मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १८७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 187

प्रभासपञ्चकमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि सर्वकामफलप्रदम् ॥

प्रभासपंचकं पुण्यमाद्यं तत्र व्यवस्थितम्

॥१॥

तस्यैव पश्चिमे भागे प्रभास इति चोच्यते ॥

वृद्धप्रभासश्च ततो दक्षिणे नातिदूरतः

॥२॥

जल प्रभासश्च ततो दक्षिणेन वरानने ॥

कृतस्मरप्रभासश्च श्मशानं यत्र भैरवम्

॥३॥

एवं पंचप्रभासान्यः पश्येद्भक्तया समन्वितः ॥

स याति परमं स्थानं जरामरणवर्जितम्

॥४॥

न निवर्तति यत्प्राप्य दुष्प्राप्यं त्रिदशैरपि ॥

प्रभासं प्रथमं तीर्थं त्रिषु लोकेषु विश्रुतम्

॥५॥

देवानामपि दुष्प्राप्यं महापातकनाशनम् ॥

प्रभासे त्वेकरात्रेण अमावास्यां कृतोदकः

॥६॥

मुच्यते पातकैः सर्वैः शिवलोकं स गच्छति ॥

सप्तजन्मकृतं पापं गंगासागरसंगमे

॥७॥

जन्मनां च सहस्रेण यत्पापं कुरुते नरः ॥

स्नानादेवास्य नश्येत सागरे लवणांभसि

॥८॥

चतुर्दश्याममावास्यां पञ्चदश्यां विशेषतः ॥

अहोरात्रोषितो भूत्वा ब्राह्मणान्भोज्य शक्तितः

॥९॥

दत्त्वा गां कांचनं तेभ्यः शिवः प्रीतो भवत्विति ॥

एवं कृत्वा नरो देवि कुलानां तारयेच्छतम्

॥१०॥

देव्युवाच

प्रभासपंचकं ह्येतद्यत्त्वया परिकीर्तितम् ॥

कथमत्र समुद्भूतमेतन्मे कौतुकं महत्

॥११॥

एक एव श्रुतोऽस्माभिः प्रभासस्तीर्थवासितः ॥

प्रभासाः पंच देवेश यत्त्वया परिकीर्तिताः

॥१२॥

एतन्मे संशयं सर्वं यथावद्वक्तुमर्हसि

॥१३॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशनीम् ॥

यां श्रुत्वा मानवो भक्त्या प्राप्नोति परमां गतिम्

॥१४॥

पुरा महेश्वरो देवश्चचार वसुधामिमाम् ॥

दिव्यरूपधरः कान्तो दिग्वासाः स यदृच्छया

॥१५॥

एवं च रममाणस्तु ऋषीणामाश्रमं महत् ॥

जगाम कौतुकाविष्टो भिक्षार्थं दारुके वने

॥१६॥

भ्रममाणस्य तस्याथ दृष्ट्वा रूपमनुत्तमम् ॥

ता नार्यः कामसंतप्ता बभूवुर्व्यथितेन्द्रियाः

॥१७॥

सानुरागास्ततः सर्वा अनुगच्छंति तं सदा ॥

समालिंगंति ताः काश्चित्काश्च वीक्षंति रागतः

॥१८॥

प्रार्थयंति तथा चान्याः परित्यज्य गृहान्स्वकान्

॥१९॥

एवं तासां स्वरूपं ते दृष्ट्वा सर्वे महर्षयः ॥

कोपेन महता युक्ताः शेपुस्तं वृषभध्वजम्

॥२०॥

यस्मात्त्वं नग्नतामेत्य आश्रमेऽस्मिन्ममागतः ॥

मोहयानः स्त्रियोऽस्माकं लज्जां नैवं करोषि च ॥

तस्मात्ते पतताल्लिंगं सद्य एव वृषध्वज

॥२१॥

ततस्तत्पतितं लिंगं तत्क्षणाच्छंकरस्य च ॥

तस्मिन्प्रपतिते भूमौ प्राकंपत वसुंधरा

॥२२॥

क्षुभिताः सागराः सर्वे मर्यादा विजहुस्तदा ॥

शीर्णानि गिरिशृंगाणि त्रस्ताः सर्वे दिवौकसः

॥२३॥

ततो देवाः सगन्धर्वाः समहोरगकिन्नराः ॥

ऊचुः पितामहं गत्वा किमेतत्कारणं विभो

॥२४॥

सागराः क्षुभिता येन प्लावयंति वसुंधराम् ॥

शीर्यंते गिरिशृङ्गाणि कंपते च वसुंधरा

॥२५॥

चिह्नानि लोकनाशाय दृश्यन्ते दारुणानि च ॥

तेषां तद्वचन श्रुत्वा ब्रह्मलोके पितामहः

॥२६॥

ध्यात्वा तु सुचिरं कालं वाक्यमेतदुवाच ह ॥

शिवलिंगं निपतितं पृथिव्यां सुरसत्तमाः

॥२७॥

शापेन ऋषिमुख्यानां भार्गवाणां महात्मनाम् ॥

तस्मिन्निपतिते भूमौ त्रैलोक्यं सचराचरम्

॥२८॥

एतदवस्थतां प्राप्तं तस्मात्तत्रैव गम्यताम् ॥

विष्णुना सह गीर्वाणास्तथा नीतिर्विधीयताम्

॥२९॥

ततः क्षीरोदधिं जग्मुर्ब्रह्माद्यास्त्रिदिवौकसः ॥

यत्र शेते चतुर्बाहुर्योगनिद्रां च संगतः

॥३०॥

तस्मै सर्वं समाचख्युस्तेनैव सहितास्ततः ॥

जग्मुर्यत्र महादेवो लिंगेन रहितो विभुः

॥३१॥

ऊचुः समाहिताः सर्वे प्रणिपत्य दिवौकसः

॥३२॥

लिंगमुत्क्षिप्यतामेतद्यत्क्षितौ पतितं विभो ॥

एते महार्णवाः सर्वे प्लावयंति वसुंधराम्

॥३३॥

भगवानुवाच

ऋषिभिः पातितं ह्येतन्मम लिंगं सुरेश्वराः ॥

न तु शक्यो मया कर्तुं बाधस्तेषां महात्मनाम्

॥३४॥

शापो हि भार्गवेन्द्राणामतो मे श्रूयतां वचः ॥

पूजयध्वं सुराः सर्वे ब्रह्मविष्णुपुरस्सराः

॥३५॥

लिंगमेतत्ततः सर्वे सर्वं लिप्सथ सत्तमाः ॥

प्रकृतिं सागराः सर्वे यास्यंति गिरयस्तथा

॥३६॥

एतत्पुण्यतमे क्षेत्रे धृत्वा सर्वे समाहिताः ॥

अथोद्धृत्य सुराः सर्वे प्रभासं क्षेत्रमागताः

॥३७॥

तत्रैव निदधुः सर्वे ततः पूजां प्रचक्रिरे ॥

ब्रह्मणा पूजितं लिंगं विष्णुना प्रभविष्णुना

॥३८॥

शक्रेणाथ कुबेरेण यमेन वरुणेन च ॥

ऊचुश्चैव ततो देवा लिंगं संपूज्य भक्तितः

॥३९॥

अद्यप्रभृति रुद्रस्य लिंगं संपूज्य भक्तितः ॥

भविष्यामो न संदेहस्तथा पितृगणाश्च ये

॥४०॥

य एनं पूजयिष्यंति भक्तियुक्ताश्च मानवाः ॥

यास्यंति ते सुरावासं सशरीरा नरोत्तमाः

॥४१॥

अत्रैव प्रथमं लिगं यतोस्माऽभिः प्रतिष्ठितम् ॥

प्रभासं नाम चास्यापि प्रभासेति भविष्यति

॥४२॥

एवमुक्त्वा गताः सर्वे त्रिदिवं सुरसत्तमाः ॥

तं दृष्ट्वा त्रिदिवं यान्ति भूयांसः प्राणिनो भुवि

॥४३॥

ततस्त्रिविष्टपं व्याप्तं बहुभिः प्राणिभिः प्रिये ॥

तद्दृष्ट्वा त्रिदिवं व्याप्तं सहस्राक्षः सुदुःखितः

॥४४॥

ज्ञात्वा लिंगप्रभावं तु ततश्चागत्य भूतलम् ॥

वज्रेणाच्छादयामास समंतात्स वरानने

॥४५॥

ततः प्रभृति नो देवि स्वर्गं गच्छंति मानवाः ॥

इति संक्षेपतः प्रोक्तः प्रभासस्य महोदयः ॥

सर्वपापोपशमनः सर्वकामफलं प्रदः

॥४६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये प्रभासपञ्चकमाहात्म्यवर्णनंनाम सप्ताशीत्युत्तरशततमोऽध्यायः ॥ १८७ ॥