वज्रेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि यादवस्थलमुत्तमम् ॥
यादवा यत्र नष्टा वै षट्पंचाशच्च कोटयः
॥१॥यत्र वज्रेश्वरो देवो वज्रेणाराधितः सदा ॥
यत्राभूद्दिव्यदृष्टीनामृषीणामाश्रमं कुलम्
॥२॥देव्युवाच
कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह ॥
पश्यतो वासुदेवस्य भोजाश्चैव महारथाः
॥३॥केन शप्तास्तु ते वीरा नष्टा वृष्ण्यन्धकादयः ॥
भोजाश्चैव महादेव विस्तरेण वदस्व मे
॥४॥ईश्वर उवाच
षट्त्रिंशे च कलौ वर्षे संप्राप्तेऽन्धकवृष्णयः ॥
अन्योन्यं मुशलैस्ते हि निजघ्नुः कालनोदिताः
॥५॥विश्वामित्रं च कण्वं च नारदं च यशस्विनम् ॥
सारणप्रमुखान्भोजान्ददृशुर्द्वारकां गतान्
॥६॥ते वै सांबं समानिन्युर्भूषयित्वा स्त्रियं यथा ॥
अब्रुवन्नुपसंगम्य देवदंडनिपीडिताः
॥७॥इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः ॥
ऋषयः साधु जानीत किमियं जनयिष्यति
॥८॥इत्युक्तास्ते तदा देवि विप्रलंभप्रधर्षिताः ॥
प्रत्यब्रुवंस्तान्मुनयस्तच्छृणुष्व यथातथम्
॥९॥ऋषय ऊचुः
वृष्ण्यन्धकविनाशाय मुशलं घोरमायसम् ॥
वासुदेवस्य दायादः सांबोऽयं जनयिष्यति
॥१०॥येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः ॥
उच्छेत्तारः कुलं सर्वमृते रामाज्जनार्द्दनात्
॥११॥त्यक्त्वा यास्यति वः श्रीमांत्यक्त्वा भूमिं हलायुधः ॥
जरा कृष्णं महाभागं शयानं तु निवेत्स्यति
॥१२॥इत्यब्रुवंस्ततो देवि प्रलब्धास्ते दुरात्मभिः ॥
मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम्
॥१३॥तथोक्ता मुनयस्ते तु ततः केशवमभ्ययुः ॥
अथावदत्तदा वृष्णीञ्छ्रुत्वैवं मधुसूदनः
॥१४॥अभिज्ञो मतिमांस्तस्य भवितव्यं तथेति तत् ॥
एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान्
॥१५॥कृतांतमन्यथाकर्त्तुं नैच्छत्स जगतः प्रभुः ॥
श्वोभूते सततः सांबो मुसलं तदसूत वै
॥१६॥येन वृण्ष्यन्धककुले पुरुषा भस्मसात्कृताः ॥
वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत्
॥१७॥(किंकर – यमकिंकर) असूत शापजं घोरं तच्च राज्ञे न्यवेदयत् ॥
विषण्णोऽथ ततो राजा सूक्ष्मं चूर्णमकारयत्
॥१८॥प्राक्षिपत्सागरे तत्र पुरुषो राजशासितः ॥
अथोवाच स्वनगरे वचनादाहुकस्य हि
॥१९॥जनार्द्दनस्य रामस्य बभ्रोश्चैव महात्मनः ॥
अद्यप्रभृति सर्वेषां वृष्णन्धकगृहेष्विह ॥
सुरासवो न कर्त्तव्यः सर्वैर्विषयवासिभिः
॥२॥यश्च वो विदितं कुर्यादेवं कश्चित्क्वचिन्नरः ॥
स जीवञ्छूलमारोहेत्स्वयं कृत्वा सबांधवः
॥२१॥ततो राजभयात्सर्वे नियमं तत्र चक्रिरे ॥
नराः शासनमाज्ञाय रामस्याक्लिष्टकर्मणः
॥२२॥एवं प्रयतमानानां वृष्णीनामन्धकैः सह ॥
कालो गृहाणि सर्वाणि परिचक्राम नित्यशः
॥२३॥करालो विकटो मुंडः पुरुषः कृष्णपिंगलः ॥
सम्मार्जनी महाकेतुर्जपापुष्पावतंसकः
॥२४॥कृकलासवाहनश्च रत्तिकाकर्णभूषणः ॥
गृहाण्यवेक्ष्य वृष्णीनां नादृश्यत पुनः क्वचित्
॥२५॥तस्य चासन्महेष्वासाः शरैः शतसहस्रशः ॥
न चाशक्यत वेद्धुं स सर्वभूताप्ययं सदा
॥२६॥उत्पेदिरे महावाता दारुणा हि दिने दिने ॥
वृष्ण्यन्धकविनाशाय बहवो लोमहर्षणाः
॥२७॥विवृद्ध्य मूषिका रथ्यावितुन्नमणिकास्तथा ॥
केशान्ददंशुः सुप्तानां नृणां युवतयो निशि
॥२८॥चीचीकूचीत्यवाशंत सारिका वृष्णिवेश्मसु ॥
नोपशाम्यति शब्दश्च स दिवारात्रमेव वा
॥२९॥अन्वकुर्वन्नुलूकाश्च वायसान्वृष्णिवेश्मसु ॥
अजाः शिवानां च रुतमन्वकुर्वत भामिनि
॥३०॥पांडुरारक्तपादाश्च विहगाः कालप्रेरिताः ॥
वृष्ण्यन्धकगृहेष्वेवं कपोता व्यचरंस्तदा
॥३१॥व्यजायंत खरा गोषु करभाश्चाश्वतरीषु च ॥
शुनीष्वपि बिडालाश्च मूषका नकुलीषु च
॥३२॥तापत्रयांत पापानि कुर्वंतो वृष्णयस्तथा ॥
अद्विषन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च
॥३३॥गुरूंश्चाप्यवमन्यंते न तु रामजनार्दनौ ॥
भार्याः पतीन्व्युच्चरंति पत्नीश्च पुरुषास्तथा
॥३४॥विभावसुः प्रज्वलितो वामं विपरिवर्त्तते ॥
नीललोहितमांजिष्ठा विसृजंश्चार्चिषः पृथक्
॥३५॥उदयास्तमने नित्यं पर्यस्तः स्याद्दिवाकरः ॥
व्यदृश्यत सकृत्पुंभिः कबन्धैः परिवारितः
॥३६॥महानसेषु सिद्धांते संस्कृतेऽन्ने तु भामिनि ॥
उत्तार्यमाणे कृमयो दृश्यंते च वरानने
॥३७॥पुण्याहे वाच्यमाने च पठत्सु च महात्मसु ॥
अभिधावंति श्रूयंते न चादृश्यत कश्चन
॥३८॥परस्परस्य नक्षत्रं हन्यमानं पुनःपुनः ॥
ग्रहैरपश्यन्सर्वैस्ते नात्मनस्तु कथञ्चन
॥३९॥न हुतं पाचयत्यग्निर्वृष्ण्यंधकपुरस्कृतम् ॥
समंतात्प्रत्यवाशंत रासभा दारुणस्वनाः
॥४०॥एवं पश्यन्हृषीकेशः संप्राप्तान्कालपर्ययान् ॥
त्रयोदशीं ह्यमावास्यां तां दृष्ट्वा प्राब्रवीदिदम्
॥४१॥त्रयोदशी पंचदशी कृतेयं राहुणा पुनः ॥
तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः
॥४२॥धिग्धिगित्येवकालं तं परिचिंत्य जनार्दनः ॥
मेने प्राप्तं स षट्त्रिंशं वर्षं केशिनिषूदनः ॥
पुत्रशोकाभिसंतप्ता गांधारी यदुवाच ह
॥४३॥एवं पश्यन्हृषीकेशस्तदिदं समुपस्थितम् ॥
इदं च समनुप्राप्तमब्रवीद्यद्युधिष्ठिरः
॥४४॥पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान्सुदारुणान् ॥
पुण्यग्रन्थस्य श्रवणाच्छांतिहोमाद्विशोधनात्
॥४५॥पूततीर्थाभिषेकांच्च नान्यच्छ्रेयो भवेदिति ॥
इत्युक्त्वा वासुदेवस्तच्चिकीर्षन्सत्यमेव च ॥
आज्ञापयामास तदा तीर्थयात्रामरिंदमः
॥४६॥अघोषयंत पुरुषास्तत्र केशवशासनात् ॥
तीर्थयात्रा प्रभासे वै कार्येति वरवर्णिनि
॥४७॥अथारिष्टानि वक्ष्यामि पुरीं द्वारवतीं प्रति ॥
काली स्त्री पांडुरैर्दंतैः प्रविश्य नगरीं निशि
॥४८॥स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां प्रति धावति ॥
अग्निहोत्रनिकेतं च सुमेध्येषु च वेश्मसु
॥४९॥वृष्ण्यंधकांश्च खादंती स्वप्ने दृष्टा भयानका ॥
कुर्वंती भीषणं नादं कुर्कुटश्वानसंयुता
॥५०॥तथा सहस्रशो रौद्राश्चतुर्बाहव एव च ॥
स्त्रीणां गर्भेष्वजायंत राक्षसा गुह्यकास्तथा
॥५१॥अलंकाराश्च च्छत्राणि ध्वजाश्च कवचानि च ॥
ह्रियमाणानि दृश्यंते रक्षोभिस्तु भयानकैः
॥५२॥यच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम् ॥
दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा
॥५३॥युक्तं रथं दिव्यमादित्यवर्णं भयावहं पश्यतो दारुकस्य ॥
ते सागरस्योपरिष्टाद्वर्तमानान्मनोजवांश्चतुरो वाजिमुख्यान्
॥५४॥तालः सुपर्णश्च महाध्वजौ तौ सुपूजितौ रामजनार्दनाभ्याम् ॥
उच्चैर्जगुः स्वप्सरसो दिवानिशं वाचं चोचुर्गम्यतां तीर्थयात्राम्
॥५५॥ततो जिगमिषंतस्ते वृष्ण्यंधकमहारथाः ॥
सांतःपुरास्तीर्थयात्रामीहंते स्म नरर्षभाः
॥५६॥ततो मांसपरा हृष्टाः पेयं वेश्मसु वृष्णयः ॥
बहु नानाविधं चक्रुर्मांसानि विविधानि च
॥५७॥तथा सीधुषु बद्धेषु निर्ययुर्नगराद्बहिः ॥
यानैरश्वैर्गजैश्चैव श्रीमंतस्तिग्मतेजसः
॥५८॥ततः प्रभासे न्यवसन्यथोद्देशं यथागृहम् ॥
प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा
॥५९॥निर्विष्टांस्तान्निशम्याथ समुद्रांते स योगवित् ॥
जगामामंत्र्य तान्वीरानुद्धवोर्थविशारदः
॥६०॥प्रस्थितं तं महात्मानमभिवाद्य कृतांजलिम् ॥
जानन्विनाशं भोजानां नैच्छद्वारयितुं हरिः
॥६१॥ततः कालपरीतास्ते वृष्ण्यंधकमहारथाः ॥
अपश्यन्नुद्धवं यांतं तेजसाऽऽदीप्य रोदसी
॥६२॥ब्राह्मणार्थेषु यत्क्लृप्तमन्नं तेषां वरानने ॥
तद्वाहनेभ्यः प्रददुः सुरागंधरसान्वितम्
॥६३॥ततस्तूर्यशताकीर्णं नटनर्त्तकसंकुलम् ॥
प्रावर्त्तत महापानं प्रभासे तिग्मतेजसाम्
॥६४॥कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा ॥
अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च
॥६५॥ततः परिषदो मध्ये युयुधानो मदोत्कटः ॥
अब्रवीत्कृतवर्माणमवहस्यावमन्य च
॥६६॥कः क्षत्रियो मन्यमानः सुप्तान्हन्यान्मृतानिव ॥
न तन्मृष्यत हार्दिक्यस्त्वया तत्साधु यत्कृतम्
॥६७॥इत्युक्ते युयुधानेन पूजयामास तद्वचः ॥
प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमथ भर्त्सयन्
॥६८॥ततः पुनरपि क्रुद्धः कृतवर्मा तमब्रवीत् ॥
निर्विशन्निव सावज्ञं तदा सव्येन पाणिना
॥६९॥भूरिश्रवाश्छिन्नबाहुर्युद्धे प्रायोगतस्त्वया ॥
व्याधेनेव नृशंसेन कथं वैरेण घातितः
॥७०॥इति तस्य वचः श्रुत्वा केशवः परवीरहा ॥
तिर्यक्सरोषया दृष्ट्या वीक्षांचक्रे समः पुमान्
॥७१॥मणिं स्यमंतकं चैव यः स सत्राजितोऽभवत् ॥
स कथं स्मारयामास सात्यकिर्मधुसूदनम्
॥७२॥तच्छ्रुत्वा केशवस्यांकमगमद्रुदती सती ॥
सत्यभामा प्रक्षुभिता कोपयन्ती जनार्द्दनम्
॥७३॥तत उत्थाय स क्रोधात्सात्यकिर्वाक्यमब्रवीत् ॥
पंचानां द्रौपदेयानां धृष्टद्युम्नशिखंडिनः
॥७४॥एष गच्छामि पदवीं सत्ये तव पथे सदा ॥
सौप्तिके निहता ये च सुप्तास्तेन दुरात्मना
॥७५॥द्रोणपुत्रसहायेन पापेन कृतवर्मणा ॥
समाप्तं चायुरस्याद्य यशश्चापि सुमध्यमे
॥७६॥इतीदमुक्त्वा खङ्गेन केशवस्य समीपतः ॥
अभिहत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः
॥७७॥तथान्यानपि निघ्नंतं युयुधानं समंततः ॥
अन्वधावद्धृषीकेशो विनिवारयिषुस्तथा
॥७८॥एकीभूतास्ततस्तस्य कालपर्यायप्रेरिताः ॥
भोजांधका महाराजं शैनेयं पर्यवारयन्
॥७९॥तान्दृष्ट्वाऽऽपततस्तूर्णमभिक्रुद्धाञ्जनार्द्दनः ॥
न चुक्रोध महातेजा जानन्कालस्य पर्ययम्
॥८०॥ते च पानमदाविष्टाश्चोदिताश्चैव मन्युना ॥
युयुधानमथाजघ्नुरुच्छिष्टै र्भोजनैस्तथा
॥८१॥हन्यमाने तु शैनेये कुद्धो रुक्मिणिनंदनः ॥
तदंतरमथाधावन्मोक्षयिष्यञ्छिनेः सुतम्
॥८२॥स भोजैः सह संयुक्तः सात्यकिश्चांधकैः सह ॥
बहुत्वात्तु हतौ वीरावुभौ कृष्णस्य पश्यतः
॥८३॥हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनंदनः ॥
एरकाणां तदा मुष्टिं कोपाज्जग्राह केशवः
॥८४॥तदभून्मुशलं घोरं वज्रकल्पमयस्मयम् ॥
जघान तेन कृष्णोपि ये तस्य प्रमुखे स्थिताः
॥८९॥ततोंऽधकाश्च भोजाश्च शिनयो वृष्णयस्तदा ॥
न्यघ्नन्नन्योन्यमाक्रन्दैर्मुशलैः कालप्रेरिताः
॥८६॥यश्चैकामेरकां कश्चिज्जग्राह रुषितो नरः ॥
वज्रभूता च सा देवि ह्यदृश्यत तदा प्रिये
॥८७॥तृणं च मुशलीभूतमण्वपि तत्र दृश्यते ॥
ब्रह्मदंडकृतं सर्वमिति तद्विद्धि भामिनि
॥८८॥आविध्याविध्य देवेशि प्रहरंति स्म सायकान् ॥
तद्वज्रभूतं मुशलमपश्यंत तदा दृढम्
॥८९॥अवधीत्पितरं पुत्रः पिता पुत्रं च भामिनि ॥
मत्तास्ते पर्यटंति स्म योधमानाः परस्परम्
॥९०॥पतंगा इव चाग्नौ तु न्यपतन्यदुपुंगवाः ॥
नासीत्पलायने बुद्धिर्वध्यमानस्य कस्यचित्
॥९१॥तं तु पश्यन्महाबाहुर्जानन्कालस्यपर्ययम् ॥
मुशलं समवष्टभ्य तस्थौ स मधुसूदनः
॥९२॥सांबं च निहतं दृष्ट्वा चारुदेष्णं च माधवः ॥
प्रद्युम्नमनिरुद्धं च ततश्चुक्रोध भामिनि
॥९३॥यादवान्क्ष्माशयानांश्च भृशं कोपसमन्वितः ॥
स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः
॥९४॥एवं तत्र महादेवि अभवद्यादव स्थलम् ॥
गव्यूतिमात्रं तद्देवि यादवानां चिताः स्मृताः
॥९५॥तेषां किलास्थिनिचयैः स्थलरूपं बभूव तत् ॥
भस्मपुंजनिभाकारं तेनाभूद्यादव स्थलम्
॥९६॥दिव्यरत्नसमायुक्तं मणिमाणिक्यपूरितम् ॥
यादवानां किरीटैश्च दिव्यगन्धैः सुपूरितम्
॥९७॥तेषां रक्षानिमित्तं हि गंगा गणपतिस्तथा ॥
यादवानां तु सर्वेषां जीवितो वज्र एव हि
॥९८॥वयसोंते ततः सोऽपि प्रभासं क्षेत्रमागतः ॥
निषिच्य स्वसुतं राज्ये नाम्ना ख्यातं महद्बलम्
॥९९॥तेनापि स्थापितं लिंगं यादवेन्द्रेण धीमता ॥
वज्रेश्वरमिति ख्यातं तत्स्थितं यादवस्थले
॥१००॥तत्रैव सुचिरं कालं तपस्तप्तं सुपुष्कलम् ॥
नारदस्योपदेशेन प्रभासे पापनाशने
॥१०१॥प्राप्तवान्परमां सिद्धिं स राजा यादवोत्तमः ॥
तत्रैव यो नरः सम्यक्स्नात्वा जांबवती जले
॥१०२॥वज्रेश्वरं तु संपूज्य ब्राह्मणांस्तत्र भोजयेत् ॥
यादवस्थलसामीप्ये गोसहस्रफलं लभेत्
॥१०३॥षट्कोणं तत्र दातव्यमंगुल्या यादवस्थले ॥
यात्राफलमवाप्नोति सम्यक्छ्रद्धासमन्वितः
॥१०४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये यादवस्थलोत्पत्तौ वज्रेश्वरमाहात्म्यवर्णनंनाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३७ ॥