कनकनंदामाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि ऐशान्यां दिशि संस्थिताम् ॥
देवीं कनकनंदाख्यां सर्वकामफलप्रदाम्
॥१॥तत्र शुक्लतृतीयायां चैत्रे मासि विधानतः ॥
यात्रां कुर्याच्च मतिमान्सर्वकाममवाप्नुयात्
॥२॥इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कनकनंदामाहात्म्यवर्णनंनाम पंचषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६५ ॥