मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २८०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 280

ततो गच्छेन्महादेवि च्यवनेश्वरमुत्तमम्

ईश्वर उवाच

ततो गच्छेन्महादेवि च्यवनेश्वरमुत्तमम् ॥

तत्रैव संस्थितं लिंगं सर्वपातकनाशनम्

॥१॥

यत्र शर्यातिना दत्ता सुकन्या सा महर्षये ॥

यत्र संस्तंभितं सैन्यमानाहार्त्तमथाकरोत्

॥२॥

(आनाह – जठर आध्मानम्) एष शर्यातियज्ञस्य देशो देवि प्रकाशते ॥

प्रभासक्षेत्रमध्ये तु साक्षात्पातकनाशनः

॥३॥

साक्षात्तत्राभजत्सोममश्विभ्यां सह कौशिकः ॥

चुकोप भार्गवश्चैव महेन्द्राय महातपाः

॥४॥

संस्तंभयामास च तं वासवं च्यवनः प्रभुः ॥

सुकन्यां चापि भार्यां स राजपुत्रीमवाप्तवान्

॥५॥

देव्युवाच

कथं विष्टंभितस्तेन भगवान्पाकशासनः ॥

किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः

॥६॥

नासत्यौ च कथं ब्रह्मन्कृ तवान्सोमपायिनौ ॥

तत्सर्वं च यथावृत्तमाख्यातु भगवान्मम

॥७॥

ईश्वर उवाच

भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम नामतः ॥

स प्रभासं समासाद्य तपस्तेपे महामुनिः

॥८॥

स्थाणुभूतो महातेजा वीरस्थाने च भामिनि ॥

अतिष्ठत्सुचिरं कालमेकदेशे वरानने

॥९॥

स वल्मीकोऽभवत्तत्र लताभिरभिसंवृतः ॥

कालेन महता देवि समाकीर्णः पिपीलकैः

॥१०॥

स तथा संवृतो धीमान्मृत्पिंड इव सर्वतः ॥

तप्यते स्म तपो घोरं वल्मीकेन समावृतः

॥११॥

अथास्य यातकालस्य शर्यातिर्नाम पार्थिवः ॥

तीर्थयात्राप्रसंगेन श्रीसोमेशदिदृक्षया ॥

आजगाम महाक्षेत्रं प्रभासं पापनाशनम्

॥१२॥

तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहाः ॥

एकैव तु सुता शुभ्रा सुकन्यानाम नामतः

॥१३॥

सा सखीभिः परिवृता सर्वाभरणभूषिता ॥

चंक्रम्यमाणा वल्मीकं भार्गवस्य समासदत्

॥१४॥

सा चैव सुदती तत्र पश्यमाना मनोरमान् ॥

वनस्पतीन्विचिन्वंती विजहार सखीवृता

॥१५॥

रूपेण वयसा चैव सुरापानमदेन च ॥

बभंज वनवृक्षाणां शाखाः परम पुष्पिताः

॥१६॥

तां सखीरहितामेकामेकवस्त्रामलंकृताम् ॥

ददर्श भार्गवो धीमांश्चरंतीमिव विद्युतम्

॥१७॥

तां पश्यमानो विजने स रेमे परमद्युतिः ॥

क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः

॥१८॥

तामभाषत कल्याणीं सा चास्य न शृणोति वै ॥

ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी

॥१९॥

कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता ॥

किन्नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने

॥२०॥

अकुध्यत्स तया विद्धो नेत्रे परममन्युमान् ॥

ततः शर्यातिसैन्यस्य शकृन्मूत्रे समावृणोत्

॥२१॥

ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम् ॥

तथागतमभिभेक्ष्य पर्यतप्यत पार्थिवः

॥२२॥

तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः ॥

केनापकृतमद्येह भार्गवस्य महात्मनः ॥

ज्ञातं वा यदि वाऽज्ञातं तदिदं ब्रूत मा चिरम्

॥२३॥

तत्रोचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् ॥

सर्वोपायैर्यथाकामं भवान्समधिगच्छतु

॥२४॥

ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् ॥

पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते

॥२५॥

आनाहार्त्तं ततो दृष्ट्वा तत्सैन्यं संमुखोदितम् ॥

पितरं दुःखितं चापि सुकन्यैवमथाब्रवीत्

॥२६॥

मया तातेह वल्मीके दृष्टं सर्वमभिज्वलत् ॥

उद्द्योतवदविज्ञानात्तन्मया विद्धमन्तिकात्

॥२७॥

एतच्छ्रुत्वा तु शर्याति र्वल्मीकं क्षिप्रमभ्यगात् ॥

तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम्

॥२८॥

अथावदत्स्वसैन्यार्थं प्रांजलिः स महीपतिः ॥

अज्ञानाद्बालया यत्ते कृतं तत्क्षंतुमर्हसि

॥२९॥

ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा ॥

रूपौदार्यसमायुक्तां लोभमोहसमावृताम्

॥३०॥

तामेव प्रतिगृह्याहं राजन्दुहितरं तव ॥

क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते

॥३१॥

ईश्वर उवाच

ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् ॥

ददौ दुहितरं तस्मै च्यवनाय महात्मने

॥३२॥

प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह ॥

प्राप्ते प्रसादे राजा तु ससैन्यः पुरमाव्रजत्

॥३३॥

सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दितम् ॥

नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च

॥३४॥

अग्नीनामतिथीनां च शुश्रूषुरनसूयया ॥

समाराधयत क्षिप्रं च्यवनं सा शुभानना

॥३५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्यवर्णनंनामाशीत्युत्तरद्विशततमोऽध्यायः ॥ २८० ॥