ततो गच्छेन्महादेवि पूर्वोक्तं ब्रह्मपूजितम्
ईश्वर उवाच
ततो गच्छेन्महादेवि पूर्वोक्तं ब्रह्मपूजितम् ॥
सरस्वत्यास्तटे संस्थं पर्णादित्यस्य पश्चिमे
॥१॥तस्योत्पत्तिं प्रवक्ष्यामि शृणुष्वैकमनाः प्रिये ॥
सृजतो ब्रह्मणः पूर्वं भूतग्रामं चतुर्विधम्
॥२॥उत्पन्नाद्भुतरूपाढ्या नारी कमललोचना ॥
कंबुग्रीवा सुकेशांता बिंबोष्ठी तनुमध्यमा
॥३॥गंभीरनाभिः सुश्रोणी पीनश्रोणिपयोधरा ॥
पूर्णचन्द्रमुखी सा तु गूढगुल्फा सितानना
॥४॥न देवी न च गन्धर्वी नासुरी न च पन्नगी ॥
यादृग्रूपा वरारोहा तादृशी सा व्यजायत
॥५॥तां दृष्ट्वा रूपसंपन्नां ब्रह्मा कामवशोऽभवत् ॥
अथ तां प्रार्थयामास रत्यर्थं वरवर्णिनि
॥६॥अथ प्रार्थयतस्तस्य न्यपतत्पंचमं शिरः ॥
खररूपं महादेवि तेन पापेन तत्क्षणात्
॥७॥ततो ज्ञात्वा महत्पापं दुहितुः कामसंभवम् ॥
घृणया परया युक्तः प्रभासं क्षेत्रमागतः
॥८॥न कायस्य यतः शुद्धिर्विना तीर्थावगाहनात् ॥
स स्नातः सलिले पुण्ये सरस्वत्या वरानने
॥९॥लिंगं संस्थापयामास देवदेवस्य शूलिनः ॥
ततो विकल्मषो भूत्वा जगाम स्वगृहं पुनः
॥१०॥स्नात्वा सारस्वते तोये यस्तल्लिंगं प्रपश्यति ॥
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते
॥११॥चैत्रे शुक्लचतुर्दश्यां यस्तं पश्यति मानवः ॥
स याति परमं स्थानं यत्र देवो महेश्वरः
॥१२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनंनामाष्टचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४८ ॥