प्रभासक्षेत्रमध्यस्थां दारिद्र्यौघविनाशिनीम्
ईश्वर उवाच
अथ वच्मि तृतीयां ते ज्ञानशक्तिं शिवात्मिकाम् ॥
प्रभासक्षेत्रमध्यस्थां दारिद्र्यौघविनाशिनीम्
॥१॥अजेति नाम्नीं तां देवीं राह्वीशाद्दक्षिणे स्थिताम् ॥
मम वक्त्राद्विनिष्क्रांता षष्ठाद्वै विष्णुपूजितात्
॥२॥देव्युवाच
पंचवक्त्राणि देवेश प्रसिद्धानि तव प्रभौ ॥
षष्ठं यद्वदनं देव तस्य किं नाम संस्मृतम् ॥
समुत्पन्ना कथं तस्मादजादेवीति या श्रुता
॥३॥ईश्वर उवाच
साधु पृष्टं त्वया देवि यद्गोप्यं स्वसुतेष्वपि ॥
तत्तेऽहं संप्रवक्ष्यामि अप्रसिद्धागमोदितम्
॥४॥वक्त्राणि मम देवेशि सप्तासन्पूर्वमेव हि ॥
सद्योजातादिपंचैव षष्ठं स्मृतमजेति च
॥५॥सप्तमं पिचुनामेति सप्तैवं वदनानि मे ॥
तेभ्योऽजं ब्रह्मणे दत्तं पिचुवक्त्रं तु विष्णवे
॥६॥तस्मादहं महादेवि पंचवक्त्रोऽधुनाऽभवम् ॥
अजस्तु ब्रह्मा सञ्जज्ञे पिचुर्विष्णुरजायत
॥७॥अजवक्त्रान्महादेवि अजा जाता महाप्रभा ॥
अन्धासुररणे घोरे मम क्रोधेन भामिनि
॥८॥खड्गचर्मधरादेवी सुरूपा सिंहवाहिनी ॥
मर्द्दयन्ती महादैत्यान्देवीकोटिसमन्विता
॥९॥तस्या भयेन ये दैत्या विद्रुता दक्षिणार्णवम् ॥
पृष्ठतोऽनुययौ तान्वै सा देवी सिंहवाहिनी
॥१०॥इतस्ततस्ते धावन्तो मार्यमाणाश्च तद्गणैः ॥
प्रभास क्षेत्रसंप्राप्ता नश्यमाना महार्णवम्
॥११॥केचित्तत्र हता दैत्याः केचित्पातालमाययुः ॥
निःशेषान्निहतान्दृष्ट्वा सा देवी सिंहवाहिनी
॥१२॥क्षेत्रं पवित्रमाज्ञाय तत्र स्थाने स्थिता शुभा ॥
सोमेशादीशकोणस्था सौरीशादुत्तरे स्थिता
॥१३॥यस्तां तत्र स्थितां पश्येद्योषिद्वाथ नरोऽपि वा ॥
स भूयात्सत्त्वसौभाग्यैः सप्तजन्मानि संयुतः
॥१४॥गीतवाद्यादिकं नृत्यं यस्तत्र कुरुते नरः ॥
तस्यान्वये न दौर्भाग्यं भूयात्तस्याः प्रसादतः
॥१५॥घृतेन दीपकं तत्र या नारी संप्रयच्छति ॥
रक्तवर्त्या महादेवि यावंतस्तत्र तंतवः ॥
तावज्जन्मांतराण्येव सा सौभाग्यमवाप्नुयात्
॥१६॥यश्चैतत्तु पठेन्नित्यं तृतीयायां विशेषतः ॥
शृणुयाद्वाऽपि यो भक्त्या स कामानखिलाल्लँभेत्
॥१७॥इति संक्षेपतः प्रोक्तो रुद्रशक्तित्रयक्रमः
॥१८॥एताः शक्तीः पूजयित्वा सोमेशं पूजयेत्ततः ॥
सम्यग्यात्राफलापेक्षी एकां वा वरदामथ
॥१९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजादेवीमाहात्म्यवर्णनंनामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥
इति रुद्रशक्तित्रयसंकेतः