ततो गच्छेन्महादेवि सुपर्णेलां च भैरवीम्
ईश्वर उवाच
ततो गच्छेन्महादेवि सुपर्णेलां च भैरवीम् ॥
दुर्गकूटाद्दक्षिणतो धनुःपंचशतांतरे
॥१॥सुपर्णेन पुरा देवि पातालादमृतं हृतम् ॥
गृहीत्वा तत्र मुक्तं तु नागानां पश्यतां किल
॥२॥ततो देव्या तदा दृष्ट्वा रक्षितं नागपार्श्वतः ॥
ततः सुपर्णेलेत्येवं ख्याता सा वसुधातले
॥३॥इला तु कथ्यते भूमिः सुपर्णेन प्रतिष्ठिता ॥
ततः सुपर्णेलेत्येव नाम्ना पातकनाशिनी
॥४॥सुपर्णकुण्डे तत्रैव स्नात्वा तां पूजयेन्नरः ॥
विप्रेभ्यो भोजनं दद्यान्नापद्भिर्म्रियते नरः ॥
जीववत्सा भवेन्नारी आत्मजैश्चाप्यलंकृता
॥५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये सुपर्णेलामाहात्म्यवर्णनंनामैकपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५१ ॥