कृत्योद्भवमदनामकमहाऽसुरोत्पादनवृत्तान्तवर्णनम्
ईश्वर उवाच
ततः श्रुत्वा च शर्यातिर्वलभीस्थान संस्थितः ॥
वयस्थं च्यवनं श्रुत्वा आनन्दोद्गतमानसः
॥१॥प्रहृष्टः सेनया सार्द्धं स प्रायाद्भार्गवाश्रमम् ॥
च्यवनं च सुकन्यां च हृष्टां देव सुतामिव
॥२॥गतो महीपः शर्यातिः कृत्स्नानंदमहोदधिः ॥
ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः ॥
तत्रोपविष्टः कल्याणीः कथाश्चक्रे महामनाः
॥३॥अथैनं भार्गवो देवि ह्युवाच परिसांत्वयन् ॥
याजयिष्यामि राजंस्त्वां संभारानुपकल्पय
॥४॥ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः ॥
च्यवनस्य महादेवि तद्वाक्यं प्रत्यपूजयत्
॥५॥प्रशस्तेऽहनि याज्ञीये सर्वकामसमृद्धिमत् ॥
कारयामास शर्यातिर्यज्ञायतनमुत्तमम्
॥६॥तत्रैव च्यवनो देवि याजयामास भार्गवम् ॥
अद्भुतानि च तत्रासन्यानि तानि महेश्वरि
॥७॥अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा ॥
तमिन्द्रो वारयामास मा गृहाण तयोर्ग्रहम् ॥
इन्द्र उवाच ॥
उभावेतौ न सोमार्हौ नासत्याविति मे मतिः ॥
भिषजौ देवतानां हि कर्मणा तेन गर्हितौ
॥९॥च्यवन उवाच
माऽवमंस्था महात्मानौ रूपद्रविणवर्चसौ ॥
यौ चक्रतुश्च मामद्य वृंदारकमिवाजरम्
॥१०॥समत्वेनान्यदेवानां कथं वै नेक्षते भवान् ॥
अश्विनावपि देवेन्द्र देवौ विद्धि परंतप
॥११॥इन्द्र उवाच
चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ ॥
लोके चरंतौ मर्त्यानां कथं सोममिहार्हतः
॥१२॥ईश्वर उवाच
एतदेव यदा वाक्यमाम्रेडयति वासवः ॥
अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः
॥१३॥ग्रहीष्यंतं ततः सोममश्विनोः सत्तमं तदा ॥
समीक्ष्य बलभिद्देव इदं वचनमब्रवीत्
॥१४॥आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम् ॥
वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम्
॥१५॥एवमुक्तः स्वयमिन्द्रमभिवीक्ष्य स भार्गवः ॥
जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम्
॥१६॥ततोऽस्मै प्राहरत्कोपाद्वज्रमिंद्रः शचीपतिः ॥
तस्य प्रहरतो बाहुं स्तंभयामास भार्गवः
॥१७॥स्तंभयित्वाथ च्यवनो जुहुवे मन्त्रतोऽनलम् ॥
कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः
॥१८॥तत्र कृत्योद्भवो यज्ञे मुनेस्तस्य तपोबलात् ॥
मदोनाम महावीर्यो महाकायो महासुरः
॥१९॥शरीरं यस्य निर्देष्टुमशक्यं च सुरासुरैः ॥
तस्य प्रमाणं वपुषा न तुल्यमिह विद्यते
॥२०॥तस्यास्यं चाभवेद्घोरं दंष्ट्रा दुर्दर्शनं महत् ॥
हनुरेकः स्थितस्तस्य भूमावेको दिवं गतः
॥२१॥चतस्रश्चापि ता दंष्ट्रा योजनानां शतंशतम् ॥
इतरे त्वस्य दशना बभूबुर्दशयोजनाः
॥२२॥प्राकारसदृशाकारा मूलाग्रसमदर्शनाः ॥
नाम्ना पर्वतसंकाशाश्चायुतायुतयोजनाः
॥२३॥नेत्रे रविशशिप्रख्ये भ्रुवावंतकसन्निभे ॥
लेलिहज्जिह्वया वक्त्रं विद्युच्चलितलोलया ॥
व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात्
॥२४॥स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत् ॥
महता घोरनादेन लोकाञ्छब्देन छादयन्
॥२५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्ये च्यवनेन नासत्ययज्ञभागप्रतिरोधकवज्र मोचनोद्यतशक्रनाशाय कृत्योद्भवमदनामकमहाऽसुरोत्पादनवृत्तान्तवर्णनंनाम द्व्यशीत्युत्तरद्विशततमोऽध्यायः ॥ २८२ ॥