मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १७०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 170

ततो गच्छेन्महादेवि तत्र मातृगणान्सुधीः

ईश्वर उवाच

ततो गच्छेन्महादेवि तत्र मातृगणान्सुधीः ॥

तत्रैव बलदेवीं च नातिदूरे व्यवस्थिताम्

॥१॥

श्रावण्यां श्रावणे मासि यस्तां पूजयते नरः ॥

पायसैर्मधुना वापि दिव्यपुष्पोपहारकैः

॥२॥

तस्य वर्षं महादेवि सुखं गच्छेत्सुपूजितम्

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मातृगणबलदेवीमाहात्म्यवर्णनंनाम सप्तत्युत्तरशततमोध्यायः ॥ १७० ॥