मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ५६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 56

धनदेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

अथ ते पंचमं वच्मि सिद्धलिगं महाप्रभम् ॥

ब्रह्मणो नैर्ऋते भागे धनुषां षोडशे स्थितम्

॥१॥

राहुलिंगस्य चाभ्याशे लिंगं धनदनिर्मितम् ॥

धनदत्वं च संप्राप्तो यत्र तप्त्वा महत्तपः

॥२॥

संस्थाप्य विधिवत्पूज्य लिंगं वर्षसहस्रकम् ॥

अलकाधिपतिर्जातस्तत्र शंभोः प्रसादतः

॥३॥

जातिं स्मृत्वा पूर्विकां तु ज्ञात्वा दीपदशाफलम् ॥

शिवरात्रे प्रभावं तु प्रभासं पुनरागतः

॥४॥

प्रभावातिशयं ज्ञात्वा स्थापयामास शंकरम् ॥

तत्र प्रत्यक्षतां नीतस्तपसा येन शंकरः

॥५॥

महाभक्त्या महादेवि तस्मिँल्लिंगेऽवतारितः ॥

तं दृष्ट्वा मानवो भक्त्या पूजयित्वा यथाविधि

॥६॥

पञ्चोपचारैः सद्भक्त्या गन्धधूपानुलेपनैः ॥

तस्यान्वये दरिद्रश्च कदापि न भविष्यति

॥७॥

ये चैतत्पूजयिष्यंति लिंगं भक्तियुता नराः ॥

अजेयास्ते भविष्यंति शत्रूणां दर्पनाशनाः

॥८॥

इति ते कथितं सर्वं धनदेशमहोदयम् ॥

श्रुत्वानुमोद्य यत्नेन दरिद्रो नैव जायते

॥९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये धनदेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशोऽध्यायः ॥ ५६ ॥