥११०॥ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि पुष्पा ध्यायमनुत्तमम् ॥
येन चार्कस्थले देवि शीघ्रं तुष्यति पूजितः
॥१११॥मालतीकुसुमैः पूजा भवेत्सांनिध्यकारिका ॥
मल्लिकायाश्च कुसुमैर्भोगवाञ्जायते नरः
॥११२॥सौभाग्यं पुंडरीकैस्तु भवत्यर्थश्च शाश्वतः ॥
कदंबपुष्पैर्देवेशि परमैश्वर्यमश्नुते
॥११३॥भवत्यक्षयमन्नं च बकुलै रर्चने रवेः ॥
मंदारपुष्पकैः पूजा सर्वकुष्ठविनाशिनी
॥११४॥बिल्वस्य पत्रकुसुमैमहतीं श्रियमश्नुते ॥
अर्कस्रजा भवत्यर्थः सर्वकामफलप्रदः
॥११५॥प्रदद्याद्रूपिणीं कन्यां पूजितो बकुलस्रजा ॥
किंशुकैरर्चितो देवि न पीडयति भास्करः
॥११६॥अगस्तिकुसुमैस्तद्वदानुकूल्यं प्रयच्छ ति ॥
करवीरैस्तु देवेशि सूर्यस्यानुचरो भवेत्
॥११७॥शतपत्रस्रजा देवि सूर्यसालोक्यतां व्रजेत् ॥
बकपुष्पैर्महादेवि दारिद्यं नैव जायते
॥११९॥ऋतुकुसुमेन गन्धेन समभ्यर्च्य दिवाकरम् ॥
चतुःसमुद्रमर्यादां स भुंक्ते पृथिवीमिमाम्
॥११९॥यः सूर्यायतनं भक्त्या गैरिकेणोपलेपयेत् ॥
प्राप्नुयान्महतीं लक्ष्मीं रोगैश्चापि प्रमुच्यते
॥१२०॥अष्टादशेह कुष्ठानि ये चान्ये व्याधयो नृणाम् ॥
प्रलयं यांति ते सर्वे मृदा यद्युपलेपयेत्
॥१२१॥विलेपनानां सर्वेषां कुंकुमं रक्तचंदनम् ॥
पुष्पाणां करवीराणि प्रशस्तानि वरानने
॥१२२॥नातः परतरं किंचिद्भास्वतस्तुष्टिकारकम् ॥
यादृशं कुङ्कुमं जाती शतपत्रं तथाऽगुरुः
॥१२३॥किं तस्य न भवेल्लोके यश्चैभिश्चार्चयेद्रविम् ॥
उपलिप्यालयं यस्तु कुर्यान्मंडलकं शुभम्
॥१२४॥एकेनास्य भवेदर्थो द्वाभ्यामारोग्यमश्नुते ॥
त्रिभिस्तु सर्वविद्यावांश्चतुर्भिर्भोगवान्भवेत्
॥१२५॥पंचभिर्विपुलं धान्यं षड्भिरायुर्बलं यशः ॥
सप्तमण्डलतारी स्यान्मंडलाधिपतिर्नरः
॥१२६॥घृतदीपप्रदानेन चक्षुष्माञ्जायते नरः ॥
कटुतैलस्य दीपेन स्वं शत्रुं जयते नरः
॥१२७॥तैलदीपप्रदानेन सूर्यलोके महीयते ॥
मधूकतैलदीपेन सौभाग्यं परमं लभेत् ॥
पुष्पाणां प्रवरा जाती धूपानां विजयः परः ॥
गन्धानां कुंकुमं श्रेष्ठं लेपानां रक्तचंदनम्
॥१२९॥दीपदाने घृतं श्रेष्ठं नैवेद्ये मोदकः परम् ॥
एतैस्तुष्यति देवेशः सांनिध्यं चाधिगच्छति
॥१३०॥एवं संपूज्य विधिवत्कृत्वा पितृप्रदक्षिणाम् ॥
प्रणम्य शिरसा देवं तत्र चार्कस्थलं प्रिये
॥१३१॥सुखासीनस्ततः पश्येद्रवेरभिमुखे स्थितः ॥
एकं सिद्धार्थकं कृत्वा हस्ते पानीयसंयुतम्
॥१३२॥कामं यथेष्टं हृदये कृत्वार्कस्थलसन्निधौ ॥
पिबेत्सतोयं तद्देवि ह्यस्पृष्टं दशनैः सकृत्
॥१३३॥एवं कृत्वा नरो देवि कोटियात्राफलं लभेत् ॥
ब्रह्मा विष्णुर्महादेवो ज्वलनो धनदस्तथा
॥१३४॥भानुमाश्रित्य सर्वे ते मोदन्ते दिवि सुव्रते ॥
तस्माद्भानुसमं देवं नाहं पश्यामि कञ्चन
॥१३५॥इति कृत्वा महादेवि पुनर्भानौ प्रदक्षिणम् ॥
कुर्यान्मन्त्रेण देवेशि सप्तकृत्वो वरानने
॥१३६॥तमुष्टवाम इति ऋक्प्रथमा परिकीर्तिता ॥
एतोन्विन्द्रं स्तवामेति द्वितीया परिकीर्तिता
॥१३७॥इंद्र शुद्धो न आगहि तृतीया परिकीर्तिता ॥
इन्द्रं शुद्धो हि नो रयिं चतुर्थी परिकीर्तिता
॥१३८॥अस्य वामस्येति शुभे पञ्चमी परिकीर्तिता ॥
त्रिभिष्ट्वं देव इति वै षष्ठी च परिकीर्तिता
॥१३९॥दश सामानि वै यानि प्रवराणि मनीषिभिः ॥
गीतानि सामगैर्नित्यं सप्तमीं तैस्तु कारयेत्
॥१४॥तानि ते कथयाम्यद्य दश सामानि सुन्दरि ॥
हुंकारः प्रणवोद्गीथः प्रस्तावश्च चतुष्टयम्
॥१४१॥पञ्चमं प्रहरो यत्र षष्ठमारण्यकं तथा ॥
निधनं सप्तमं साम्नां सप्तसिद्धिमिति स्मृतम्
॥१४२॥पञ्चविध्यमिति प्रोक्तं ह्रींकारप्रणवेन तु ॥
अष्टमं च तथा साध्यं नवमं वामदेवकम्
॥१४३॥ज्येष्ठं तु दशमं साम वेधसे प्रियमुत्तमम् ॥
एतेषां देवि साम्नां वै जाप्यं कार्यं विधानतः
॥१४४॥ज्येष्ठसामपरं चैव द्वितीयं गदतः शृणु ॥
न च श्राव्यं द्वितीयं तु जप्तव्यं मुक्तिमिच्छता
॥१४५॥तज्जाप्यं परमं प्रोक्तं स्वयं देवेन भानुना ॥
जाप्यस्य विनियोगोऽस्य लक्षणं च निबोध मे ॥
स्तोभसारं श्वासलीनमोंकारादि स्मृतं बुधैः
॥१४६॥ऊर्भानुश्च तथा धर्मं धर्मः सत्यं ह्यृत तथा ॥
धर्मं ये धर्मवद्धर्मे धर्मे वै निधनं गताः
॥१४७॥यदेभिश्च यजेच्छब्दैरुचितं सामगैर्द्विजैः ॥
जाप्यं चैतत्परं प्रोक्तं स्वयं देवेन भानुना
॥१४८॥एतद्वै जप्यमानस्तु पुनरावर्तते न तु ॥
सर्वरोगविनिर्मुक्तो मुच्यते ब्रह्महत्यया
॥१४९॥आज्यदोहाद्यदोहेति ज्येष्ठसाम्नोऽपि लक्षणम्
॥१५०॥इति संपूज्य देवेशं ततः कुर्यात्परां स्तुतिम् ॥
ऋग्भिर्वे पंचभिश्चैव शृणुष्वैकमनास्तु ताः
॥१५१॥उक्षाणं पृश्निमिति वै प्रथमा परिकीर्तिता ॥
चत्वारि वाक्परीति वै द्वितीया परिकीर्तिता
॥१५२॥इंद्रं मित्रं तृतीया तु ऋक्चैव परिकीर्तिता ॥
कृष्णं नियानं हि तथा चतुर्थी परिकीर्तिता
॥१५३॥द्वादशप्रथम इति पंचमी परिकीर्तिता ॥
यो रत्नवाहीत्यनया किरीटं योजयेद्रवेः
॥१५४॥गतेहनामित्यनया अव्यंगं भास्करं न्यसेत् ॥
अनेन विधिना देवि पूजयेद्विधिवद्रविम्
॥१५५॥इत्येष ते मया ख्यातः प्रतिमापूजने विधिः
॥१५६॥अनेनविधिना यस्तु सततं पूजयेद्रविम् ॥
स प्राप्नोत्यधिकान्कामानिह लोके परत्र च
॥१५७॥पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥
कन्यार्थी लभते कन्यां विद्यार्थी वेदविद्भवेत्
॥१५८॥निष्कामः पूजयेद्यस्तु स मोक्षं याति वै ध्रुवम् ॥
अस्य क्षेत्रस्य माहात्म्यादर्कसूर्यप्रभावतः
॥१५९॥अन्यत्र ब्राह्मणानां च कोटिना यत्फलं लभेत् ॥
अर्कस्थले तथैकेन भोजितेन तु तत्फलम्
॥१६०॥स्नानं दानं जपो होमः सूर्यपर्वणि यत्कृतम् ॥
तत्सर्वं कोटिगुणितं सूर्यकोटिप्रभावतः
॥१६१॥माघमासे नरो यस्तु सप्तम्यां रविवासरे ॥
कृष्णपक्षे महादेवि जागरं श्रद्धयाऽऽचरेत् ॥
अर्कस्थलसमीपे तु स याति परमां गतिम्
॥१६२॥गोशतस्य प्रदत्तस्य कुरुक्षेत्रे च यत्फलम् ॥
तत्फलं समवाप्नोति तत्रार्कस्थलदर्शनात्
॥१६३॥अर्कस्थलः पूजनीयस्तत्र स्थाने निवासिभिः ॥
जपापुष्पैरर्कपुष्पै रोगिभिस्तु विशेषतः
॥१६४॥न च पत्रोर्णकुसुमैर्न चैवोन्मत्तसंभवैः ॥
न चाम्रातकजैः पुष्पैरर्चनीयो दिवाकरः
॥१६५॥आम्रातकस्य कुसुमं निर्माल्यमिव दृश्यते ॥
अप्रत्यग्रं बहिर्यस्मात्तस्मात्तत्परिवर्जयेत्
॥१६६॥नाविज्ञातं प्रदातव्यं न म्लानं न च दूषितम् ॥
न च पर्य्युषितं माल्यं दातव्यं भूतिमिच्छता
॥१६७॥देवमुल्लोचयेद्यस्तु तत्क्षणात्पुष्पलोभतः ॥
पुष्पाणि च सुगन्धानि भोजकेनेतराणि च
॥१६८॥ब्रह्महत्यामवाप्नोति भोजको लोभमोहितः ॥
महारौरवमासाद्य पच्यते शाश्वतीः समाः
॥१६९॥हन्त ते कीर्त्तयिष्यामि धूपदानविधिं परम् ॥
प्रदानाद्देवदेवस्य येन धूपेन यत्फलम्
॥१७०॥सदार्चने च धूपेन सामीप्यं कुरुते रविः ॥
प्रदद्यात्सकलं कामं यद्यदिच्छति मानवः
॥१७१॥तथैवागुरुधूपेन निधिं दद्यादभीप्सितम् ॥
आरोग्यार्थी धनार्थी च नित्यदा गुग्गलं दहेत्
॥१७२॥पिंडातधूपदानेन सदा तुष्यति भानुमान् ॥
आरोग्यं च स्वयं दद्यात्सौख्यं च परमं भवेत्
॥१७३॥श्रीवासकस्य धूपेन वाणिज्यं सकलं लभेत् ॥
रसं सर्जरसं चैव दहतोऽर्थागमो भवेत्
॥१७४॥देवदारुं च दहतो भवत्यन्नमथाक्षयम्।
. विलेपनं कुंकुमेन सर्वकामफलप्रदम्
॥१७५॥इह लोके सुखी भूत्वा अक्षयं स्वर्गमाप्नुयात् ॥
चंदनस्य प्रलेपेन श्रियमायुश्च विंदति
॥१७६॥रक्तचन्दनलेपेन सर्वं दद्याद्दिवाकरः ॥
अपि रोगशतैर्ग्रस्तः क्षेममारोग्यमाप्नुयात्
॥१७७॥गतिगंधं च सौभाग्यं परमं विंदते नरः ॥
कस्तूरिकामर्दनकैरैश्वर्यमतुलं लभेत्
॥१७८॥कर्पूरसंयुतैर्गंधैः क्ष्माधिपाधिपतिभवेत् ॥
चतुःसमेन गंधेन सर्वा न्कामानवाप्नुयात्
॥१७९॥एतत्ते कथितं देवि सूर्यमाहात्म्यमुत्तमम् ॥
सविस्तरं मया ख्यातं किमन्यत्परिपृच्छसि
॥१८०॥देव्युवाच
यद्येवं भगवान्सूर्यः सर्वतेजस्विनां वरः ॥
स कथं ग्रस्यते देव सैंहिकेयेन राहुणा
॥१८१॥ईश्वर उवाच
शृणु दैवि प्रवक्ष्यामि सर्व पापप्रणाशनम् ॥
कारणं ग्रहणस्यापि भ्रांतेर्विच्छेदकारकम्
॥१८२॥राहुरादित्यबिंबस्याधस्तात्तिष्ठति भामिनि ॥
अमृतार्थी विमानस्थो यावत्संस्रवतेऽमृतम्
॥१८३॥बिंबेनांतरितो देवि आदित्यग्रहणं हि तत् ॥
न कश्चिद्ग्रसितुं शक्त आदित्यो दहति ध्रुवम्
॥१८४॥ब्रह्मादयस्तमर्चंति स आदिः सर्वनाकिनाम् ।
१ आदित्यदेहजाः सर्वे तथान्ये देवदानवाः
॥१८५॥आदिकर्त्ता स्वयं यस्मादादित्यस्तेन चोच्यते ॥
प्रभासे संस्थितो देवः सर्वपातकनाशनः
॥१८६॥भुक्तिमुक्तिप्रदो देवो व्याधिदुष्कृतनाशकृत् ॥
तत्र सिद्धाः पुरा देवि लोकपाला महर्षयः
॥१८७॥सिद्धा विद्या धरा यक्षा गंधर्वा मुनयस्तथा ॥
धनदोऽपि तथा भीष्मो ययातिर्गालवस्तथा
॥१८८॥सांबश्चैव तथा देवि परां सिद्धिमितो गताः ॥
इदं रहस्यं देवेशि सूर्यमाहात्म्यमुत्तमम्
॥१८९॥न देयं दुष्टबुद्धीनां पापिनां च विशेषतः ॥
न नास्तिकेऽश्रद्दधाने न क्रूरं वा कथंचन
॥१९०॥इमां कथामनुब्रूयात्तथा नाऽसूयके शिवे ।
इदं पुत्राय शिष्याय धर्मिणे न्यायवर्तिने
॥१९१॥कथनीयं महाब्रह्म सूर्यभक्ताय सुव्रते ॥
अर्कस्थलस्य देवस्य माहात्म्यमिदमुत्तमम्
॥१९२॥यः श्राद्धे श्रावयेद्देवि ब्राह्मणान्संशितव्रतान् ॥
तस्यानंतं भवेद्देवि यद्दानं पुरुषस्य वै
॥१९३॥यत्रेदं कीर्त्त्यते पुण्यं संपदस्तत्र वै सदा ।
१ यातुधाना न हिंसंति तच्छ्राद्धं भयविह्वलाः
॥१९४॥पंक्तिपावनतां यांति येऽपि वै पंक्तिदूषकाः ॥
सुतवाञ्जन्मवांश्च स्यात्सर्वकाममनोरमः
॥१९५॥प्रवासिभिर्बंधुवर्गैः संयुज्येत सदा नरः ॥
नष्टैः संयुज्यते चार्थैरपरैश्चापि चिंतितैः
॥१९६॥रक्ष्यते यागिनीभिश्च प्रियैश्च न वियुज्यते ॥
उपस्पृश्य शुचिर्भूत्वा शृणुयाद्ब्राह्मणः सदा ॥
सर्वान्कामांश्च लभते नात्र कार्या विचारणा
॥१९७॥वैश्यः समृद्धिमतुलां क्षत्रियः पृथिवीपतिः ॥
वणिजश्चापि वाणिज्यमखंडं शतसंख्यया ॥
लभेयुः कीर्तनादस्याः सूर्योत्पत्तेर्वरानने
॥१९८॥शूद्राश्चैवाभिलषितान्कामान्प्राप्स्यंति भामिनि ॥
अपमृत्युभयं घोरं मृत्युतोऽपि महाभयम् ॥
नश्यते नात्र संदेहो राजद्वारकृतं च यत् ॥
सर्वकामसमृद्धात्मा सूर्यलोके महीयते
॥२००॥इत्येतत्कथितं देवि माहात्म्यं सूर्यदैवतम् ॥
अर्कस्थलप्रसंगेन किमन्यच्छ्रोतुमिच्छसि
॥२०१॥स्थानं शाश्वतमोजसां गतिरपां दीपो दिशामक्षयः सिद्धेर्द्वारमपावभेदि जगतां साधारणं लोचनम् ॥
हैमं पुष्करमंतरिक्षसरसो दीप्तं दिवः कुण्डलं कालोन्मानविभावनाक्षतलयं बिंबं रवेः पातु वः
॥२०२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽर्क्कस्थलमाहात्म्यार्कस्थलपूजाविधानादिवर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥