तस्यैव पूर्वदिग्भागे सरस्वत्या प्रतिष्ठितम्
ईश्वर उवाच
तस्यैव पूर्वदिग्भागे सरस्वत्या प्रतिष्ठितम् ॥
लिंगं महाप्रभावं तु सोमेशादग्निगोचरे
॥१॥भैरवेश्वररूपस्तु वाडवः कुम्भसंस्थितः ॥
यत्र देव्या समानीतः सागरस्य समीपतः
॥२॥विश्रामार्थं क्षणं मुक्त्वा देव्या लिंगं प्रतिष्ठितम् ॥
समभ्यर्च्य विधानेन गृहीत्वा वडवानलम् ॥
समुद्रमध्ये चिक्षेप देवानां हितकाम्यया
॥३॥ततो हृष्टतरा देवाः शंखदुन्दुभिनिःस्वनैः ॥
पूरयन्तोंऽबरं देवीमीडिरे पुष्पवृष्टिभिः
॥४॥देवमातेति ते नाम कृत्वोचुस्तां तदा सुराः ॥
कृत्वा तु भैरवं कार्यमसाध्यं देवदानवैः
॥५॥प्रतिष्ठितवती चात्र यस्माल्लिंगं महोदयम् ॥
त्वं सर्वसरितां श्रेष्ठा सर्वपातकनाशिनी ॥
तस्माद्भैरवनामेति लिंगं ख्यातिं गमिष्यति
॥६॥इत्युक्ता तु तदा देवी भैरवेश्वरनैर्ऋते ॥
सागरस्य स्थिता रम्ये तत्र मूर्त्तिमती सती
॥७॥पूजयेत्तां विधानेन तं तथा भैरवेश्वरम् ॥
महानवम्यां यत्नेन कृत्वा स्नानं विधानतः ॥
सरस्वतीं पूजयित्वा वाग्दोषान्मुच्यतेऽखिलात्
॥८॥तस्या लिंगं तु संपूज्य संस्नाप्य पयसा पृथक् ॥
अघोरेणैव विधिवत्सम्यग्यात्राफलं लभेत्
॥९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भैरवेश्वरमाहात्म्यवर्णनंनामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥