बलभद्रेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि बलभद्रप्रतिष्ठितम् ॥
लिंगं महापापहरं गात्रोत्सर्गात्तदुत्तरे
॥१॥महालिंगं महादेवि महासिद्धि फलप्रदम् ॥
बलभद्रेण विधिना स्थापितं पापशुद्धये
॥२॥यस्तं पूजयते भक्त्या गन्धपुष्पादिभिः क्रमात् ॥
तृतीयारेवतीयोगे स योगेशपदं लभेत्
॥३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बलभद्रेश्वरमाहात्म्य वर्णनंनाम सप्तविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२७ ॥