मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २०४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 204

सरस्वतीसंगममाहात्म्यवर्णनम्

देव्युवाच

भगवन्देवदेवेश संसारार्णवतारक ॥

सरस्वत्याश्च माहात्म्यं विस्तरात्कथयस्व मे

॥१॥

यात्रागतानां देवेशि पुरुषाणां जितात्मनाम् ॥

मुखद्वारे तु किं पुण्यं स्नानदाने च शंकर

॥२॥

अवगाहनेन चान्यत्र फलं किंस्वित्प्रजायते ॥

श्राद्धस्य किं विधानं तु के मंत्रास्तत्र के द्विजाः

॥३॥

किं ग्राह्यं किञ्च भोक्तव्यं ब्राह्मणैः श्राद्धकर्मणि ॥

कानि दानानि देयानि नृभिर्यात्रा फलेप्सुभिः

॥४॥

ईश्वर उवाच

शृणु देविप्रवक्ष्यामि दानश्राद्धविधिक्रमम् ॥

सरस्वत्याश्च माहात्म्यं कीर्त्यमानं निबोध मे

॥५॥

पुण्यं सारस्वतं तोयं यत्र तत्रावगाह्यते ॥

सागरेण तु संमिश्रं देवानामपि दुर्लभम्

॥६॥

सरस्वती सर्वनदीषु पुण्या सरस्वती लोकसुखावगाहा ॥

सरस्वतीं प्राप्य न दुःखिता नराः सदा न शोचंति परत्र चेह वा

॥७॥

पुण्यं सारस्वतं तीर्थं पुण्यकृल्लभते नरः ॥

दुर्लभं त्रिषु लोकेषु वैशाख्या सोमपर्वणि

॥८॥

अमा सोमेन संयुक्ता यदि तत्रैव लभ्यते ॥

तत्र किं क्रियते देवि पर्वकोटिशतैरपि

॥९॥

चान्द्रायणानि कृच्छ्राणि महासां तपनानि च ॥

प्रायश्चित्तानि दीयन्ते यत्र नास्ति सरस्वती

॥१०॥

यावदस्थि शरीरस्य तिष्ठेत्सारस्वते जले ॥

तावद्वर्षसहस्राणि विष्णुलोके वसे न्नरः ॥

जात्यन्धैस्ते समा ज्ञेया मृतैः पंगुभिरेव च

॥११॥

समर्था ये न पश्यन्ति प्रभासस्थां सरस्वतीम् ॥

ते देशास्तानि तीर्थानि आश्रमास्ते च पर्वताः

॥१२॥

येषां सरस्वती देवी मध्ये याति सरिद्वरा ॥

त्रैलोक्यपावनीं पुण्यां संश्रिता ये सरस्वतीम् ॥

संसारकर्दमामोदमाजिघ्रन्ति न ते पुनः

॥१३॥

शब्दविद्येव विस्तीर्णा मतैव जगतः प्रिया ॥

सतां मतिरिव स्वच्छा रमणीया सरस्वती

॥१४॥

त्रैलोक्यशोभितां देवीं दिव्य तोयां सुनिर्मलाम् ॥

स नीचो यः पुमानेतां न वन्देत सरस्वतीम्

॥१५॥

स्वर्गनिश्रेणिसंभूता प्रभासे तु सरस्वती ॥

नापुण्यवद्भिः संप्राप्तुं पुंभिः शक्या महानदी

॥१६॥

चन्द्रभागा च गंगा च तथा यत्र सरस्वती ॥

देवास्ते न मनुष्यास्ते तिस्रो नद्यः पिबन्ति ये

॥१७॥

सत्यमेव मया देवि जाह्नवी शिरसा धृता ॥

याः काश्चित्सरितो लोके तासां पुण्या सरस्वती

॥१८॥

दर्शनेन सरस्वत्या राजसूयो न राजते ॥

गंडूषश्चाश्वमेधाद्वै सर्व क्रतुवरं पयः

॥१९॥

भस्मास्थिचर्मतोयानि नखकेशादिकानि च ॥

वातैरपि धुतान्येव तथा सारस्वते जले

॥२॥

वहन्ति येषां कालेन ते न काल वशा नराः ॥

देवि किं बहुनोक्तेन वर्णितेन पुनःपुनः ॥

सरस्वत्याः परं तीर्थं न भूतं न भविष्यति

॥२१॥

तत्रैव दुर्लभं स्नानं यत्र सागरसंगमः ॥

तत्र स्नानेन दानेन कोटियज्ञफलं लभेत्

॥२२॥

यत्र सारस्वतं तोयं सागरोर्मिसमाकुलम् ॥

तत्र स्नास्यंति ये मर्त्या भाग्यवन्तो युगेयुगे

॥२३॥

ते धन्यास्ते नमस्कार्यास्तेषां स्फीततरं यशः ॥

येषां कलेवरं नॄणां सिक्तं सारस्वतैर्जलैः

॥२४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सरस्वतीसंगममाहात्म्यवर्णनंनाम चतुरुत्तरद्विशततमोऽध्यायः ॥ २०४ ॥