मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३६१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 361

ततो गच्छेन्महादेवि मण्डूकेश्वरमित्यपि

ईश्वर उवाच

ततो गच्छेन्महादेवि मण्डूकेश्वरमित्यपि ॥

मांडूक्यायननाम्ना वै लिंगं तत्र प्रतिष्ठितम्

॥१॥

तत्र कोटिह्रदो देवि तथा कोटीश्वरः शिवः ॥

तत्र मातृगणश्चैव स्थितः कामफलप्रदः

॥२॥

स्नात्वा कोटि ह्रदे तीर्थे तल्लिंगं यः प्रपूजयेत् ॥

मातॄस्तत्रैव संपूज्य दुःखशोकाद्विमुच्यते

॥३॥

तस्मात्पूर्वेण देवेशि योजनैकेन निर्मलम् ॥

त्रितकूपेति विख्यातं सर्वपातकनाशनम् ॥

सर्वेषां देवि तीर्थानां यत्तत्रैव व्यवस्थितिः

॥४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कोटिह्रद मण्डूकेश्वरमाहात्म्य वर्णनं नामैकषष्ट्युत्तरत्रिशततमोऽध्यायः ॥ ३६१ ॥