ततो गच्छेन्महादेवि देवीमेकल्लवीरिकाम्
ईश्वर उवाच
ततो गच्छेन्महादेवि देवीमेकल्लवीरिकाम् ॥
एकल्लवीरायाम्ये तु नातिदूरे व्यवस्थिताम्
॥१॥पूर्वं दशरथो योऽसौ सूर्यवंशविभूषणः ॥
प्रभासं क्षेत्रमासाद्य तपश्चक्रे सुदुश्चरम्
॥२॥लिंगं तत्र प्रतिष्ठाप्य तोषयामास शांकरम् ॥
स देवं प्रार्थयामास पुत्रं चैवामितौजसम्
॥३॥ददौ तस्य तदा पुत्रं देवं त्रैलोक्यपूजितम् ॥
रामेति नाम यस्यासीत्त्रैलोक्ये प्रथितं यशः
॥४॥यस्याद्यापीह गायन्ति भूर्भुवःस्वर्नि वासिनः ॥
देवदैत्यासुराः सर्वे वाल्मीक्याद्या महर्षयः
॥५॥तल्लिंगस्य प्रभावेन प्राप्तं राज्ञा महद्यशः ॥
कार्तिक्यां कार्तिके मासि विधिना यस्तमर्चयेत् ॥
दीपपूजोपहारेण यशस्वी सोऽपि जायते
॥६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दशरथेश्वरमाहात्म्यवर्णनंनामैकसप्तत्युत्तरशततमोऽध्यायः ॥ १७१ ॥