मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १०३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 103

कपालेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेद्वरारोहे कपालेश्वरमुत्तमम् ॥

तस्या उत्तरदिग्भागे सुरगंधर्वपूजितम्

॥१॥

पुरा यज्ञे वर्त्तमाने दक्षराजस्य धीमतः ॥

उपविष्टेषु विप्रेषु हूयमाने हुताशने

॥२॥

जाल्मरूपधरो भूत्वा शंकरस्तत्र चागतः

॥२७॥

जीर्णकंथान्वितो देवि मलवान्धूलिधूसरः

॥३॥

अथ ते ब्राह्मणाः क्रुद्धा दृष्ट्वा तं जाल्मरूपिणम् ॥

कपालधारिणं सर्वे धिक्छब्दैस्तं जगर्हिरे

॥४॥

असकृत्पापपापेति गच्छगच्छ नराधम ॥

यज्ञवेदिर्न चार्हा हि मानुषास्थिधरस्य ते

॥५॥

अथ प्रहस्य भगवान्यज्ञवेद्यां सुरेश्वरि ॥

क्षिप्त्वा कपालं नष्टोऽसौ न स ज्ञातो मनीषिभिः

॥६॥

तस्मिन्नष्टे कपालं तत्क्षिप्तं मंडपबाह्यतः ॥

अथान्यत्तत्र संजातं तद्रूपं च वरानने

॥७॥

क्षिप्तंक्षिप्तं पुनस्तत्र जायते च महीतले ॥

एवं शतसहस्राणि प्रयुतान्यर्बुदानि च

॥८॥

तत्र क्षिप्तानि जातानि ततस्ते विस्मयान्विताः ॥

अथोचुर्मुनयः सर्वे निर्विण्णाश्चास्य चेष्टितम्

॥९॥

कोऽन्यो देवान्महादेवाद्गंगाक्षालितशेखरात् ॥

समर्थ ईदृशं कर्त्तुमस्मिन्यज्ञे विशेषतः

॥१०॥

ततस्ते वि विधैः स्तोत्रैः स्तुवंतो वृषभध्वजम् ॥

होमं चक्रुर्मुहुर्वह्नौ मंत्रैस्तैः शतरुद्रियैः

॥११॥

ततः प्रत्यक्षतां प्राप्तस्तेषां देवो महेश्वरः ॥

ततस्ते विविधैः स्तोत्रैस्तुष्टुवुः शूलपाणिनम् ॥

वेदोक्तमंत्रैर्विविधैः पुराणोक्तैस्तथैव च

॥१२॥

ऋषय ऊचुः

ॐ नमो मूलप्रकृतये अजिताय महात्मने ॥

अनावृताय देवाय निःस्पृहाय नमोनमः

॥१३॥

नम आद्याय बीजाय आर्षेयाय प्रवर्त्तिने ॥

अनंतराय चैकाय अव्यक्ताय नमोनमः

॥१४॥

नानाविचित्रभुजगांगदभूषणाय सर्वेश्वराय विरजाय नमो वराय ॥

विश्वात्मने परमकारणकारणाय फुल्लारविंदविपुलायतलोचनाय

॥१५॥

अदृश्यमव्यक्तमनादिमव्ययं यदक्षरं ब्रह्म वदंति सर्वगम् ॥

निशाम्य यं मृत्युमुखात्प्रमुच्यते तमादिदेवं शरणं प्रपद्ये

॥१६॥

एवं स्तुतस्तदा सर्वैर्ऋषिभिर्गतकल्मषैः ॥

ततस्तुष्टो महादेवस्तेषां प्रत्यक्षतां गतः ॥

अब्रवीत्तानृषीन्देवो वृणुध्वं वरमुत्तमम्

॥१७॥

ब्राह्मणा ऊचुः

यदि तुष्टोऽसि नो देव स्थानेऽस्मिन्निरतो भव ॥

असंख्यातानि यस्माच्च कपालानि सुरेश्वर

॥१८॥

पुनः पुनः प्रवृत्तानि व्यपनीतान्यपि प्रभो ॥

अस्मिन्नसंशयं स्थाने कपालेश्वरनामभृत्

॥१९॥

स्वयं तु लिंगं देवेश तिष्ठेन्मन्वंतरांतरम् ॥

कपालेश्वरनाम्ना त्वमस्मिन्स्थाने स्थितिं कुरु

॥२०॥

येत्र त्वां पूजयिष्यंति धूपमाल्यानुलेपनैः ॥

तेषां तु परमं स्थानं यद्देवैरपि दुर्लभम्

॥२१॥

बाढमित्येवमुक्त्वाऽसौ स्थित स्तत्रमहेश्वरः ॥

पुनः प्रवर्तितो यज्ञो निशानाथस्य भामिनि

॥२२॥

तस्मिन्दृष्टे लभेन्मर्त्यो वाजिमेधफलं प्रिये ॥

मुच्यते पातकैः सर्वैः पूर्व जन्मार्ज्जितैरपि

॥२३॥

इदं माहात्म्यमखिलमभूत्स्वायंभुवांतरे ॥

वैवस्वते पुनश्चान्यद्दक्षयज्ञविनाशकृत्

॥२४॥

कपालीति महेशानो दक्षेणोक्तः पुरा हरः ॥

तेन यज्ञस्य विध्वंसं कपाली तमथाकरोत् ॥

कपालेश्वरनामेति स्थितोस्मिन्मानवान्तरे

॥२५॥

अथास्य नाम देवस्य सूर्य सावर्णिकेंऽतरे ॥

भविष्यति वरारोहे नाम तत्त्वेश्वरेति च

॥२६॥

इति संक्षेपतः प्रोक्तं माहात्म्यं रुद्रदैवतम् ॥

पापघ्नं सर्वजंतूनां पशुपाशविमोक्षणम्

॥२७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां कपालेश्वरमाहात्म्यवर्णनंनाम त्र्यधिकशततमोऽध्यायः ॥ १०३ ॥