मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २४२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 242

कुमारीमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि यत्र देवीकुमारिका ॥

तस्यैव पूर्वदिग्भागे स्थिता रक्षार्थमेव हि

॥१॥

पुरा रथंतरे कल्पे रुरुर्नाम महासुरः ॥

उत्पन्नः स महाकायः सर्वलोकभयावहः

॥२॥

तेन देवाः सगन्धर्वास्त्रासितास्त्रिदशा लयात् ॥

तस्य भीत्या ततः सर्वे ब्रह्मलोकमधिस्थिताः

॥३॥

तथा भूमितले विप्रान्यज्वनोऽथ तपस्विनः ॥

निजघान स दुष्टात्मा ये चान्ये धर्मचारिणः

॥४॥

निःस्वाध्यायवषट्कारं तदाऽऽसीद्धरणीतलम् ॥

नष्टयज्ञोत्सवं सर्वं रुरोर्भयनिपीडितम्

॥५॥

ततः प्रव्यथिता देवास्तथा सर्वे महर्षयः ॥

समेत्यामंत्रयन्मंत्रं वधार्थं तस्य दुर्मतेः

॥६॥

ततः कायोद्भवः स्वेदः सर्वेषां समजायत ॥

तेषां चिंतयतां देवि निरोधाज्जगृहुश्च तम्

॥७॥

तत्र कन्या समुत्पन्ना दिव्या कमललोचना ॥

व्यापयंती दिशः सर्वाः सर्वेषां पुरतः स्थिता

॥८॥

सर्वान्देवांस्ततः प्राह किमर्थं निर्मितास्म्य हम् ॥

तद्वः कार्यं करिष्यामि श्रुत्वा तस्यास्तदा गिरम्

॥९॥

आचख्युः संकटं तस्यास्ते देवा रुरुचेष्टितम् ॥

श्रुत्वा जहास सा देवी देवानां कार्य सिद्धये

॥१०॥

तस्या हसंत्या निश्चेरुर्वरांगाः कन्यकाः पुनः ॥

पाशांकुशधराः सर्वाः पीनश्रोणिपयोधराः

॥११॥

फेत्कारारावमात्रेण त्रास यंत्यश्चराचरम् ॥

अन्वगात्सा रुरुर्यत्र ताभिः सार्द्धं यशस्विनी

॥१२॥

अथाभूत्तुमुलं तासां युद्धं घोरं तु तैः सह ॥

शस्त्रास्त्रैर्विविधैर्घोरैः शत्रुपक्ष क्षयंकरैः

॥१३॥

ताभिस्तदनुगाः सर्वे प्रहारैर्जर्जरीकृताः ॥

पराङ्मुखाः क्षणेनैव जाताः केचिन्निपातिताः

॥१४॥

ततो हतं बलं दृष्ट्वा रुरुर्मायामथाऽसृजत् ॥

तामसींनाम देवेशि तयामुह्यत नैव सा

॥१५॥

तमोभूते ततस्तत्र देवी दैत्यं तदा रुरुम् ॥

शक्त्या बिभेद हृदये ततो मूर्छां जगाम ह

॥१६॥

मुहूर्त्ताल्लब्धसंज्ञोऽथ ज्ञात्वा तस्याः पराक्रमम् ॥

पलायनकृतोत्साहः समुद्राभिमुखो ययौ

॥१७॥

साऽपि देवी जगामाथ पृष्ठतोऽस्य दुरात्मनः ॥

स्तूयमाना सुरगणैः किंनरैः समहोरगैः

॥१८॥

ततः प्रविश्य जलधिं तं दृष्ट्वा दानवं रुषा ॥

खङ्गाग्रेण शिरश्छित्त्वा चर्ममुण्डधरा ततः

॥१९॥

निश्चक्राम पुनस्तस्मात्प्रभासं क्षेत्रमागता ॥

कन्या सैन्येन संयुक्ता बहुरूपेण भास्वता

॥२०॥

देवैः सुविस्मितैर्दृष्टा चर्ममुण्डधरा वरा ॥

ततो देवाः स्तुतिं चक्रुः कृतांजलिपुटाः स्थिताः

॥२१॥

देवा ऊचुः

जय त्वं देवि चामुंडे जय भूतापहारिणि ॥

जय सर्वगते देवि कालरात्रि नमोऽस्तु ते

॥२२॥

भीमरूपे शिवे विद्ये महामाये महोदये ॥

महाभागे जये जृम्भे भीमाक्षि भीमदर्शने

॥२३॥

महामाये विचित्रांगि गेयनृत्यप्रिये शुभे ॥

विकरालि महाकालि कालिके कालरूपिणि

॥२४॥

प्रासहस्ते दण्डहस्ते भीमहस्ते भयानने ॥

चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले ॥

शवयानस्थिते देवि प्रेतसंघनिषेविते

॥२५॥

एवं स्तुता तदा देवी सर्वैः शक्रपुरोगमैः ॥

प्रहृष्टवदना भूत्वा वाक्यमेतदुवाच ह

॥२६॥

वरं वृणुध्वं भद्रं वो नित्यं यन्मनसि स्थितम् ॥

अहं दास्यामि तत्सर्वं यद्यपि स्यात्सुदुर्ल्लभम्

॥२७॥

देवा ऊचुः

कृतकृत्यास्त्वया भद्रे दानवस्य निषूदनात्

॥२८॥

स्तोत्रेणानेन यो देवि त्वां वै स्तौति वरानने ॥

तस्य त्वं वरदा देवि भव सर्वगता सती

॥२९॥

यश्चेदं शृणुयाद्भक्त्या तव देवि समुद्भवम् ॥

सर्वपापविनिर्मुक्तः स प्राप्नोतु परां गतिम्

॥३०॥

अस्मिन्क्षेत्रे त्वया देवि स्थितिः कार्या सदा शुभे

॥३१॥

अत्र त्वां पूजयेद्यस्तु शुक्लपक्षे समाहितः ॥

नवम्यामाश्विने मासि तस्य कार्यं सदा शुभम्

॥३२॥

ईश्वर उवाच

एवमुक्ता महादेवी तत्रैव निरताऽभवत् ॥

देवास्त्रिविष्टपं जग्मुः प्रहृष्टा हतशत्रवः

॥३३॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुमारीमाहात्म्यवर्णनंनाम द्विचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४२ ॥