पुलस्त्येश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि पुलस्त्येश्वरमुत्तमम् ॥
मार्कंडेयोत्तेरे भागे धनुषां पञ्चके स्थितम्
॥१॥तं दृष्ट्वा मानवो देवि पूजयित्वा विधानतः ॥
सप्तजन्मार्जितात्पापान्मुच्यते नात्र संशयः
॥२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुलस्त्येश्वरमाहात्म्यवर्णनंनाम दशोत्तरद्विशततमोऽध्यायः ॥ २१० ॥