मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २७६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 276

देविकायामुमापतिमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि ऋषितीर्थस्य सन्निधौ ॥

कामिकं हि परं क्षेत्रं देविकानाम नामतः

॥१॥

महासिद्धिवनं तत्र ऋषिसिद्धसमावृतम् ॥

नानाद्रुमलताकीर्णं पर्वतैरुपशोभितम्

॥२॥

चंपकैर्बकुलैर्दिव्यैरशोकैः स्तबकैः परैः ॥

पुन्नागैः किंकिरातैश्च सुगन्धैर्नागकेसरैः

॥३॥

मल्लिकोत्पलपुष्पैश्च पाटलापारिजातकैः ॥

चूतचंपकपित्थैश्च श्रीफलैः पनसैस्तथा

॥४॥

खर्जूरैर्बदरैश्चान्यैर्मातुलिंगैः सदाडिमैः ॥

जंबीरैश्चैव दिव्यैश्च नारंगैरुप शोभितम्

॥५॥

शिखिभिः कोकिलाभिश्च गीयमानं तु षट्पदैः ॥

मृगैर्ऋक्षैर्वराहैश्च सिंहैर्व्याघ्रैस्तथा परैः

॥६॥

श्वापदैर्विविधाकारैः कन्दरै र्गह्वरैस्तथा ॥

सुरासुरगणैः सिद्धैर्यक्षगन्धर्वपन्नगैः

॥७॥

अप्सरोरगनागैश्च बहुभिस्तु समाकुलम् ॥

केचित्स्तुवंति ईशं तु केचिन्नृत्यंति चाग्रतः

॥८॥

पुष्पैर्वृष्टिं तु मुञ्चंति मुखवाद्यानि चापरे ॥

हसंति चापरे हृष्टा गर्जंति च तथापरे

॥९॥

ऊर्द्ध्वबाहवस्तथा चान्ये अन्ये ध्यायंति तद्गताः ॥

तस्मिन्स्थानं महादेवि देविकायास्तटे शुभे

॥१०॥

उमापतीश्वरो नाम तत्राहं संस्थितः सदा ॥

युगेयुगे सदा पूर्णे कल्पे मन्वन्तरे तथा

॥११॥

न त्यजामि सदा देवि देविकायास्तटं शुभम् ॥

दुर्ल्लभं सर्वलोकेऽस्मिन्पवित्रं सुप्रियं हि मे

॥१२॥

त्वया सह स्थितश्चाहं तस्मि न्स्थाने वरानने ॥

उमया युक्तदेहत्वात्तेन ख्यातं उमापतिः

॥१३॥

पुष्यमासे त्वमावस्यां दद्याच्छ्राद्धं समाहितः ॥

न पश्यामि क्षयं तस्य तस्मिन्दत्तस्य पार्वति

॥१४॥

ब्रह्महत्यासहस्रं तु तस्य दर्शनतो व्रजेत् ॥

गोभूहिरण्यवासांसि तत्र दद्याद्विचक्षणः

॥१५॥

स एकः परमः पुत्रो यो गत्वा तत्र सुन्दरि ॥

ददेच्छ्राद्धं पितॄणां च तस्यांतो नैव विद्यते

॥१६॥

देवैः सर्वैः समाहूता स्नानार्थं सा सरिद्वरा ॥

देविकेति समाख्याता तेन सा पापनाशिनी

॥१७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकायामुमापतिमाहात्म्यवर्णनंनाम षट्सप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७६ ॥