मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३३३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 333

पिंगेश्वरभद्रामाहात्म्यवर्णनम्

ईश्वर उवाच

बलभद्राच्च पूर्वेण स्थिता चासीत्सरिद्वरा ॥

दुर्वासेश्वरनामेति बललिंगं प्रतिष्ठितम्

॥१॥

सर्वपापप्रशमनं दृष्टं सर्वसुखावहम् ॥

स्नात्वा चास्य त्वमावास्यां पिंडदानं ददाति यः

॥२॥

कल्पकोटिशतं साग्रं पितॄणां तृप्तिमावहेत् ॥

दुर्वासेश्वरनामानं तत्र पूज्य विधानतः

॥३॥

कोटियज्ञफलं प्राप्य सर्वान्कामा नवाप्नुयात् ॥

तत्र लिंगान्यनेकानि ऋषिभिः स्थापितानि तु

॥४॥

दृष्ट्वा स्पृष्ट्वा पूजयित्वा मुक्तः स्यात्सर्वकिल्बिषैः ॥

इत्येतत्कथितं देवि क्षेत्राद्यं तं यथाक्रमम्

॥५॥

भद्रायाः पश्चिमात्पूर्वं यथानुक्रममादितः ॥

श्रुतं पापोपशमनं कोटियज्ञफलप्रदम्

॥६॥

अथ क्षेत्रस्य परिधिस्थानं मधुमतीति च ॥

तस्मान्नैर्ऋत्यदिग्भागे स्थानं खंडघटेति च

॥७॥

तत्र पिंगेश्वरो देवः समुद्रतटसन्निधौ ॥

कूपानां सप्तकं तत्र पितॄणां यत्र पाणयः ॥

दृश्यंतेऽद्यापि देवेशि यत्र पर्वणिपर्वणि

॥८॥

तत्र श्राद्धं नरः कृत्वा गयाकोटिगुणं फलम् ॥

लभते नाऽत्र सन्देहः सोमामा यदि जायते

॥९॥

तत्रैव नातिदूरे तु भद्रायाः संगमः स्मृतः ॥

पश्चिमात्संगमात्पूर्वः संगमः समुदाहृतः

॥१०॥

यत्पुण्यं लभते देवि पूर्व पश्चिमसंगमे ॥

गंगासागरयोस्तत्र तद्भद्रासंगमे लभेत्

॥११॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तप्तोदकस्वामिमाहात्म्ये मधुमत्यां पिंगेश्वरभद्रामाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३३ ॥