मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 19

यद्येवं सकलश्चंद्रः कथं न विधृतस्त्वया

देव्युवाच

यद्येवं सकलश्चंद्रः कथं न विधृतस्त्वया ॥

अन्तभावे कलानां तत्कारणं कथय प्रभो

॥१॥

ईश्वर उवाच

अमा षोडशभेदेन देवि प्रोक्ता महाकला ॥

संस्थिता परमा माया देहिनां देह धारिणी

॥२॥

अमादिपौर्णमास्यंता या एव शशिनः कलाः ॥

तिथयस्ताः समाख्याताः षोडशैव प्रकीर्तिताः

॥३॥

अमा सूक्ष्मा परा शक्तिः सा त्वं देवि प्रकीर्तिता ॥

प्रलयोत्पत्तियोगेन स्थिताः कालक्रमोदिताः

॥४॥

षोडशैव स्वरा ये तु आद्याः सृष्टयंतकाः प्रिये ॥

कालस्यावयवास्ते च विज्ञेयाः कालवेदिभिः

॥५॥

त्रुटिर्लवो निमेषश्च कला काष्ठा मुहूर्तकम् ॥

रात्र्यहःपक्षमासाश्च अयनं वत्सरं युगम्

॥६॥

मन्वतरं तथा कल्पं महाकल्पं च षोडश ॥

कला विसर्जनी या तु जीवमाश्रित्य वर्तते

॥७॥

सा सृजत्यखिलं विश्वं विषुवद्वयसंयुतम् ॥

तथा संवरणी या तु विश्वं संहरते प्रिये ॥

नेत्रपाताच्चतुर्भागस्त्रुटिकालो निगद्यते ॥

तस्माच्च द्विगुणं विद्धि निमिषं तन्महेश्वरि

॥९॥

निमिषैस्त्रिंशद्भिः काष्ठा ताभिर्विंशतिभिः कला ॥

विंशतिकलो मुहूर्तः स्याद्दिनं पंचदशैस्तु तैः

॥१०॥

दिनमाना निशा ज्ञेया अहोरात्रं द्वयाद्भवेत् ।

तैः पंचदशभिः पक्षो द्विपक्षो मास उच्यते

॥११॥

मासैश्चैवायनं षड्भिर्वर्षं स्यादयनद्वये ॥

चत्वारिंशच्च लक्षाणि लक्षाणां त्रितयं पुनः

॥१२॥

विंशतिश्च सहस्राणि ज्ञेयं सौरं चतुर्युगम् ॥

चतुर्युगैकसप्तत्या मन्वंतरमुदाहृतम्

॥१३॥

ऐंद्रमेतद्भवेदायुः समासांतं च कीर्तितम् ॥

चतुर्दशेन्द्रैः प्रलीनैः कल्पं ब्रह्मदिनं भवेत्

॥१४॥

रात्रिश्च तावती चैव चतुर्युगसहस्रिका ॥

अनेन दिनमानेन शताब्दं जीवति प्रिये

॥१५॥

ममैव निमिषार्द्धेन सहस्राणि चतुर्द्दश ॥

विनश्यंति ततो विष्णोरसंख्याताः पितामहाः

॥१६॥

एवं क्रमेण देवेशि समुत्पन्नमिदं जगत् ॥

शशिसूर्यविभागेन चित्ररूपमनंतकम्

॥१७॥

कला देवि यदाद्यंतमनादिमजमव्ययम् ॥

तदान्वितः शशी तस्यामधोमुखमवस्थितः

॥१८॥

एवं क्षयोदयं ज्ञेयं चंद्रार्काभ्यामवस्थितम् ॥

सृष्टिक्रमं मया प्रोक्तं संहारमधुना शृणु

॥१९॥

महाकल्पं हतं कल्पैः कल्पं मन्वंतरैर्हतम् ॥

मासं पक्षाहतं कृत्वा तं चाहोरात्रिभाजितम्

॥२॥

अहोरात्रं मुहूर्तेन मुहूर्तं तु कलाहतम् ॥

कलां काष्ठा हतां कृत्वा काष्ठां निमिषभाजिताम्

॥२१॥

निमिषं च लवैर्हत्वा लवं त्रुटिविभाजितम् ॥

तदतीतं प्रशांतं च निर्विकारमलक्षणम्

॥२२॥

तस्य चेयं परा माया कला शिरसि धारिता ॥

सा शक्तिर्देवदेवस्य विश्वाकारा परा प्रिये ॥

मोहयित्वा तु संतानं संसारयति पार्वति

॥२३॥

30a एवमेतज्जगद्देवि उत्पत्तिस्थितिलक्षणम् ॥

यत्रैवोत्पद्यते कृत्स्नं पुनस्तत्रैव लीयते

॥२४॥

सेयं मायामयी शक्तिः शुद्धाशुद्धस्वरूपिणी ॥

चंद्ररूपा स्थिता सा तु तव देवि प्रकाशयेत्

॥२५॥

देव्युवाच

पंचाग्निनोपसन्तप्ता वर्षकोटीरनेकधा ॥

तत्तपः सफलं जातं मेऽद्य देव जगत्पते

॥२६॥

सृष्टियोगो मया ज्ञातः संहारश्च महेश्वर ॥

चन्द्रोत्पत्तिस्वरूपं च कलामानं तथैव च

॥२७॥

अधुना मम देवेश सन्देहो हृदि संस्थितः ॥

कौतूहलं परं देव कथयस्व महेश्वर

॥२८॥

अमृतादेव संभूतः सर्वाह्लादकरः शशी ॥

प्रियश्च तव देवेश वल्लभश्चंद्रमास्तथा

॥२९॥

चंद्रे च चदि इत्येष ह्लादने धातुरिष्यते ॥

शुक्लत्वे चापतत्त्वे च मया त्वेष विभाव्यते

॥३॥

सर्वौषधीनामधिपः पितॄणां प्रीणनं परम् ॥

तदाश्रयश्च त्वद्भक्तस्त्व त्सेवातत्परः शशी

॥३१॥

तथापि सकलंकोऽयं कौतुकं कुरुते मम ॥

देवि ब्रह्मांडसंघट्टमालामंडितशेखरः

॥३२॥

शीर्षे तव निविष्टस्य कष्टं चंद्रस्य चेद्यदि ॥

तर्हि नाथ न शोच्या वै संसारे दुःखभागिनः

॥३३॥

न चास्ति त्रिषु लोकेषु न चैतत्संभविष्यति ॥

यत्र शक्तो भवत्कर्तुं दुःखस्यास्य च संक्षयम्

॥३४॥

सर्वेषां वर्तते शंका यथा मम महेश्वर ॥

उत्पन्नं कारणं किंतद्येन सोमस्य लांछनम्

॥३५॥

किमेतत्कारणं देव कथयस्व महेश्वर ॥

अमृते संभवो यस्य कथं तस्यापि लांछनम्

॥३६॥

प्रियश्च तव देवेश लांछनं चापि तिष्ठति ॥

कौतूहलं परं देव तत्त्वं मे वक्तुमर्हसि

॥३७॥

एवमुक्तः स पार्वत्या देवदेवो महेश्वरः ॥

उवाच परमप्रीतः प्रेम्णा शैलसुतां प्रभुः

॥३८॥

ईश्वर उवाच

किं ते देवि महाशंकाद्योत्पन्ना वरवर्णिनि ॥

ममोपरि न कर्त्तव्या निरुद्विग्ना भव प्रिये ॥

पितुस्तव प्रभावेन लांछनं शशिनोऽभवत्

॥३९॥

भावित्वात्कर्मणो देवि दक्षस्याज्ञाव्यतिक्रमात् ॥

समं वर्त्तस्व भार्याभिरित्युक्तः शशलांछनः

॥४०॥

तद्वाक्यमन्यथा चक्रे ततः शप्तः शशी प्रिये ॥

इदं पृष्टं तु यद्देवि त्वया लांछनकारणम्

॥४१॥

कल्पेकल्पे पृथग्भावं कारणैरस्ति भामिनि ॥

असंख्यातं च तद्वक्तुं शक्यं नैव मया प्रिये

॥४२॥

असंख्येयाश्चन्द्रमसः संभवंति पुनःपुनः ॥

विनश्यंति च देवेशि सर्वमन्वन्तरान्तरम्

॥४३॥

असंख्याताश्च कल्पाख्या असंख्याताः पितामहाः ॥

हरयश्चाप्यसंख्याता एक एव महेश्वरः

॥४४॥

कोटिकोट्ययुतान्यत्र ब्रह्माण्डानि मम प्रिये ॥

जलबुद्बुदवद्देवि संजातानि तु लीलया

॥४५॥

तत्रतत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥

सृष्टाः प्रधानेन तदा लब्धा शंभोस्तु संनिधिः

॥४६॥

लयं चैव तथान्योन्यमाद्यंतं प्रकरोति च ॥

सर्गसंहारसंस्थानां कर्त्ता देवो महेश्वरः

॥४७॥

सर्गे च रजसा पृक्तः सत्त्वस्थः परिपालने ॥

प्रतिसर्गे तमोयुक्तः सोऽहं देवि त्रिधा स्थितः

॥४८॥

तस्मान्माहेश्वरो ब्रह्मा ब्रह्मणोऽधिपतिः शिवः ॥

सदाशिवो भवेद्विष्णुर्ब्रह्मा सर्वात्मको ह्यतः

॥४९॥

स एव भगवान्रुद्रो विष्णुर्विश्व जगत्प्रभुः ॥

अस्मिन्नण्डे त्विमेलोका अन्तर्विश्वमिदंजगत्

॥५०॥

चन्द्रसूर्यग्रहा देवि ब्रह्माण्डेऽस्मिन्मनस्विनि ॥

संख्यातुं नैव शक्यन्ते ये भविष्यंति ये गताः

॥५१॥

अस्मिन्वाराहकल्पे तु वर्तमाने मनस्विनि ॥

षडतीता महादेवि रोहिणीपतयः पुरा

॥५२॥

सप्तमोऽयं महादेवि वर्ततेऽमृतसंभवः ॥

दक्षशापेन यो देवि संक्षीणो दृश्यतेऽधुना

॥५३॥

अथ द्वितीये संप्राप्ते परार्द्धे चैव वेधसः ॥

तस्य त्रिंशत्तिमे कल्पे पितृ कल्पेति विश्रुते

॥५४॥

स्वायंभुवेंऽतरे प्राप्ते तस्यादौ त्वं सती किल ॥

तस्मिन्काले महादेवि योभूद्दक्षः पिता तव

॥५५॥

प्राणात्प्रजापतेर्जन्म तस्य दक्षस्य कीर्तितम् ॥

अस्मिन्मन्वन्तरे देवि दक्षः प्राचेतसोऽभवत्

॥५६॥

अंगुष्ठाद्दक्षिणाद्दक्षो भविष्यत्यधुना प्रिये ॥

युगेयुगे भवन्त्येते सर्वे दक्षादयो द्विजाः

॥५७॥

पुनश्चैव विनश्यन्ति विद्वांस्तत्र न मुह्यति ॥

तस्यापमानात्त्वं देवि देहं तत्यक्थ वै पुरा

॥५८॥

तावद्वियुक्तोऽहं देवि त्वया मुक्तोऽभवं पुरा ॥

यावद्वराहकल्पस्य चाक्षुषस्यान्तरं प्रिये

॥५९॥

एकविंशो मनुश्चायं कल्पे वाराहसंज्ञके ॥

कल्पेकल्पे महादेवि भवेन्नामान्तरं तव

॥६०॥

अस्मिन्कल्पे तु वाराहे हिमवत्तपसार्ज्जिते ॥

संभूता पार्वती देवि चाक्षुषस्यांतरे गते

॥६१॥

ब्रह्मणो दिनमेकं तु षण्मासेन तवावधिः ॥

त्वं वियुक्ता मया सार्द्धं दक्षकोपेन भामिनि

॥६२॥

तव क्रोधेन ये शप्ता ऋषयो वै मया पुरा ॥

तेऽपि देवि त्वया सार्द्धं जाता वैवस्वतेंतरे

॥६३॥

भृगुरंगिरा मरीचिस्तु पुलस्त्यः पुलहः क्रतुः ॥

अत्रिश्चैव वसिष्ठश्च अष्टौ ते ब्रह्मणः सुताः

॥६४॥

दक्षस्य यज्ञे ते शप्ताः पूर्वं स्वायंभुवेन्तरे ॥

जाता देवि पुनस्ते वै कल्पेस्मिंश्चाक्षुषे गते

॥६५॥

देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥

ब्रह्मणो जुह्वतः शुक्रमग्नौ पूर्वं प्रजेप्सया

॥६६॥

ऋषयो जज्ञिरे पूर्वं सूर्यबिंबसमप्रभाः ॥

पितुस्तव समीपं ते वरणाय तव प्रिये ॥

प्रस्थापिता मया पूर्वं तत्त्वं जानासि सुव्रते

॥६७॥

अथ किं बहुनोक्तेन वच्मि ते प्रश्नमुत्तमम् ॥

द्वितीये तु परार्द्धेऽस्मिन्वर्त्तमाने च वेधसः

॥६८॥

श्वेतकल्पात्समारभ्य यावद्वाराहगोचरम् ॥

समतीताश्च ये चन्द्रास्ताञ्छृणुष्व वरानने

॥६९॥

चतुःशतानि देवेशि षड्विंशत्यधिकानि तु ॥

गतानि शीतरश्मीनां सप्तविंशोऽधुना प्रिये

॥७०॥

वैवस्वतेंऽतरे प्राप्ते यश्चायं वर्ततेऽधुना ॥

त्रेतायुगे तु दशमे दत्तात्रेयपुरःसरः

॥७१॥

संजातो रोहिणीनाथो योऽधुना वर्त्तते प्रिये ॥

तस्योत्पत्तिप्रसंगेन विष्णोर्मानुषसंभवान्

॥७२॥

देहावतारान्वक्ष्यामि प्रारंभात्प्रथमान्प्रिये ॥

पञ्चमः पंचदश्यां स त्रेतायां तु बभूव ह

॥७३॥

मांधाता चक्रवर्त्तित्वे तस्योतथ्यपुरःसरः ॥

एकोनविंशत्रेतायां सर्वक्षत्रांतकोऽभवत्

॥७४॥

जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः ॥

चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा

॥७५॥

सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ॥

अष्टमे द्वापरे विष्णुरष्टाविंशे पराशरात्

॥७६॥

वेदव्यासस्ततो जज्ञे जातूकर्ण्यपुरःसरः ॥

तत्रैव नवमो विष्णुरदितेः कश्यपात्मजः

॥७७॥

देवक्यां वसुदेवात्तु ब्रह्मगर्गपुरःसरः ॥

एकविंशतमस्यास्य द्वापरस्यांशसंक्षये ॥

नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले स्वयम्

॥७८॥

कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनः ॥

पूर्वजन्मनि विष्णुः स प्रमतिर्नाम वीर्यवान्

॥७९॥

गोत्रेण वै चंद्रमसः संध्यामिश्रे भविष्यति ॥

कल्किर्विष्णुयशानाम पाराशर्यप्रतापवान्

॥८०॥

दशमो भाव्यसंभूतो याज्ञवल्क्यपुरःसरः ॥

अनुकर्षश्च वै सेनां हस्त्यश्वरथसंकुलाम्

॥८१॥

प्रगृहीतायुधैर्विप्रैर्भृशं शतसहस्रशः ॥

निःशेषाञ्छूद्रराज्ञस्तांस्तदा स तु करिष्यति

॥८२॥

पाखंडान्म्लेच्छजातींश्च दस्यूंश्चैव सहस्रशः ॥

नात्यर्थं धार्मिका ये च ब्रह्मब्रह्मद्विषः क्वचित्

॥८३॥

प्रवृत्तचक्रो बलवाञ्च्छूराणामंतको बली ॥

अदृश्यः सर्वभूतानां पृथिवीं विचरिष्यति

॥८४॥

मानवस्य तु सोंऽशेन देवस्य भुवि वै प्रभुः ॥

क्षपयित्वा तु तान्सर्वान्भाविनार्थेन नोदितान् ॥

गंगायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः

॥८५॥

ततो व्यतीते कल्कौ तु सामात्ये सहसैनिके ॥

नृपेष्वपि च नष्टेषु तदात्वप्रहराः प्रजाः

॥८६॥

रक्षणे विनिवृत्ते च हत्वा चान्योन्यमाहवे ॥

परस्परहतास्ताश्च निराक्रंदाः सुदुःखिताः

॥८७॥

क्षीणे कलियुगे चास्मिन्दशवर्षसहस्रके ॥

स संध्यांशे तु निःशेषे कृतं वै प्रतिपत्स्यति

॥८८॥

यदा चंद्रश्च सूर्यश्च तथा तिष्यबृहस्पती ॥

एकराशौ समेष्यंति प्रपत्स्यति तदा कृतम्

॥८९॥

अभिजिन्नाम नक्षत्रं जयंतीनाम शर्वरी ॥

मुहूर्तो विजयो नाम यत्र जातो जनार्द्दनः

॥९०॥

देव्युवाच

नोक्तं यथावदखिलं भृगुशापविचेष्टितम् ॥

पूर्वावतारान्मे ब्रूहि नोक्तपूर्वान्महेश्वर

॥९१॥

ईश्वर उवाच

यदा तु पृथिवी व्याप्ता दानवैर्बलवत्तरैः ॥

ततः प्रभृति शापेन भृगुनैमित्तिकेन ह

॥९२॥

जज्ञे पुनःपुनर्विष्णुः कर्त्तुं धर्मव्यवस्थितिम् ॥

धर्मान्नारायणः साध्यः संभूतश्चाक्षुषेंतरे

॥९३॥

यज्ञं प्रवर्तयामास स च वैवस्वतेंऽतरे ॥

प्रादुर्भावे तदा तस्य ब्रह्मा चासीत्पुरोहितः

॥९४॥

चतुर्थ्यां तु युगाख्यायामापन्नेषु सुरेष्विह ॥

संभूतः स समुद्रात्तु हिरण्यकशिपोर्वधे

॥९५॥

द्वितीयो नरसिंहोऽभूद्रुद्रस्तस्य पुरःसरः ॥

लोकेषु बलिसंस्थेषु त्रेतायां सप्तमे युगे

॥९६॥

दैत्यैस्त्रैलोक्य आक्रांते तृतीयो वामनोभवत् ॥

संक्षिप्यात्मानमंगेषु बृहस्पतिपुरःसरः

॥९७॥

त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह ॥

नष्टे धर्मे चतुर्थांशे मार्कंडेयपुरःसरः ॥

एते दिव्यावतारा वै मानुष्ये कथिताः पुरा

॥९८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्रीविष्ण्ववतारवर्णनंनामैकोनविंशोऽध्यायः ॥ १९ ॥