मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १७२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 172

भरतेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महा देवि लिंगं तद्भरतेश्वरम् ॥

तस्मादुत्तरकोणस्थं नातिदूरं व्यवस्थितम्

॥१॥

भरतोनाम राजाऽभूदाग्नीध्रः प्रथितः क्षितौ ॥

यस्येदं भारतं वर्षं नाम्ना लोकेषु गीयते

॥२॥

स च चक्रे तपो घोरं क्षेत्रेऽस्मिन्पार्वति प्रिये ॥

दिव्यं वर्षसहस्रं तु प्रतिष्ठाप्य महेश्वरम्

॥३॥

पुत्रकामो नरश्रेष्ठः पूजयामास शंकरम् ॥

ततस्तुष्टः स भगवान्वरं दातुं समुत्सुकः

॥४॥

अष्टौ पुत्रान्ददौ तस्मै कन्यां चैकां यशस्विनीम् ॥

स तु प्राप्याभिलषितं कृतकृत्यो नराधिपः

॥५॥

भारतं नवधा कृत्वा पुत्रेभ्यः प्रददौ पृथक् ॥

तेषां नामांकितान्येव ततो द्वीपानि जज्ञिरे

॥६॥

इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ॥

नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ चारुणः

॥७॥

अयं तु नवमो द्वीपः कुमार्या संज्ञितः प्रिये ॥

अष्टौ द्वीपाः समुद्रेण प्लाविताश्च तथापरे

॥८॥

ग्रामादिदेशसंयुक्ताः स्थिताः सागरमध्यगाः ॥

एक एव स्थितस्तेषां कुमार्याख्यस्तु सांप्रतम्

॥९॥

बिंदुसरः प्रभृत्येव सागराद्दक्षिणोत्तरम् ॥

योजनानां सहस्रं तु एकं विस्तीर्ण एव तु

॥१०॥

योजनानां सहस्राणि नव दैर्घ्यं प्रकीर्तितम् ॥

तस्यैतज्जृम्भितं देवि भरतस्य महात्मनः

॥११॥

षट्पञ्चाशदश्वमेधान्गंगामनु चकार यः ॥

यस्त्रिंशद्यमुनाप्रान्ते भरतो लोकपूजितः

॥१२॥

स चेश्वरप्रसादेन मोदते दिवि देववत्

॥१३॥

यस्तत्प्रतिष्ठितं लिंगं भारतं पूजयिष्यति ॥

स सर्वयज्ञदानानां फलं प्रापयिता धुवम्

॥१४॥

कार्त्तिक्यां कृत्तिका योगे यस्तं पश्यति मानवः ॥

न स पश्यति स्वप्नेपि नरकं घोरदारुणम्

॥१५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भरतेश्वरमाहात्म्यवर्णनंनाम द्विसप्तत्युत्तरशततमोऽध्यायः ॥ १७२ ॥