मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३५८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 358

ततो गच्छेन्महादेवि तीर्थं नारायणाभिधम्

ईश्वर उवाच

ततो गच्छेन्महादेवि तीर्थं नारायणाभिधम् ॥

तस्यैवेशानदिग्भागे वापी शांडिल्यकीर्तिता

॥१॥

स्नात्वा तत्रैव विधिवच्छांडिल्यं यः प्रपूजयेत् ॥

ऋषिपंचम्यां विधिना नारी चैव पतिव्रता ॥

स्पृष्ट्वास्पृष्ट्वा विमुच्येत रजोदोषभयाद्ध्रुवम्

॥२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नारायणतीर्थमाहात्म्यवर्णनंनामा ष्टापंचाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५८ ॥