क्षेत्रस्थर्षिदेवगणवर्णनम्
सूत उवाच
इत्येवमुक्ते विप्रेंद्रा शंकरेण महात्मना ॥
पुनः पप्रच्छ सा देवी हर्षसंपूर्णमानसा
॥१॥देव्युवाच
देवदेव जगन्नाथ सर्वप्राणहिताय वै ॥
प्रभासक्षेत्रमाहात्म्यं विस्तराद्वद मे प्रभो
॥२॥ईश्वर उवाच
अन्यद्दृष्टांतरूपं ते कथयामि यशस्विनि ॥
येन सृष्टं महादेवि क्षेत्रमेतन्मम प्रियम्
॥३॥या गतिर्ध्यायतां नित्यं निःसंगानां च योगिनाम् ॥
सैवं संत्यजतां प्राणान्प्रभासे तु परा गतिः
॥४॥अनेककल्पस्थायी च मार्कंडेयो महातपाः ॥
सोऽपि देवं विरूपाक्षं प्रभासे तु सदाऽर्चति
॥५॥अटित्वा सर्वतीर्थानि प्रभासं नैव मुंचति ॥
दुर्वासाश्च महातेजा लिंगस्याराधनोद्यतः ॥
न मुंचति क्षणं देवि तत्क्षेत्रं शशिमौलिनः
॥६॥भरद्वाजो मरीचिश्च मुनिश्चोद्दालकस्तथा ॥
क्रतुश्चैव वसिष्ठश्च कश्यपो भृगुरेव च
॥७॥दक्षश्चैव तु सावर्णिर्यमश्चांगिरसस्तथा ॥
शुको विभांडकश्चैव ऋष्यशृंगोऽथ गोभिलः
॥८॥गौतमश्च ऋचीकश्च अगस्त्यः शौनको महान् ॥
नारदो जमदग्निश्च विश्वामित्रोऽथ लोमशः
॥९॥अन्ये च ऋषयश्चैव दिव्या देवर्षयस्तथा ॥
न मुंचंति महाक्षेत्रं लिंगस्याराधनोद्यताः
॥१०॥अहं तत्रैव तिष्ठामि लिंगाराधनतत्परः ॥
न मुंचामि महाक्षेत्रं सत्यंसत्यं वरानने
॥११॥सर्वतीर्थानि देवेशि मया दृष्टानि भूतले ॥
प्रभासेन समं क्षेत्रं नैव दृष्टं कदाचन
॥१२॥देवि षष्टिसहस्राणि याज्ञवल्क्यपुरस्कृताः ॥
जपं कुर्वंति रुद्राणां चन्द्रभागां व्यवस्थिताः
॥१३॥चत्वारिंशत्सहस्राणि ऋषीणामूर्द्ध्वरेतसाम् ॥
देविकातटमाश्रित्य जपंति शतरुद्रियम्
॥१४॥कोटयश्चैव पंचाशन्मुनीनामूर्द्ध्वरेतसाम् ॥
उमापतिं समासाद्य लिंगं तत्रैव संस्थितम्
॥१५॥रुद्राणां कोटि जाप्यं तु कृतं तत्रैव तैः पुरा ॥
कोटिस्तत्रैव संसिद्धास्तस्मिंल्लिंगे न संशयः
॥१६॥शतं चैव सहस्राणां देवेशं शशिभूषणम् ॥
पूजयंति महासिद्धा मम क्षेत्रनिषेविणः
॥१७॥वेदांतेषु च यत्प्रोक्तं फलं चैव महर्षिभिः ॥
तत्फलं सकलं तत्र चंद्रभूषणदर्शनात्
॥१८॥अग्नितीर्थे ऋषीणां तु कोटिः साग्रा स्थिता शुभे ॥
रुद्रेश्वरे स्मृतं लक्षं कंपर्द्दीशे तथैव च
॥१९॥रत्नेश्वरे सहस्रं तु ऋषीणामूर्द्ध्वरेतसाम् ॥
अर्कस्थले महापुण्ये कोटिः साग्रा स्थिता शुभे
॥२०॥षष्टिश्चैव सहस्राणि तत्र सिद्धेश्वरे स्थिताः ॥
सप्त चैव सहस्राणि मार्कंडेये तु संस्थिताः
॥२१॥सरस्वत्यां ब्रह्मकुण्डेऽसंख्याता मुनयः स्मृताः ॥
दशार्बुदसहस्राणि कोटित्रितयमेव च
॥२२॥ऋषयस्तत्र तिष्ठंति यत्र प्राची सरस्वती ॥
ब्रह्महत्या गता यत्र शंकरस्य च तत्क्षणात्
॥२३॥कायः सुवर्णतां प्राप कपालं पतितं करात् ॥
ज्ञात्वैवं शंकिना पूर्वं कृतं तत्र महातपः
॥२४॥तुष्टः श्रीशंकरो देवो लिंग वासवरेण तु ॥
कोटियज्ञफलं स्नाने प्राच्यां लिंगस्य पूजने
॥२५॥पिंडे गयाशतगुणममासोमयुते दिने ॥
भूतायां पिंडदस्तत्र कुलकोटिं समुद्धरेत्
॥२६॥ये चात्र मलनाशाय निमङ्क्ष्यंति च मानवाः ॥
दशगोदानजं पुण्यं तेषामपि भविष्यति
॥२७॥पादेन वा क्रीडमाना जलं लिप्संति ये नरा ॥
तेषामपि श्राद्धफलं विधिवत्संभविष्यति ॥
तत्र लिंगानि पूज्यानि शूलभेदादिकानि तु
॥२८॥एवं विकल्प्य लिंगानि अश्वमेध फलानि तु ॥
दर्शनेनापि सर्वेषां स्पर्शाद्धि द्विगुणं फलम्
॥२९॥एवं तुष्टो जगन्नाथः स्थितः प्राचीवने ध्रुवम् ॥
मनोऽपि ये करिष्यंति स्नानदानेषु का कथा
॥३॥तेषां तुष्टो जगन्नाथः शंकरो नीललोहितः ॥
त्रिंशत्कोटिगणस्तत्र प्राचीं रक्षंति सर्वतः
॥३१॥महापापसमाचारः पापिष्ठो वाऽति किल्बिषी ॥
घुणाक्षरमिव प्राणान्प्राच्यां मुक्त्वा शिवं व्रजेत्
॥३२॥दधिकंबलदानं तु तत्र देयं द्विजोत्तमे ॥
कथितं पापशमनं सारात्सारतरं ध्रुवम्
॥३३॥अधुना संप्रवक्ष्यामि हिरण्याश्च महोदयम् ॥
दुर्वाससा तपस्तप्तं तत्र सूर्यः प्रतिष्ठितः
॥३४॥कोटिरेका तु तत्रैव ऋषीणामूर्द्ध्वरेतसाम् ॥
चतुर्विंशतितत्त्वानामधिको बलरूपधृक्
॥३५॥यत्र तिष्ठति देवेशि भृगुकोटिसमन्वितः ॥
अन्यत्र ब्राह्मणानां तु कोट्या यच्च फलं लभेत्
॥३६॥ब्रह्मस्थाने तथैकेन भोजितेन तु तत्फलम् ॥
एवं ज्ञात्वा महादेवि तत्र तिष्ठामि निर्वृतः ॥
कोटिर्भिर्देवऋषिभिर्देवैः सह समावृतः ॥
तीर्थानि तत्र तिष्ठंति अंतर्भूतानि वै कलौ
॥३८॥तत्र क्षेत्रे महारम्ये यत्र सोमेश्वरः स्थितः ॥
मम देवि गणौ द्वौ तु विभ्रमः संभ्रमः परः
॥३९॥तौ चात्र क्षेत्रसंस्थानां लोकानां भ्रमविभ्रमैः ॥
योजयंति सदा चित्तं विकल्पानैक्यसंकुलम्
॥४०॥विनायकोपसर्गाश्च दश दोषास्तथा परे ॥
एवं क्षेत्रं तु रक्षंति पापिनां दुष्टचेतसाम्
॥४१॥दंडपाणिं तु ये भक्त्या पश्यंतीह नरोत्तमाः ॥
न तेषां जायते विघ्नं तत्र क्षेत्रनिवासिनाम्
॥४२॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वर्णसंकराः ॥
अकामा वा सकामा वा प्रभासे ये मृताः शुभे
॥४३॥चंद्रार्द्धमौलिनः सर्वे ललाटाक्षा वृषध्वजाः ॥
शिवे मम पुरे दिव्ये जायंते तत्र मानवाः
॥४४॥यस्तत्र वसते विप्रः संयतात्मा समाहितः ॥
त्रिकालमपि भुंजानो वायुभक्षसमो भवेत्
॥४५॥मेरोः शक्या गुणा वक्तुं द्वीपानां च गुणास्तथा ॥
समुद्राणां च सर्वेषां शक्या वक्तुं गुणाः प्रिये
॥४६॥आदिदेवस्य देवेशि महेशस्य महाप्रभोः ॥
शक्या नैव गुणा वक्तुं वर्षाकोटिशतैरपि
॥४७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्षेत्रस्थर्षिदेवगणवर्णनं नाम पंचमोऽध्यायः ॥ ५ ॥