मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 21

श्रुतं सर्वमशेषेण चन्द्रस्योत्पत्ति कारणम्

देव्युवाच

श्रुतं सर्वमशेषेण चन्द्रस्योत्पत्ति कारणम् ॥

चिह्नं यथाऽभवत्तस्य सांप्रतं तत्प्रकीर्त्तय

॥१॥

ईश्वर उवाच

ब्रह्मणस्तु पुरा देवि दक्षो नाम सुतोऽभवत् ॥

प्रजाः सृजेति उद्दिष्टः पूर्वं दक्षः स्वयंभुवा

॥२॥

षष्टिं दक्षोऽसृजत्कन्या वैरिण्यां वै प्रजापतिः ॥

ददौ स दश धर्माय कश्यपाय त्रयोदश

॥३॥

सप्त विशतिं सोमाय चतस्रोऽरिष्टनेमिने ॥

द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते

॥४॥

द्वे चैवांगिरसे तद्वत्तासां नामानि विस्तरात् ॥

शृणु त्वं देवि मातॄणां प्रजाविस्तरमादितः

॥५॥

मरुत्वती वसुर्जामी लंबा भानुररुन्धती ॥

संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनि

॥६॥

धर्म पत्न्यः समाख्याता दक्षः प्राचेतसो ददौ ॥

अदितिर्दितिर्दनुस्तद्वदरिष्टा सुरसैव च

॥७॥

सुरभिर्विनता चैव नाम्ना क्रोधवशा त्विला ॥

कद्रूस्त्विषा वसुस्तद्वत्तासां पुत्रान्वदामि वै

॥८॥

विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत् ॥

मरुत्वत्यां मरुत्वंतो वसोस्तु वसवस्तथा

॥९॥

भानोस्तु भानवस्तेन मुहूर्त्तायां मुहूर्त्तकाः ॥

लंबाया घोषनामानो नागवीथिस्तु जामिजा

॥१०॥

संकल्पायास्तु संकल्पो धर्मपुत्रा दश स्मृताः ॥

आपो ध्रुवश्च सोमश्च धरश्चैवानलोऽनिलः

॥११॥

प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः ॥

आपस्य पुत्रा वैदंड्यः श्रमः शान्तो ध्वनिस्तथा

॥१२॥

ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥

सोमस्य भगवाञ्छर्वो ध्रुवश्च गृहबोधनः

॥१३॥

हुतहव्यवहश्चैव धरस्य द्रविण स्मृतः ॥

मनोजवोऽनिलस्यासीदविज्ञातगतिस्तथा

॥१४॥

देवलो भगवान्योगी प्रत्यूषस्याभवन्सुताः ॥

बृहस्पतेस्तु भगिनी भुवना ब्रह्मवादिनी

॥१५॥

प्रभासस्य तु सा भार्या वसूनामष्टमस्य च ॥

विश्वकर्मा सुतस्तस्य शिल्पकर्त्ता प्रजापतिः

॥१६॥

तुषितानां तु साध्यानां नामान्येतानि वच्मि ते ॥

मनोऽनुमन्ता प्राणश्च नरोऽपानश्च वीर्यवान्

॥१७॥

भक्तिर्भयोऽनघश्चैव हंसो नारायणस्तथा ॥

विभुश्चैव प्रभुश्चैव साध्या द्वादश कीर्तिताः

॥१८॥

कश्यपस्य प्रवक्ष्यामि सन्ततिं वरवर्णिनि ॥

अंशो धाता भगस्त्वष्टा मित्रोऽथ वरुणो र्यमा

॥१९॥

विवस्वान्सविता पूषा ह्यंशुमान्विष्णुरेव च ॥

एते सहस्रकिरणा आदित्या द्वादश स्मृताः

॥२०॥

अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ॥

हरश्च बहुरूपश्च त्र्यंबकश्च सुरेश्वरः

॥२१॥

सावित्रश्च जयन्तश्च पिनाकी चापराजितः ॥

एते रुद्राः समाख्याता एकादश गणेश्वराः

॥२२॥

दितिः पुत्रद्वयं लेभे कश्यपाद्बलगर्वितम् ॥

हिरण्यकशिपुं श्रेष्ठं हिरण्याक्षं तथानुजम्

॥२३॥

हिरण्यकशिपोर्दैत्यैः श्लोकोगीतः पुरातनैः

॥२४॥

राजा हिरण्यकशिपुर्यांयामाशां निरीक्षते ॥

तस्यां तस्यां दिशि सुरा नमश्चक्रुर्महर्षिभिः ॥

हिरण्यकशिपोः पुत्राश्चत्वारः सुमहाबलाः

॥२५॥

प्रह्लादः पूर्वजस्तेषामनुह्रादस्ततः परः ॥

ह्रादश्चैव ह्रदश्चैव पुत्राश्चैते प्रकीर्तिताः

॥२६॥

उभौ सुन्दोपसुन्दौ तु ह्रदपुत्रौ बभूवतुः ॥

ह्रादस्य पुत्रस्त्वेकोऽभून्मूक इत्यभिविश्रुतः

॥२७॥

मारीचः सुंदपुत्रस्तु ताडकायामजायत ॥

दण्डके निहतः सोऽयं राघवेण वलीयसा

॥२८॥

मूको विनिहतश्चापि कैराते सब्यसाचिना ॥

संह्रादस्य तु दैत्यस्य निवातकवचाः कुले

॥२९॥

तिस्रः कोट्यस्तु विख्याता निहताः सव्यसाचिना ॥

गवेष्ठी कालनेमिश्च जंभो वल्कल एव च

॥३०॥

जृंभः षष्ठोनुजस्तेषां स्मृताः प्रह्रादसूनवः ॥

शुंभश्चैव निशुंभश्च गवेष्ठिनः सुतौ स्मृतौ

॥३१॥

धनुकश्चासिलोमा च शुंभपुत्रौ प्रकीर्तितौ ॥

विरोचनस्य पुत्रस्तु बलिरेकः प्रतापवान्

॥३२॥

हिरण्याक्षसुताः पंच विक्रांताः सुमहाबलाः ॥

अन्धकः शकुनिश्चैव कालनाभस्तथैव च

॥३३॥

महानाभश्च विक्रांतो भूतसंतापनस्तथा ॥

शतं शतसहस्राणि निहतास्तारकामये

॥३४॥

इति संक्षपतः प्रोक्ता कश्यपान्वयसंततिः ॥

यया व्याप्तं जगत्सर्वं सदेवासुरमानुषम्

॥३५॥

अथ याः कन्यका दत्ताः सप्तविंशतिरिंदवे ॥

तासां मध्ये महादेवि प्रिया तस्य च रोहिणी

॥३६॥

अथ नक्षत्रनाथस्य तासां मध्येतिवल्लभा ॥

बभूव रोहिणी देवी प्राणेभ्योऽपि गरीयसी

॥३७॥

सर्वास्ताः संपरित्यज्य रोहिण्या सहितो रहः ॥

रेमे कामपरीतात्मा वनेषूपवनेषु च ॥

रमणीयेषु देशेषु कन्दरेषु गुहासु च

॥३८॥

अथ ता दुःखसंपन्नाः पत्न्यः शेषा यशस्विनि ॥

जग्मुश्च शरणं दक्षं वचनं चेदमब्रुवन्

॥३९॥

सोमः सर्वा तिक्रम्य रोहिण्या सह मोदते ॥

संवत्सरसहस्रं तु क्रीडमानो यथासुखम्

॥४०॥

अवशिष्टास्तु षड्विंशन्मलिना विगतश्रियः ॥

पाणिग्रहणमारभ्य रोहिण्या सह चंद्रमाः

॥४१॥

संवत्सरसहस्रं तु जानात्येकां स शर्वरीम् ॥

परित्यक्ता वयं तात शशिना दोषवर्जिताः

॥४२॥

स रेमे सह रोहिण्या अस्माकमसुखप्रदः ॥

अस्माकं दुःखदग्धानां श्रेयोऽतो मरणं भवेत्

॥४३॥

तासां तद्वचनं श्रुत्वा दुःखार्तानां प्रजापतिः ॥

ब्रह्मतेजः समायुक्तः पुत्रीस्नेहेन कर्षितः ॥

जगाम यत्र ऋक्षेशो वचनं चेदमब्रवीत्

॥४४॥

समं वर्त्तस्व कन्यासु मामकासु निशाकर ॥

अन्यथा दोषभागी त्वं भविष्यसि न संशयः

॥४५॥

तस्य तद्वचनं श्रुत्वा लज्जयावनतः स्थितः ॥

बाढमित्येव ऋक्षेंद्रो दक्षस्य पुरतोऽब्रवीत्

॥४६॥

अद्यप्रभृति विप्रर्षे समं वर्त्तयितास्म्यहम् ॥

पुत्रीभिस्तव सत्यं वै शपेऽहं शपथेन ते

॥४७॥

एवं प्रतिज्ञासंयुक्ते निशानाथे तदांबिके ॥

सर्वा रूपेण संयुक्तास्तस्य कन्या निवेदिताः

॥४८॥

दक्षः स्वभवनं गत्वा निर्वृतिं परमां गतः ॥

चन्द्रोऽपि पूर्ववद्देवि रोहिण्यां निरतोऽभवत्

॥४९॥

संपरित्यज्य ताः सर्वाः कामोपहतमानसः ॥

अथ भूयस्तु ताः सर्वा दक्षं वचनमब्रुवन्

॥५०॥

मलिनास्ताः कृशांग्यश्च दीनाः सर्वा विचेतसः ॥

ततो दृष्ट्वा तथारूपं दक्षो मोहमुपागतः

॥५१॥

लब्धसंज्ञः पुनः सोऽपि क्रोधोद्भूततनूरुहः ॥

उवाच सर्वाः स्वाः पुत्रीः किमित्थं मलिनांबराः ॥

किमिदं निष्प्रभाः सर्वाः कथयध्वं ममानघाः

॥५२॥

असुरान्सानुगांश्चैव ये चान्ये सुरसत्तमाः ॥

अद्य शापहतान्पुत्र्यः करिष्यामि न संशयः

॥५३॥

एवमुक्तास्तु दक्षेण सर्वास्ताः समुदैरयन्

॥५४॥

न चास्माकं निशानाथ ऋतुमात्रमपि प्रभो ॥

प्रयच्छति पुनस्तेन युष्मत्पार्श्वं समागताः

॥५५॥

अनादृत्य तु ते वाक्यं रोहिण्यां निरतो रहः ॥

रेमे कामपरीतात्मा अस्माकं शोकवर्द्धनः

॥५६॥

तासां तद्वचनं श्रुत्वा दक्षः कोपमुपागतः ॥

गत्वा चंद्रं महादेवि शशाप प्रमुखे स्थितम्

॥५७॥

अनादृत्य हि मे वाक्यं यस्मात्त्वं रोहिणीरतः ॥

संत्यज्य पुत्रीश्चास्माकं शेषा दोषेण वर्जिताः ॥

तस्माद्यक्ष्मा शरीरं ते ग्रसिष्यति न संशयः

॥५८॥

एतस्मिन्नेव काले तु यक्ष्मा पर्वतपुत्रिके ॥

दक्षेण तु समादिष्टस्तस्य कायं समाविशत्

॥५९॥

यक्ष्मणा ग्रस्तकायोऽसौ क्षयं याति दिनेदिने

॥६०॥

एवं सोमस्तु दक्षेण कृतशापो गतप्रभः ॥

पपात वसुधां देवि निश्चेष्टो रोहिणीयुतः

॥६१॥

लब्ध्वसंज्ञो मुहूर्तेन रोहिणीवाक्य मब्रवीत् ।

देवि कार्यं किमधुना त्वत्पित्रा शापितो ह्यहम् ॥

क्षयकुष्ठेन संयुक्तः किं करोम्यधुना प्रिये

॥६३॥

एवमुक्ता रोहिणी तु बाष्पव्याकुललोचना ॥

दक्षशापहतं दृष्ट्वा सोमं वचनमब्रवीत्

॥६४॥

येन शापस्तु ते दत्तस्तमेव शरणं व्रज ॥

स ते शापाभिभूतस्य नूनं श्रेयो विधास्यति

॥६५॥

लप्स्यसे तत्प्रसादात्त्वं प्रभां पूर्वोचितां शुभाम्

॥६६॥

रोहिण्या वचनं श्रुत्वा गतो दक्षसमीपतः ॥

चंद्रः प्रोवाच विनयाद्वाष्प व्याकुललोचनः

॥६७॥

कुरुष्वानुग्रहं दक्ष प्रसन्नेनांतरात्मना ॥

कोपं त्यज महर्षे त्वं ममोपरि दयां कुरु ।

त्वया क्रोधपरीतेन कारणे वाप्यकारणे ॥

अनुकंपां च मे कृत्वा कार्यं शापस्य मोक्षणम्

॥६९॥

विदितं तु महाभाग शप्तोहं येन कर्मणा ॥

कुरुष्वानुग्रहं दक्ष मम दीनस्य याचतः

॥७०॥

एवं विलपमानस्य सोमस्य तु महात्मनः ॥

अनुग्रहे मतिं कृत्वा इदं वचनमब्रवीत्

॥७१॥

दक्ष उवाच

मया शापहतः सोम त्रातुं शक्यो न दैवतैः ॥

यद्यद्ब्रवीम्यहं सोम तत्तथेति न संशयः

॥७२॥

आयुः कर्म च वित्तं च विद्या निधनमेव च ॥

पूर्वसृष्टानि यान्येव संभवंति हि तानि वै

॥७३॥

असुराश्च सुराश्चैव ये चान्ये यक्षराक्षसाः ॥

सर्वेपि शक्ता न त्रातुं वर्जयित्वा महेश्वरम्

॥७४॥

एषां शापो मया दत्तोऽनुग्रहीष्य ति शंकरः ॥

नान्यस्त्रातुं भवेच्छक्तो विना पशुपतिं भवम् ॥

तत्त्वं शीघ्रतरं गच्छ समाराधय शंकर

॥७५॥

न शक्तोऽन्यः पुनश्चंद्रः कर्तुं त्वां निर्मलं पुनः ॥

वर्जयित्वा महादेवं शितिकंठमुमापतिम्

॥७६॥

दक्षस्य च वचः श्रुत्वा कृतांजलिपुटः स्थितः ॥

प्रत्युवाच तदा सोमः प्रहष्टेनांतरात्मना

॥७७॥

भगवन्यदि तुष्टोसि मम भक्तस्य सुव्रत ॥

अनुग्रहे कृता बुद्धिस्तदाचक्ष्व कुतः शिवः

॥७८॥

कस्मिन्स्थाने मया दक्ष द्रष्टव्योऽसौ महेश्वरः ॥

तत्स्थानानि चरिष्यामि यानि तानि वदस्व मे

॥७९॥

दक्ष उवाच

शृणु सोम प्रयत्नेन श्रुत्वा चैवावधारय ॥

वारुणीं दिशमाश्रित्य सागरानूपसन्निधौ

॥८०॥

कृतस्मरस्यापरतो धन्वंतरशतत्रये ॥

लिंगं महाप्रभावं च स्वयंभूतं व्यवस्थितम्

॥८१॥

सूर्य्यबिंबसमप्रख्यं सर्प मेखलमंडितम् ॥

कुक्कुटांडकमानं तद्भूमिमध्ये व्यवस्थितम्

॥८२॥

स्पर्शलिंगं हि तद्विद्धि तद्भक्त्या ज्ञास्यते भवान् ॥

तत्र संनिहितो देवः शंकरः परमेश्वरः

॥८३॥

गच्छ त्वं तपसोग्रेण आराधय सुरेश्वरम्

॥९४॥

प्रशस्य देवदेवेशमात्मानं निर्मलं कुरु ॥

यस्याशु वरदानेन प्राप्स्यसे रूपमुत्तमम्

॥८५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यासंहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरोत्पत्तिप्रसंगे दक्षेण स्वशापजन्ययक्ष्मरोगार्त्तस्य चंद्रस्य यक्ष्मकुष्ठरोगनिवृत्तये शिवाराधनोपदेशवर्णनंनामैकविंशोऽध्यायः ॥ २१ ॥