प्रभासक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि अजापालेश्वरीं शुभाम् ॥
अगस्त्यस्थानपूर्वेण नातिदूरे व्यवस्थिताम्
॥१॥रघुवंशसमुद्भूतो ह्यजापालो नृपोत्तमः ॥
स तत्र देवीमाराध्य पापरोगवशंकरीम्
॥२॥अजारूपांश्च रोगान्वै चारयामास भूमिपः ॥
तत्र तां स्थापयामास स्वनाम्ना पापनाशिनीम्
॥३॥यस्तां पूजयते भक्त्या तृतीयायां विधानतः ॥
बल बुद्धिर्यशो विद्यां सौभाग्यं प्राप्नुयान्नरः
॥४॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनंनाम सप्ताशीत्युत्तरद्विशततमोऽध्यायः ॥ २८७ ॥