मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ७३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 73

कुमारेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि कुमारेश्वरमुत्तमम् ॥

लिंगं महाप्रभावं हि महापातकनाशनम्

॥१॥

धनुषां त्रिंशता देवि वरुणान्नैऋते स्थितम् ॥

गौरीतपोवनाद्देवि दक्षिण स्थानसंस्थितम्

॥२॥

षण्मुखेन महादेवि तत्र कृत्वा महत्तपः ॥

प्रतिष्ठितं महालिंगं कुमारेशस्ततोऽभवत्

॥३॥

यस्तं पूजयते भक्त्या मासमेकं निरन्तरम् ॥

षण्मासस्यार्चनेनैव यत्पुण्यमुपजायते

॥४॥

तत्पुण्यं सकलं तस्य कुमारेशार्चनात्सकृत् ॥

लभते दिवसैकेन विधिना यदि पूजयेत्

॥५॥

कामं क्रोधं तथा लोभं रागं त्यक्त्वा तु मत्सरम् ॥

ब्रह्मचारी यतिर्भूत्वा सकृदप्येनमर्चयेत्

॥६॥

एवं संपूजिते देवि सम्यग्यात्रा फलं लभेत्

॥७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुमारेश्वरमाहात्म्यवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥