सरस्वत्यवतारमहिमवर्णनम्
ईश्वर उवाच
सरस्वती वरं प्राप्य वरिष्ठं वडवानलात् ॥
पुनस्तं सागरे क्षेप्तुमुद्यता सा मनस्विनी
॥१॥देवादेशात्प्रभासस्य पुरतः संस्थिता तदा ॥
समुद्रमाहूय तदा वाडवार्पणकांक्षिणी
॥२॥त्वमादिः सर्वदेवानां त्वं प्राणः प्राणिनां सदा ॥
देवादेशाद्गृहाण त्वमागत्यार्णव वाडवम्
॥३॥एवं संचिंतितो देव्या यदासावंभसांपतिः ॥
तथा जलात्समुत्तीर्य समायातो महाद्युतिः
॥४॥तं दृष्ट्वा विस्मिता देवी दिव्यं विष्णुमिवापरम् ॥
श्यामं कमलपत्राक्षं सागरं सुमनोरमम्
॥५॥विचित्रमाल्याभरणं चित्रवस्त्रानुलेपनम् ॥
आपगाभिः सरूपाभिः स्त्रीरूपाभिः समावृतम्
॥६॥एवंविधं समालोक्य सा देवी ब्रह्मणः सुता ॥
सरस्वती जलनिधिमुवाचेदं शुचिस्मिता
॥७॥त्वमग्रजः सर्वभवोद्भवानां त्वं जीवितं जन्मवतां नराणाम् ॥
तस्मात्सुराणां कुरु कार्यमिष्टं वह्निं गृहाण त्वमिहोपनीतम्
॥८॥अत्रांतरे सोऽपि विमृश्य सर्वं कार्यं स्वबुद्ध्या किमिहोपपन्नम् ॥
कृत्वाऽनलस्य ग्रहणं मयेदं कार्यं सुराणां विहितं भवेच्च
॥९॥एवं चिंतयतस्तस्य ग्रहणं रुचितं ततः ॥
वाडवाग्नेः समुद्रस्य सुरपीडाकृते यदा
॥१०॥तदा तेन पुरःस्थेन देवी साभिहिता भृशम् ॥
वाडवं संप्रयच्छैनं सुरशत्रुं सरस्वति
॥११॥ततस्तया प्रणम्याशु पितामहपुरःसरान् ॥
चारणांश्चारुचित्रांग्या सरस्वत्या दिवि स्थितान्
॥१२॥पुनश्च करसंस्थोऽसौ वाडवोऽभिहितस्तया ॥
त्वमपो भक्षयस्वेति सुरैरुक्त इमा इति
॥१३॥एवमुक्त्वा समुद्रस्य तदा देव्या समर्प्पितः ॥
वाडवोऽग्निः सरस्वत्या सुरादेशान्महाबलः
॥१४॥तं समर्प्य ततस्तस्मि न्नदी भूत्वा सरस्वती ॥
प्रविष्टा सागरं देवी नारदेश्वरमार्गतः
॥१५॥दैत्यसूदनसांनिध्ये दत्त्वार्घ्यं लवणांभसि ॥
अर्घ्येश्वरं प्रतिष्ठाप्य दैत्यसूदन पश्चिमे
॥१६॥ततोऽब्धिं संप्रविष्टा सा पंचस्रोता महानदी ॥
स्वरूपेणैव सा पुण्या पुनः पुण्यतमाऽभवत्
॥१७॥प्रभासक्षेत्रसंपर्कात्समुद्रस्य च संगमात् ॥
सागरोऽपि समासाद्य सरस्वत्यास्तु वाडवम् ॥
निर्धनो वै धनं प्राप्याचिन्तयत्क्व क्षिपाम्यहम्
॥१८॥स तेनैव करस्थेन दीप्य मानेन सागरः ॥
वह्निना शिखरस्थेन भाति मेरुरिवापरः
॥१९॥तं तथाविधमालोक्य तत्र ये जलचारिणः ॥
यादोगणास्ते मुमुचुर्दाहभीता महास्वनम्
॥२०॥तं श्रुत्वा भैरवं शब्दमायातो दैत्यसूदनः ॥
आह यादोगणान्सर्वान्मा भैष्ट सुमहाबलाः
॥२१॥यस्मादनेन प्रथमा आपो भक्ष्या न तत्रगाः ॥
प्राणिनस्तन्न भेतव्यं भवद्भिस्तु ममाज्ञया
॥२२॥एवमुक्तस्तु कृष्णेन तूष्णींभूता जलेचराः
॥२३॥तूष्णींभूतेषु सर्वेषु जलजेषु जलेश्वरम् ॥
प्राहाच्युतः प्रक्षिप त्वमपां मध्ये तु वाडवम्
॥२४॥अगाधेम्भसि तेनासौ निक्षिप्तो वाडवोऽनलः ॥
वरुणेन पिबन्नास्ते तज्जलं सुमहाबलः
॥२५॥तस्योच्छ्वासानिलोद्धूतं तत्तोयं सागराद्बहिः ॥
निर्मर्यादेव युवतिरितश्चेतश्चधावति
॥२६॥अथ काले गते देवि शुष्यत्यंबु शनैःशनैः ॥
विदित्वा क्षीयमाणास्ता अपो जलनिधिस्ततः
॥२७॥आहैवं पुंडरीकाक्षमपः कुरु त्वमक्षयाः ॥
अन्यथा सर्वनाशेन जलानां मामिहाग्रतः ॥
भक्षयिष्यत्यसौ वह्निर्वाडवो हि जनार्द्दन
॥२८॥एतच्छ्रुत्वा वचस्तस्य समुद्रस्य तु भीषणम् ॥
कृतं तदक्षयं तोयमा त्मनो भयनाशनम्
॥२९॥ज्ञात्वा सुराः सर्वमिदं विचेष्टितं कृत्यानलस्यास्य निबंधनं तथा ॥
प्रलोभनं तोयपुरःसरा द्विषः पुपूजिरे केशवमत्र चारिणम्
॥३०॥एवं सरस्वती प्राप्ता प्रभासं क्षेत्रमुत्तमम् ॥
ब्रह्मलोकान्महादेवि सर्वपापप्रणाशिनी
॥३१॥सोमेशाद्दक्षिणाग्नेये सागरस्य समी पतः ॥
संस्थिता तु महादेवी वडवानलधारिणी
॥३२॥स्नात्वाऽग्नितीर्थे पूर्वं तां पूजयेद्विधिना नरः ॥
दंपत्योर्भोजनं तत्र परिधानं सकञ्चु कम्
॥३३॥दत्त्वा ततो महादेवं पूजयेच्च कपर्द्दिनम् ॥
इति वृत्तं पुरा देवि चाक्षुषस्यांतरेऽभवत्
॥३४॥दधीच्यन्वयजातस्य वाडवस्य महा त्मनः ॥
अस्मिन्पुनर्महादेवि प्राप्ते वैवस्वतेंऽतरे ॥
और्वस्तु भार्गवे वंशे समुत्पन्नो महाद्विजः
॥३५॥संक्षिप्तोऽसौ सरस्वत्या देवमात्रा महाप्रभः ॥
तावत्स्थास्यत्यपां गर्भे यावन्मन्वतरावधिः
॥३६॥इति ते कथितं देवि सरस्वत्याः समुद्भवम् ॥
श्रुतं पापहरं नृणां कीर्त्तिदं पुण्यवर्द्धनम्
॥३७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सरस्वत्यवतारमहिमवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥