दक्षयज्ञविध्वंसनः
ईश्वर उवाच
ततो गच्छेन्महादेवि तस्य दक्षिणतः स्थितम् ॥
सरस्वत्यास्तटे रम्ये देवं तत्र कृतस्मरम्
॥१॥स्वयंभूतं महादेवि सर्वपापप्रणाशनम् ॥
तस्योत्पत्तिं प्रवक्ष्यामि यथा जातं महीतले
॥२॥पुरा कामो मया दग्धो यदा तत्र वरानने ॥
तदा रतिः समागम्य विललाप सुदुःखिता
॥३॥तां तु शोकातुरां दृष्ट्वा तत्राहं करुणान्वितः ॥
अवोचं मा रुदिष्वेति तव भर्ता पुनः शुभे ॥
समुत्थास्यति कालेन मत्प्रसादान्न संशयः
॥४॥देव्युवाच
किमर्थं स पुरा दग्धः कामदेवस्त्वया विभो ॥
कथमाप पुनर्जन्म विस्तरात्कथयस्व मे
॥५॥ईश्वर उवाच
दक्षः प्रजापतिः पूर्वं बभूव त्वत्पिता प्रिये ॥
शतं सुतानां जज्ञेऽस्य गौरीणां दीर्घचक्षुषाम्
॥६॥ददौ त्वां प्रथमं मह्यं सतीनामेति कीर्तिताम् ॥
ददौ दश च धर्माय श्रद्धा मेधा धृतिः क्षमा
॥७॥अनसूया शुचिर्लज्जा स्मृतिः शक्तिः श्रुतिस्तथा ॥
द्वे भार्ये कामदेवाय रतिः प्रीतिस्तथैव च
॥८॥एकां स्वाहां ददौ वह्नेः पितॄणां च ततः स्वधाम् ॥
सप्तविंशच्छशाङ्काय अश्विन्याद्याः प्रकीर्तिताः
॥९॥तवापि विदिता देवि रेवत्यन्तास्तथा जने ॥
कश्यपाय ददौ देवि स तु कन्यास्त्रयोदश
॥१०॥अदितिश्च दितिश्चैव विनता कद्रुरेव च ॥
सिंहिका सुप्रभा चैव उलूकी या वरानने
॥११॥अनुविद्धा सिता चैव ईर्ष्या हिंसा तथा परा ॥
माया निष्कृतिसंयुक्ता दक्षः पूर्वं महामतिः
॥१२॥गौरी च सुप्रभा चैव वार्त्ता साध्वी सुमालिका ॥
वरुणाय ददौ पञ्च तदाऽसौ पर्वतात्मजे
॥१३॥भद्रा च मदिरा चैव विद्या धन्या धना शुभा ॥
ददौ पञ्च कुबेराय पत्न्यर्थं पर्वतात्मजे
॥१४॥जया च विजया चैव मधुस्पन्दा इरावती ॥
सुप्रिया जनका कान्ता सुभद्रा धार्मिका शुभा
॥१५॥रुद्राणां प्रददौ कन्या दशानां धर्मवित्तदा ॥
प्रभावती सुभद्रा च विमला निर्मलाऽनृता
॥१६॥तीव्रा दक्षारुणा विद्या धारपाला च वर्चसा ॥
आदित्यानां ददौ दक्षः कन्याद्वादशकं प्रिये
॥१७॥योगनिद्राभिभूतस्य संसर्पा सरमा गुहा ॥
माला चंपा तथा ज्योत्स्ना स विश्वेभ्यश्च एव च
॥१८॥अश्विभ्यां द्वे तथा कन्ये सुवेषा भूषणा शुभा ॥
एका कन्या तथा वायोर्दत्ता एताः प्रकीर्तिताः
॥१९॥सावित्रीं ब्रह्मणे प्रादाल्लक्ष्मीं विष्णोर्महात्मनः ॥
कस्यचित्त्वथ कालस्य स ईजे दक्षिणावता
॥२०॥यज्ञेन पर्वतसुते हिमवन्ते महागिरौ ॥
यज्ञवाटो ह्यभूत्तस्य सर्वकामसमृद्धिमान्
॥२१॥तस्मिन्यज्ञे समायाता आदित्या वसव स्तथा ॥
विश्वेदेवाश्च मरुतो लोकपालाश्च सर्वशः
॥२२॥ब्रह्मा विष्णुः सहस्राक्षो वारुणो यम एव च ॥
धनदश्च कुमारश्च तथा नद्यश्च सागराः
॥२३॥वाप्यः कूपास्तथा चैव तडागाः पल्वलानि च ॥
सुपर्णश्चाथ ये नागाः सर्वे मूर्ता व्यवस्थिताः
॥२४॥दानवाप्सरसश्चैव यक्षाः किन्नरगुह्यकाः ॥
सानुगास्ते सभार्याश्च वेदवेदांगपारगाः
॥२५॥महर्षयो महाभागास्तथा देवर्षयश्च ये ॥
ते भार्यासहितास्तत्र वसंति च वरानने
॥२६॥कपालमालाभरणश्चिताभस्म बिभर्ति यः ॥
अपवित्रतया शंभुर्नाहूतस्तु तथाविधः
॥२७॥यतस्ततः समायाताः कैलासे पर्वतोत्तमे ॥
अश्विन्याद्या भगिन्यस्तास्त्वां प्रतीदं वचोऽबुवन्
॥२८॥किं तुष्टेव च कल्याणि तिष्ठसि त्वं सुमध्यमे ॥
वयं च प्रस्थिताः सर्वाः पितुर्यज्ञे सभर्तृकाः
॥२९॥वयमाकारितास्तेन सुताः सर्वा यशस्विनि ॥
न त्वामाहूतवान्दक्षस्त्रपते शंकराद्यतः
॥३०॥तासां वचनमाकर्ण्य सती प्राह क्रुधान्विता ॥
हा धिग्दक्ष दुराचार किं वदिष्ये महेश्वरम्
॥३१॥कथं संदर्शये वक्त्रमित्युक्त्वाऽऽत्मानमात्मना ॥
विससर्ज तपोयोगात्सस्मारान्यन्न किञ्चन
॥३२॥अथ दृष्ट्वा महादेवः सतीं प्राणैर्विना स्थिताम् ॥
अवमानात्तथाऽऽत्मानं त्यक्त्वा मत्वा कपालिनम्
॥३३॥गणान्संप्रेषयामास यज्ञविध्वंसनाय च ॥
ते गताश्च गणा रौद्राः शतशोऽथ सहस्रशः
॥३४॥विकृता विकृताकारा असंख्याता महाबलाः ॥
रुद्रेण प्रेरितान्दृष्ट्वा वीरभद्रपुरोगमान्
॥३५॥ततो देवगणाः सर्वे वसवः सह भास्करैः ॥
विश्वेदेवाश्च साध्याश्च धनुर्हस्ता महाबलाः
॥३६॥युद्धाय च विनिष्क्रान्ता मुञ्चन्तः सायकाञ्छितान् ॥
ते समेत्य ततोऽन्योन्यं प्रमथा विबुधैः सह
॥३७॥मुमुचुः शरवर्षाणि वारिधारां यथा घनाः ॥
तेषां हस्ती गणेनाथ शूलेन हृदि भेदितः
॥३८॥स तु तेन प्रहारेण विसंज्ञो निषसाद ह ॥
अथ मुष्ट्या हतः कुम्भे नाग ऐरावणस्तदा
॥३९॥सहसा स हतस्तेन वारणो भैरवान्रवान् ॥
विनदञ्जवमास्थाय यज्ञवाटमुपाद्रवत्
॥४०॥विश्वेदेवा निरुच्छ्वासाः कृता रौद्रैर्महाशरैः ॥
चकर्ष स धनुष्येण वसुमान्बलवतरः
॥४१॥निस्तेजसस्तदादित्याः कृतास्तेन रणाजिरे ॥
एतस्मिन्नन्तरे देवाः कृतास्तेन पराङ्मुखाः
॥४२॥ततस्ते शरणं जग्मुर्विष्णुं तत्र च संस्थितम् ॥
ततः कोपसमाविष्टो विष्णुर्देवान्सवासवान्
॥४३॥दृष्ट्वा विद्रावितान्सर्वान्मुमोचाशु सुदर्शनम् ॥
तमापतन्तं वेगेन विष्णोश्चक्रं सुदर्शनम्
॥४४॥प्रसार्य वक्त्रं सहसा उदरस्थं चकार ह ॥
तस्मिंश्चक्रे तदा ग्रस्ते अमोघे पर्वतात्मजे
॥४५॥चुकोप भगवान्विष्णुः शार्ङ्गहस्तो ऽभ्यधावत ॥
स हत्वा दशभिस्तीक्ष्णैर्नंदिं भृङ्गिं शतेन च
॥४६॥महाकालं सहस्रेण ह्ययुतेन गणाधिपम् ॥
बाणानामयुतैर्भित्त्वा वीरभद्रमुपाद्रवत्
॥४७॥तं हत्वा गदया विष्णुर्विह्वलं रुधिरोक्षितम् ॥
गृहीत्वा पादयोर्भूमौ निजघानातिरोषितः
॥४८॥हन्यमानस्य तस्याथ भूमौ चक्रं सुदर्शनम् ॥
रुधिरोद्गारसंयुक्तं प्रहारमकरोन्न तु
॥४९॥रुद्रलब्धवरो देवि वीरभद्रो गणेश्वरः ॥
यन्न पञ्चत्वमापन्नो गदया पीडितोऽपि सः
॥५०॥पतितं वीक्ष्य तं सर्वे विष्णुतेजोबलार्दिताः ॥
विद्रुताः सर्वतो याता यत्र देवो महेश्वरः
॥५१॥तस्मै सर्वं तथा वृत्तं समाचख्युः पराभवम् ॥
विक्रमं वीरभद्रस्य ततः क्रुद्धो महेश्वरः
॥५२॥प्रगृह्य सहसा शूलं प्रस्थितः स्वगणैः सह ॥
यज्ञवाटं तु दक्षस्य पराभवभवं ततः ॥
विक्रमन्वीरभद्रेण यत्र विष्णुः स्वयं स्थितः
॥५३॥तमायान्तं समालोक्य कोपयुक्तं महेश्वरम् ॥
संग्रामे सोऽजयं मत्वा तत्रैवान्तरधीयत
॥५४॥मरुद्भिः सार्धमिन्द्रोऽपि वसुभिः सह किन्नरैः ॥
शिवः क्रोधपरीतात्मा ततश्चादर्शनं गतः
॥५५॥केवलं ब्राह्मणास्तत्र स्थिताः सदसि भामिनि ॥
ते दृष्ट्वा शंकरं प्राप्तं कोपसंरक्तलोचनम्
॥५६॥होमं चक्रुस्ततो भीता रुद्रमंत्रैः समंततः ॥
अन्ये त्राससमायुक्ताः पलायंते दिशो दश
॥५७॥अथागत्य महादेवो दृष्ट्वा तान्ब्राह्मणोत्तमान् ॥
अपश्यमानो विबुधांस्तत्र यज्ञं जघान सः
॥५८॥स च मृगवपुर्भूत्वा प्रणष्टः शिवभीतितः ॥
पृष्ठतस्तु धनुष्पाणिर्जगाम भगवाञ्छिवः ॥
अद्यापि दृश्यते व्योम्नि तारारूपो महेश्वरि
॥५९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दक्षयज्ञविध्वंसनोनाम नवनवत्युत्तरशततमोऽध्यायः ॥ १९९ ॥