मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १४८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 148

ततो गच्छेन्महादेवि कूपं कुंडलसंभवम्

ईश्वर उवाच

ततो गच्छेन्महादेवि कूपं कुंडलसंभवम् ॥

तस्यैव चोत्तरे भागे ब्रह्मकुण्डसमीपतः

॥१॥

यत्र सिद्धो महादेवि रूपकुंडलहारकः ॥

तत्र स्नात्वा नरो देवि मुच्येत्स्तेयकृतादघात्

॥२॥

सप्त जन्मानि देवेशि न तस्यान्वयसंभवः ॥

चौरः कश्चिद्भवेत्क्रूरस्तत्र स्नानप्रभावतः

॥३॥

शिवरात्र्यां विशेषेण पिंडदानादिकां क्रियाम् ॥

कुर्याच्छस्त्रहतानां च पापिनां तत्र मुक्तये

॥४॥

देव्युवाच

कथं कुण्डलरूपं तु पृथिव्यां ख्यातिमागतम् ॥

एतत्कथय मे देव विस्तराद्वदतां वर

॥५॥

ईश्वर उवाच

शृणु देवि महापुण्यां कथां पापप्रणाशनीम् ॥

यां श्रुत्वा मुच्यते पापान्नरो जन्मशतार्जितात्

॥६॥

प्रभासक्षेत्रमाहात्म्याच्छिवरात्र्यामुपोषितः ॥

आसीत्सुदर्शनो राजा पृथिव्यामेकराट् सुधीः

॥७॥

धन्यो हि स धनाढ्यश्च प्रजां यत्नैरपालयत् ॥

राज्यं तस्य सुसंपन्नं ब्राह्मणैरुपशोभितम् ॥

समृद्धमृद्धिसंयुक्तं विटतस्करवर्जितम्

॥८॥

तस्मिञ्जनपदे रम्ये पुरी भगवती शुभा ॥

चातुर्वर्ण्यसमायुक्ता पुरप्राकारमंडिता

॥९॥

तस्मिन्पुरवरे रम्ये राज्यं निहतकण्टकम् ॥

करोति बान्धवैः सार्द्धमृद्धियुक्तः सुदर्शनः ॥

हिरण्यदत्तस्य सुतो जातो गांधारकन्यया

॥१०॥

तस्य भार्या प्रिया साध्वी भर्तृव्रतपरायणा ॥

सुनंदा नामविख्याता काशिराजसुता शुभा

॥११॥

तया सार्धं हि राजेन्द्रो भोगान्स बुभुजे सदा ॥

भुंजमानस्य भोगान्वै चिरकालो गतस्तदा

॥१२॥

अकरोत्स महायज्ञान्ददौ दानानि भूरिशः ॥

एवं कालो गतस्तस्य भार्यया सह सुव्रते

॥१३॥

कदाचिन्माघमासे तु शिवरात्र्यां वरानने ॥

सस्मार पूर्वजातिं स भार्यामाहूय चाब्रवीत्

॥१४॥

सुदर्शन उवाच

शिवरात्रिव्रतं देवि मया कार्यं वरानने ॥

व्रतस्यास्य प्रभावेन प्राप्तं राज्यं मया किल

॥१५॥

राज्ञ्युवाच

महान्प्रभावो राजेन्द्र एवमुक्तं त्वया मम ॥

एतन्मे कारणं ब्रूहि आश्चर्यं हृदि वर्तते

॥१६॥

राजोवाच

शृणु तीर्थस्य माहात्म्यं शिवरात्रिमुपोषणात् ॥

तस्मिञ्छिवपुरे रम्ये स्वर्गद्वारे सुशोभने

॥१७॥

आदितीर्थे प्रभासे तु कामिके तीर्थ उत्तमे

॥१८॥

ऋद्धियुक्ते पुरे तस्मिन्नित्यं धर्मानुसेविते ॥

शिवरात्र्यां गतो राज्ञि तिथीनामुत्तमा तिथिः

॥१९॥

मानवास्तत्र ये केचित्पुरराष्ट्रनि वासिनः ॥

तत्रागता वरारोहे शिवरात्र्यामुपोषितुम्

॥२०॥

धननामा वणिक्कश्चित्तत्रैव वसते सदा ॥

धनाढ्यः स तु धर्मात्मा सदा धर्मपरायणः

॥२१॥

स भार्यासहितस्तत्र शिवरात्रिमुपोषितः ॥

तस्य भार्याऽभवत्साध्वी रूपयौवनसंवृता

॥२२॥

प्रचलन्मेखलाहारा सर्वाभरणभूषिता ॥

स तया भार्यया सार्धं कामक्रोधविवर्जितः

॥२३॥

प्रभासस्याग्रतो भूत्वा स्नातः शुक्लांबरः शुचिः ॥

यथोक्तेन विधानेन भक्त्या निद्राविवर्जितः

॥२४॥

तत्राहं चौररूपेण पापः स्तैन्यं समाश्रितः ॥

सच्छूद्राणां कुले जातो देवब्राह्मणपूजकः

॥२५॥

पूर्वकर्मानुसंयोगाद्विकर्मणि रतः सदा ॥

तस्यां रात्र्यामहं तत्र जनमध्ये तु संस्थितः

॥२६॥

कुण्डलीनः स्थितस्तत्र रंध्रापेक्षी वरानने ॥

वणिजस्तस्य भार्यायाश्छिद्रान्वेषणतत्परः

॥२७॥

सा रात्रिर्जाग्रतस्तस्य गता मे विजने तथा ॥

गीतनृत्यादिनिर्घोषैर्वेदमंगलपाटकैः

॥२८॥

तालशब्दैस्तथा बन्धैः पुस्तकानां च वाचकैः ॥

एवं रात्र्यां तु शेषायां यावत्तिष्ठति तत्र वै

॥२९॥

निरोधेन समायुक्ता पीड्यमाना शुचिस्मिता ॥

धनिभार्या निरोधार्ता देवागाराद्बहिर्गता

॥३०॥

तस्याः कर्णौ त्रोटयित्वा पुप्लुवेऽहं जले स्थितः ॥

ततः कोलाहलस्तत्र कृतस्तत्पुरवासिभिः

॥३१॥

श्रुत्वा कोलाहलं शब्दं कर्णत्रोटनजं तदा ॥

धाविता रक्षकास्तत्र राजशासनकारकाः

॥३२॥

तैरहं शस्त्रहस्तैश्च उल्काहस्तैः समंततः ॥

निरीक्षितोऽथ न प्राप्तं सुवर्णं मन्मुखे स्थितम्

॥३३॥

खड्गेन तीक्ष्णधारेण छित्त्वा शीर्षं तदा मम ॥

उल्काहस्ता निरीक्षन्तो नापश्यन्स्वर्णमण्वपि

॥३४॥

हित्वा मां ते गताः सर्वे गत्वा राज्ञे न्यवेदयन् ॥

न किञ्चित्तत्र संप्राप्तं हतोऽस्माभिश्च तत्क्षणात्

॥३५॥

कथयित्वा तु ते सर्वे यथादेशं गताः पुनः ॥

ततो वै बन्धुना तत्र भयभीतेन चेतसा

॥३६॥

निखातं मम तत्रैव शिरः कायेन संयुतम् ॥

खातं कृत्वा प्रिये तत्र ब्रह्मतीर्थस्य चोत्तरे

॥३७॥

पिहितोऽहं तु तत्रैव प्रभासे तीर्थ उत्तमे ॥

शिवरात्रिप्रभावेन तज्जातिस्मरतां गतः

॥३८॥

राज्यं निष्कण्टकं प्राप्तं समृद्धं वरवर्णिनि ॥

एतत्प्रभासमाहात्म्यं शिवरात्रेरुपोषणात् ॥

एतत्फलं मया लब्धं गत्वा तस्मादुपोषये

॥३९॥

राज्ञ्युवाच

गच्छावस्तत्र यत्रैव कपालं पतितं तव ॥

स्फोटिते च कपाले च हिरण्यं दृश्यते यदि ॥

प्रत्ययो मे भवेत्पश्चात्तव वाक्यं न संशयः

॥४०॥

राजोवाच

कल्पं हि तिष्ठते चास्थि यावद्भूमिविपर्ययः ॥

उत्तिष्ठ व्रज भद्रं ते प्रभासं क्षेत्रमुत्तमम्

॥४१॥

तस्य तद्वचनं श्रुत्वा यद्राज्ञा समुदीरितम् ॥

गमनाय मतिं चक्रे शिवरात्र्या उपोषणे

॥४२॥

ततोऽश्वैर्जवनैयुर्क्तं रथं हेमविभूषितम् ॥

आस्थाय सह पत्न्या च प्रभासं क्षेत्रमेयिवान्

॥४३॥

व्रतं कृत्वा प्रभासे तु यथोक्तं वरवर्णिनि ॥

ब्रह्मतीर्थे समागत्य उद्धृत्य सकलं ततः

॥४४॥

हिरण्यं दर्शयामास स्फोटयित्वा शवं स्वयम्

॥४५॥

ईश्वर उवाच

जातसंप्रत्यया भार्या तस्य राज्ञो बभूव ह ॥

जगाम परमं स्थानं यत्र कल्याणमुत्तमम्

॥४६॥

जनोऽपि विस्मितः सर्वो दृष्ट्वा चित्रं तदद्भुतम्

॥४७॥

नदी चित्रपथानाम तत्रोत्पन्ना वरानने ॥

चित्रादित्यस्य पूर्वेण ब्रह्मतीर्थस्य चोत्तरे

॥४८॥

तस्यां तत्तिष्ठते तत्र सर्वपापप्रणाशनम्

॥४९॥

श्रावणे मासि संप्राप्ते तस्मिन्कूपे विधानतः ॥

यः स्नानं कुरुते देवि श्राद्धं तत्र विशेषतः

॥५०॥

चित्रादित्यं तु संपूज्य शिवलोके महीयते

॥५१॥

एतत्ते कथितं सर्वं शिवरात्र्या महत्फलम् ॥

भुक्तिमुक्तिप्रदं पुण्यं सर्वपापप्रणाशनम्

॥५२॥

य इदं पठते नित्यं शृणुयाद्वापि मानवः ॥

सर्वपापविनिर्मुक्तो रुद्रलोके महीयते

॥५३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभास क्षेत्रमाहात्म्ये कुण्डलकूपमाहात्म्यवर्णनंनामाष्टाचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४८ ॥