मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १६५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 165

सावित्रीमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि सावित्रीं लोकमातरम् ॥

महा पापप्रशमनीं सोमेशादीशदिक्स्थिताम्

॥१॥

संयतात्मा नरः पश्येत्तत्र तां नियतात्मवान्

॥२॥

ब्रह्मणा यष्टुकामेन सावित्री सहधर्मिणी ॥

कृता तां बलतो ज्ञात्वा गायत्रीं कोपमाविशत्

॥३॥

ततः संत्यज्य सा देवी ब्रह्माणं कमलोद्भवम् ॥

सपत्नीरोषसन्तप्ता प्रभासं क्षेत्रमाश्रिता

॥४॥

तपः करोति विपुलं देवैरपि सुदुःसहम् ॥

तत्र स्थले स्थिता देवी साऽद्यापि प्रियदर्शना

॥५॥

श्रीदेव्युवाच

किमर्थं सा परित्यक्ता सावित्री ब्रह्मणा पुरा ॥

गायत्री च कथं प्राप्ता केन चास्य निवेदिता

॥६॥

कीदृशीं तां च गायत्रीं लब्धवान्पद्मसंभवः ॥

यस्तां पत्नीं समुत्सृज्य तस्यामेव मनो दधौ

॥७॥

कस्य सा दुहिता देव किमर्थं च विवाहिता ॥

एतन्मे कौतुकं सर्वं यथावद्वक्तुमर्हसि

॥८॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि सावित्र्याश्चरितं महत् ॥

यथा सा ब्रह्मणा त्यक्ता गायत्री च विवाहिता

॥९॥

पुरा बुद्धिः समुत्पन्ना ब्रह्मणोऽव्यक्तजन्मनः ॥

इति वेदा मया प्रोक्ता यज्ञार्थं नात्र संशयः

॥१०॥

यज्ञैः संतर्पिता देवा वृष्टिं दास्यंति भूतले ॥

ततश्चौषधयः सर्वा भविष्यंति धरातले

॥११॥

तस्मात्संजायते शुक्रं शुक्रात्सृष्टिः प्रवर्तते ॥

सृष्ट्यर्थं सर्वलोकानां ततो यज्ञं करोम्यहम्

॥१२॥

दृष्ट्वा मां यज्ञ आसक्तं ये च विप्रा धरातले ॥

ते यज्ञान्प्रचरिष्यंति शतशोऽथ सहस्रशः

॥१३॥

एवं स निश्चयं कृत्वा यज्ञार्थं सुरसुंदरि ॥

तीर्थं निवेशयामास पुष्करं नाम नामतः

॥१४॥

यज्ञवाटो महांस्तत्र आसीत्तस्य महात्मनः ॥

तत्र देवर्षयः सर्वे देवाः सेन्द्रपुरोगमाः

॥१५॥

समायाता महादेवि यज्ञे पैतामहे तदा ॥

पुण्यास्तेऽपि द्विजश्रेष्ठास्तत्रर्त्विजः प्रजज्ञिरे

॥१६॥

सावित्री लोकजननी पत्नी तस्य महात्मनः ॥

गृहकार्ये समासक्ता दीक्षा कालव्यतिक्रमात् ॥

अध्वर्युणा समाहूता सावित्री वाक्यमब्रवीत्

॥१७॥

सावित्र्युवाच

अद्यापि न कृतो वेषो न गृहे गृहमण्डनम् ॥

लक्ष्मीर्नाद्यापि संप्राप्ता न भवानी न जाह्नवी

॥१८॥

न स्वाहा न स्वधा चैव तथा चैवाप्यरुंधती ॥

इन्द्राणी देवपत्न्योऽन्याः कथमेकाकिनी व्रजे

॥१९॥

उक्तः पितामहो गत्वा पुलस्त्येन महात्मना ॥

सावित्री देव नायाति प्रसक्ता गृहकर्मणि

॥२०॥

त्वत्पत्नी किमिदं कर्म फलेन संप्रवर्तते ॥

तच्छ्रुत्वा दीक्षितो वाचं शिखी मुंडी मृगाजिनी

॥२१॥

पत्नीकोपेन संतप्तः प्राह देवं पुरंदरम्

॥२२॥

गच्छ मद्वचनाच्छक्र पत्नीमन्यां कुतश्चन ॥

गृहीत्वा शीघ्रमागच्छ न स्यात्कालात्ययो यथा

॥२३॥

जगाम बलहा तूर्णं वचनात्परमेष्ठिनः ॥

अपश्यमानः कांचित्स्त्रीं या योग्या हंसवाहने

॥२४॥

अथ शापाद्बिभीतेन सहस्राक्षेण धीमता ॥

दृष्टा गोपालकन्यैका रूपयौवनशालिनी

॥२५॥

बिभ्रती तत्र पूर्णं सा कुम्भं कन्येत्यचोदयत् ॥

तां गृहीत्वा ततः शक्रः समायाद्यत्र दीक्षितः ॥

देवदेवश्चतुर्वक्त्रो विष्णुरुद्रसमन्वितः

॥२६॥

संप्रदानं तु कृतवान्कन्याया मधुसूदनः

॥२७॥

प्रेरितः शंकरेणैव ब्रह्मा देवर्षिभिस्तथा ॥

परिणीयतां ततो दीक्षां तस्याश्चक्रे यथात्मनः

॥२८॥

ततः प्रवर्तितो यज्ञः सर्वकामसमन्वितः

॥२९॥

अत्रिर्होतार्चिकस्तत्र पुलस्त्योऽध्वर्युरेव च ॥

उद्गाताऽथो मरीचिश्च ब्रह्माहं सुरपुंगवः

॥३०॥

सनत्कुमारप्रमुखाः सदस्यास्तस्य निर्मिताः ॥

वस्त्रैराभरणैर्युक्ता मुकुटैरंगुलीयकैः

॥३१॥

भूषिता भूषणोपेता एकैकस्य पृथक्पृथक् ॥

त्रयस्त्रयः पृष्ठतोऽन्ये ते चैवं षोडशर्त्विजः

॥३२॥

प्रोक्ता भवद्भि र्यज्ञेऽस्मिन्ननुगृह्योऽस्मि सर्वदा ॥

पत्नी ममेयं गायत्री यज्ञेऽस्मिन्ननुगृह्यताम्

॥३३॥

मृदुवस्त्रधरां साक्षात्क्षौमवस्त्रावगुण्ठिताम् ॥

निष्क्रम्य पत्नीशालात ऋत्विग्भिर्वेदपारगैः

॥३४॥

औदुम्बरेण दण्डेन संवृतो मृगचर्मणा ॥

तया सार्धं प्रविष्टश्च ब्रह्मा तं यज्ञमण्डपम्

॥३५॥

ईश्वर उवाच

एतस्मिन्नेव काले तु संप्राप्ता देवयोषितः ॥

संप्राप्ता यत्र सावित्री यज्ञे तस्मिन्निमंत्रिताः

॥३६॥

भृगोः ख्यात्यां समुत्पन्ना विष्णुपत्नी यशस्विनी ॥

आमन्त्रिता सा लक्ष्मीश्च तत्रायाता त्वरान्विता

॥३७॥

तत्र देवी महाभागा योगनिद्रादिभूषिता ॥

देवी कांतिस्तथा श्रद्धा द्युतिस्तुष्टिस्तथैव च

॥३८॥

सती या दक्षतनया उमा या पार्वती शुभा ॥

त्रैलोक्यसुन्दरी देवी स्त्रीणां सौभाग्यदायका

॥३९॥

जया च विजया चैव गौरी चैव महाधना ॥

मनोजवा वायुपत्नी ऋद्धिश्च धनदप्रिया

॥४०॥

देवकन्यास्तथाऽऽयाता दानव्यो दनुवंशजाः ॥

सप्तर्षीणां तथा पत्न्य ऋषीणां च तथैव च

॥४१॥

प्लवा मित्रा दुहितरो विद्याधरगणास्तथा ॥

पितरो रक्षसां कन्यास्तथाऽन्या लोकमातरः

॥४२॥

वधूभिश्चैव मुख्याभिः सावित्री गन्तुमिच्छति ॥

अदित्याद्यास्तथा देव्यो दक्षकन्याः समागताः

॥४३॥

ताभिः परिवृता सार्धं ब्रह्माणी कमलालया ॥

काश्चिन्मोदकमादाय काश्चित्पूपं वरानने

॥४४॥

फलानि तु समादाय प्रयाता ब्रह्मणोऽन्तिकम् ॥

आढकीश्चैव निष्पावान्राजमाषांस्तथाऽपराः

॥४५॥

दाडिमानि विचित्राणि मातुलिंगानि शोभने ॥

करीराणि तथा चान्या गृहीत्वा करमर्दकान्

॥४६॥

कौसुंभं जीरकं चैव खर्जूरं चापरास्तथा ॥

उततीश्चापरा गृह्य नालिकेराणि चापराः

॥४७॥

द्राक्षया पूरितं चाम्रं शृङ्गाराय यथा पुरा ॥

कर्बुराणि विचित्राणि जंबूकानि शुभानि च

॥४८॥

अक्षोडामलकान्गृह्य जंबीराणि तथा पराः ॥

बिल्वानि परिपक्वानि चिर्भटानि वरानने

॥४९॥

अन्नपानाधिकाराणि बहूनि विविधानि च ॥

शर्करापुत्तलीं चान्या वस्त्रे कौसुम्भके तथा

॥५०॥

एवमादीनि चान्यानि गृह्य पूर्वे वरानने ॥

सावित्र्या सहिताः सर्वाः संप्राप्तास्तु तदा शुभाः

॥५१॥

सावित्रीमागतां दृष्ट्वा भीतस्तत्र पुरंदरः ॥

अधोमुखः स्थितो ब्रह्मा किमेषा मां वदिष्यति

॥५२॥

त्रपान्वितौ विष्णुरुद्रौ सर्वे चान्ये द्विजातयः ॥

सभासदस्तथा भीतास्तथैवान्ये दिवौकसः

॥५३॥

पुत्रपौत्रा भागिनेया मातुला भ्रातरस्तथा ॥

ऋतवो नाम ये देवा देवानामपि देवताः

॥५४॥

विलक्षास्तु तथा सर्वे सावित्री किं वदिष्यति ॥

ब्रह्मवाक्यानि वाच्यानि किं नु वै गोपकन्यया

॥५५॥

मौनीभूतास्तु शृण्वानाः सर्वेषां वदतां गिरः ॥

अध्वर्युणा समाहूता नागता वरवर्णिनी

॥५६॥

शक्रेणान्या तथाऽऽनीता दत्ता सा विष्णुना स्वयम् ॥

अनुमोदिता च रुद्रेण पित्रा दत्ता स्वयं तथा

॥५७॥

कथं सा भविता यज्ञः समाप्तिं वा कथं व्रजेत् ॥

एवं चिन्तयतां तेषां प्रविष्टा कमलालया

॥५८॥

वृतो ब्रह्मा भार्यया स ऋत्विग्भिर्वेदपारगैः ॥

हूयन्ते चाग्नयस्तत्र ब्राह्मणैर्वेदपारगैः

॥५९॥

पत्नीशाले तथा गोपी रौप्यशृंगा समेखला ॥

क्षौमवस्त्रपरीधाना ध्यायन्ती परमेश्वरम्

॥६०॥

पतिव्रता पतिप्राणा प्राधान्येन निवेशिता ॥

कृपान्विता विशालाक्षी तेजसा भास्करोपमा

॥६१॥

द्योतयंती सदस्तत्र सूर्यस्येव यथा प्रभा ॥

ज्वलमानस्तथा वह्निर्भ्रमंते चर्त्विजस्तथा

॥६२॥

पशूनामवदानानि गृह्णंति द्विजसत्तमाः ॥

प्राप्ता भागार्थिनो देवा विलंबसमयोऽभवत्

॥६३॥

कालहीनं न कर्तव्यं कृतं न फलदं भवेत् ॥

वेदेष्वयमधीकारो दृष्टः सर्वो मनीषिभिः

॥६४॥

प्रवर्ग्ये क्रियमाणे तु ब्राह्मणैर्वेदपारगैः ॥

क्षीरद्वये हूयमाने मंत्रेणाध्वर्युणा तथा

॥६५॥

उपहूतोपहूतेन आगतेषु द्विजन्मसु ॥

क्रियमाणे तथा भक्ष्ये दृष्ट्वा देवी क्रुधान्विता ॥

उवाच देवी ब्रह्माणं सदोमध्ये तु मौनिनम्

॥६६॥

किमेवं बुध्यते देव कृतमेतद्विचेष्टितम् ॥

मां परित्यज्य यः कामात्कृतवानसि किल्बिषम्

॥६७॥

न तुल्या पादरजसा समा साऽधिशिरः कृता

॥६८॥

यद्वदंति नराः सर्वे संगताः सदसि स्थिताः ॥

आश्चर्यं च प्रभूणां तु कुरुते यं यमिच्छति

॥६९॥

भवता रूपलोभेन कृतं कर्म विगर्हितम्

॥७०॥

न पुत्रेषु कृता लज्जा पौत्रेषु च न ते विभो ॥

कामकारकृतं मन्ये ह्येतत्कर्म विगर्हितम्

॥७१॥

पितामहोऽसि देवानामृषीणां प्रपितामहः ॥

कथं न ते त्रपा जाता आत्मनः पश्यतस्तनुम्

॥७२॥

लोकमध्ये कृतं हास्यमिह चैव विगर्हितः ॥

यद्येष ते स्थितो भावस्तिष्ठ देव नमोऽस्तु ते

॥७३॥

अहं कथं सखीनां तु दर्शयिष्यामि वै मुखम् ॥

भर्त्रा मे विहिता पत्नी कथमेतदहं वदे

॥७४॥

ब्रह्मोवाच

ऋत्विग्भिरहमाज्ञप्तो दीक्षा कालोऽतिवर्तते ॥

पत्नीं विना न होमोत्र शीघ्रं पत्नीमिहानय

॥७५॥

शक्रेणैषा समानीता दत्ता चैवाऽथ विष्णुना ॥

गृहीता च मया त्वं हि क्षमस्वैकं मया कृतम् ॥

न चापराध्यं भूयोऽन्यं करिष्ये तव सुव्रते

॥७६॥

ईश्वर उवाच

एवमुक्ता तदा क्रुद्धा ब्रह्माणं शप्तुमुद्यता ॥

यदि मेऽस्ति तपस्तप्तं गुरवो यदि तोषिताः

॥७७॥

सर्वब्राह्मणशालासु स्थानेषु विविधेष्वपि ॥

न तु ते ब्राह्मणाः पूजां करिष्यंति कदाचन

॥७८॥

ऋते वै कार्तिकीमेकां पूजां सांवत्सरीं तव ॥

करिष्यंति द्विजाः सर्वे सत्येनानेन ते शपे ॥

एतद्बुद्ध्वा न कोपोस्तु हतो हन्ति न संशयः

॥७९॥

सावित्र्युवाच

भोभोः शक्र त्वयानीता आभीरी ब्रह्मणोऽन्तिकम् ॥

यस्मादीदृक्कृतं कर्म तस्मात्त्वं लप्स्यसे फलम्

॥८०॥

यदा संग्राममध्ये त्वं स्थाता शक्र भविष्यसि ॥

तदा त्वं शत्रुभिर्बद्धो नीतः परमिकां दशाम्

॥८१॥

अकिंचनो नष्टसुतः शत्रूणां नगरे स्थितः ॥

पराभवं महत्प्राप्य अचिरादेव मोक्ष्यसे

॥८२॥

शक्रं शप्त्वा तदा देवी विष्णुं चाऽथ वचोब्रवीत्

॥८३॥

गुरुवाक्येन ते जन्म यदा मर्त्ये भवि ष्यति ॥

भार्याविरहजं दुःखं तदा त्वं तत्र भोक्ष्यसे

॥८४॥

हृतां शत्रुगणैः पत्नीं परे पारे महोदधेः ॥

न च त्वं ज्ञायसे सीतां शोकोपहचेतनः

॥८५॥

भ्रात्रा सह परां काष्ठामापदं दुःखितस्तथा ॥

पशूनां चैव संयोगश्चिरकालं भविष्यति

॥८६॥

तथाऽऽह रुद्रं कुपिता यदा दारुवने स्थितः ॥

तदा ते मुनयः क्रुद्धाः शापं दास्यंति ते हर

॥८७॥

भोभोः कापालिक क्षुद्र पत्न्योऽस्माकं जिहीर्षसि ॥

तदेतद्भूषितं लिंग भूमौ रुद्र पतिष्यति

॥८८॥

विहीनः पौरुषेण त्वं मुनिशापाच्च पीडितः ॥

गंगातीरे स्थिता पत्नी सा त्वामाश्वासयिष्यति

॥८९॥

अग्ने त्वं सर्वभक्षोऽसि पूर्वं पुत्रेण मे कृतः ॥

भ्रूणहा धर्म इत्येष कथं दग्धं दहाम्यहम्

॥९०॥

जातवेदस रुद्रस्त्वां रेतसा प्लावयिष्यति ॥

मेध्येषु च कृतज्वाला ज्वालया त्वां ज्वलिष्यति

॥९१॥

ब्राह्मणानृत्विजः सर्वान्सावित्री ह्यशपत्तदा

॥९२॥

प्रतिग्रहाग्निहोत्राश्च वृथा दारा वृथाश्रमाः ॥

सदा क्षेत्राणि तीर्थानि लोभादेव गमिष्यथ

॥९३॥

परान्नेषु सदा तृप्ता अतृप्ताः स्वगृहेषु च ॥

अयाज्ययाजनं कृत्वा कुत्सितस्य प्रतिग्रहम्

॥९४॥

वृथा धनार्जनं कृत्वा व्यवश्चैव तथा वृथा ॥

मृतानां तेन प्रेतत्वं भविष्यति न संशयः

॥९५॥

एवं शक्रं तथा विष्णुं रुद्रं वै पावकं तथा ॥

ब्रह्माणं ब्राह्मणांश्चैव सर्वांस्तानशपत्तदा

॥९६॥

शापं दत्त्वा तथा तेषां तदा सावस्थिता स्थिरा

॥९७॥

लक्ष्मीः प्राह सखीं तां च इन्द्राणी च वरानना ॥

अन्या देव्यस्तथा प्राहुः साऽऽह स्थास्यामि नात्र वै ॥

तत्र चाहं गमिष्यामि यत्र श्रोष्ये न तु ध्वनिम्

॥९८॥

ततस्ताः प्रमदाः सर्वाः प्रयाताः स्वं निकेतनम् ॥

सावित्री कुपिता तासां पुनः शापाय चोद्यता

॥९९॥

यस्मान्मां संपरित्यज्य गतास्ता देवयोषितः ॥

तासामपि तथा शापं प्रदास्ये कुपिता भृशम्

॥१००॥

नैकत्र वासो लक्ष्म्यास्तु भविष्यति कदाचन ॥

रुद्रापि चंचला तावन्मूर्खेषु च वसिष्यसि

॥१०१॥

म्लेच्छेषु पर्वतीयेषु कुत्सिते कुष्ठिते तथा ॥

वाचाटे चावलिप्ते च अभिशस्ते दुरात्मनि ॥

एवंविधे नरे तुभ्यं वसतिः शापकारिता

॥१०२॥

शापं दत्त्वा ततस्तस्या इन्द्राणीमशपत्तदा

॥१०३॥

त्वष्टुर्वाचा गृहीतेन्द्रे पत्यौ ते दुष्टकारिणि ॥

नहुषाय गते राज्ये दृष्ट्वा त्वां याचयिष्यति

॥१०४॥

अहमिन्द्रः कथं चैषा नोपतिष्ठति चालसा ॥

सर्वान्देवान्हनिष्यामि लप्स्ये नाहं शचीं यदि

॥१०५॥

नष्टा त्वं च तदा शस्ता वने महति दुःखिता ॥

वसिष्यसि दुराचारे शापेन मम गर्विते

॥१०६॥

देवभार्यासु सर्वासु तदा शापमयच्छत

॥१०७॥

न चापत्यकृता प्रीतिः सर्वास्वेव भविष्यति ॥

दह्यमाना दिवारात्रौ वंध्याशब्देन दुःखिताः

॥१०८॥

गौरीमेवं तथा शप्त्वा सा देवी वरवर्णिनी ॥

उच्चै रुरोद सावित्री भर्तृ यज्ञाद्बहिः स्थिता

॥१०९॥

रोदमाना तु सा दृष्टा विष्णुना च प्रसादिता ॥

मा रोदीस्त्वं विशालाक्षि एह्यागच्छ सदः शुभे

॥११०॥

प्रविष्टा च शुभे यागे मेखलां क्षौमवाससी ॥

गृहाण दीक्षां ब्रह्माणि पादौ ते प्रणमे शुभे

॥१११॥

एवमुक्ताऽब्रवीदेनं नाहं कुर्यां वचस्तव ॥

तत्राहं च गमिष्यामि यत्र श्रोष्ये न च ध्वनिम्

॥११२॥

एतावदुक्त्वा व्यरमदुच्चैः स्थाने क्षितौ स्थिता

॥११३॥

विष्णुस्तदग्रतः स्थित्वा बद्ध्वा च करसंपुटम् ॥

तुष्टाव प्रणतो भूत्वा भक्त्या परमया युतः

॥११४॥

विष्णुरुवाच

नमोऽस्तु ते महादेवि भूर्भुवःस्वस्त्रयीमयि ॥

सावित्रि दुर्गतरिणि त्वं वाणी सप्तधा स्मृता

॥११५॥

सर्वाणि स्तुतिशास्त्राणि लक्षणानि तथैव च ॥

भविष्या सर्वशास्त्राणां त्वं तु देवि नमोऽस्तु ते

॥११६॥

श्वेता त्वं श्वेतरूपासि शशांकेन समानना ॥

शशिरश्मिप्रकाशेन हरिणोरसि राजसे ॥

दिव्यकुंडलपूर्णाभ्यां श्रवणाभ्यां विभूषिता

॥११७॥

त्वं सिद्धिस्त्वं तथा ऋद्धिः कीर्तिः श्रीः संततिर्मतिः ॥

संध्या रात्रि प्रभातस्त्वं कालरात्रिस्त्वमेव च

॥११८॥

कर्षुकाणां यथा सीता भूतानां धारिणी तथा ॥

एवं स्तुवंतं सावित्री विष्णुं प्रोवाच सुव्रता

॥११९॥

सम्यक्स्तुता त्वया पुत्र अजेयस्त्वं भविष्यसि ॥

अवतारे सदा वत्स पितृमातृसु वल्लभः

॥१२०॥

अनेन स्तवराजेन स्तोष्यते यस्तु मां सदा ॥

सर्वदोषविनिर्मुक्तः परं स्थानं गमिष्यति

॥१२१॥

गच्छ यज्ञं चिरं तस्य समाप्तिं नय पुत्रक

॥१२२॥

कुरुक्षेत्रे प्रयागे च भविष्ये यज्ञकर्मणि ॥

समीपगा स्थिता भर्तुः करिष्ये तव भाषितम्

॥१२३॥

एवमुक्तो गतो विष्णुर्ब्रह्मणः सद उत्तमम् ॥

सावित्री तु समायाता प्रभासे वरवर्णिनि

॥१२४॥

गतायामथ सावित्र्यां गायत्री वाक्यमब्रवीत्

॥१२५॥

शृण्वंतु मुनयो वाक्यं मदीयं भर्तृसन्निधौ ॥

यदहं वच्मि संतुष्टा वरदानाय चोद्यता

॥१२६॥

ब्रह्माणं पूजयिष्यंति नरा भक्तिसमन्विताः ॥

तेषां वस्त्रं धनं धान्यं दाराः सौख्यं सुताश्च वै

॥१२७॥

अविच्छिन्नं तथा सौख्यं गृहं वै पुत्रपौत्रिकम् ॥

भुक्त्वाऽसौ सुचिरं कालं ततो मोक्षं गमिष्यति

॥१२८॥

शक्राहं ते वरं वच्मि संग्रामे शत्रुभिः सह ॥

तदा ब्रह्मा मोचयिता गत्वा शत्रुनिकेतनम्

॥१२९॥

सपुत्रशत्रुनाशात्त्वं लप्स्यसे च परं मुदम् ॥

अकंटकं महद्राज्यं त्रैलोक्ये ते भविष्यति

॥१३०॥

मर्त्यलोके यदा विष्णो ह्यवतारं करिष्यसि ॥

भ्रात्रा सह परं दुःखं स्वभार्या हरणं च यत्

॥१३१॥

हत्वा शत्रुं पुनर्भार्यां लप्स्यसे सुरसन्निधौ ॥

गृहीत्वा तां पुनः प्राज्यं राज्यं कृत्वा गमिष्यसि

॥१३२॥

एकादश सहस्राणि कृत्वा राज्यं पुनर्दिवम् ॥

ख्यातिस्ते विपुला लोके चानुरागो भविष्यति

॥१३३॥

गायत्री ब्राह्मणांस्तांश्च सर्वानेवाब्रवीदिदम्

॥१३४॥

युष्माकं प्रीणनं कृत्वाऽ तृप्तिं यास्यंति देवताः ॥

भवंतो भूमिदेवा वै सर्वे पूज्या भविष्यथ

॥१३५॥

युष्माकं पूजनं कृत्वा दत्त्वा दानान्यनेकशः ॥

प्राणायामेन चैकेन सर्वमेतत्तरिष्यथ

॥१३६॥

प्रभासे तु विशेषेण जप्त्वा मां वेदमातरम् ॥

प्रतिग्रहकृतान्दोषान्न प्राप्स्यध्वं द्विजोत्तमाः

॥१३७॥

पुष्करे चान्नदानेन प्रीताः सर्वे च देवताः ॥

एकस्मिन्भोजिते विप्रे कोटिर्भवतिभोजिता

॥१३८॥

ब्रह्महत्यादिपापानि दुरितानि च यानि च ॥

तरिष्यंति नराः सर्वे दत्ते युष्मत्करे धने

॥१३९॥

महीयध्वे तु जाप्येन प्राणायामैस्त्रिभिः कृतैः ॥

ब्रह्महत्यासमं पापं तत्क्षणादेव नश्यति

॥१४०॥

दशभिर्जन्मजनितं शतेन तु पुरा कृतम् ॥

त्रियुगं तु सहस्रेण गायत्री हंति किल्बिषम्

॥१४१॥

एवं ज्ञात्वा सदा पूज्या जाप्ये च मम वै कृते ॥

भविष्यध्वं न सन्देहो नात्र कार्या विचारणा

॥१४२॥

ओंकारेण त्रिमात्रेण सार्धेन च विशेषतः ॥

पूज्याः सर्वे न सन्देहो जप्त्वा मां शिरसा सह

॥१४३॥

अष्टाक्षरस्थिता चाहं जगद्व्याप्तं मया त्विदम् ॥

माताऽहं सर्ववेदानां वेदैः सर्वैरलङ्कता

॥१४४॥

जत्वा मां परमां सिर्द्धि पश्यन्ति द्विजसत्तमाः ॥

प्राधान्यं मम जाप्येन सर्वेषां वो भविष्यति

॥१४५॥

गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः ॥

नायंत्रितश्चतुर्वेदः सर्वाशी सर्वविक्रयी

॥१४६॥

यस्माद्भवतां सावित्र्या शापो दत्तो सदे त्विह ॥

अत्र दत्तं हुतं चापि सर्वमक्षयकारकम् ॥

दत्तो वरो मया तेन युष्माकं द्विजसत्तमाः

॥१४७॥

अग्निहोत्रपरा विप्रास्त्रिकालं होमदायिनः ॥

स्वर्गं ते तु गमिष्यंति एकविंशतिभिः कुलैः

॥१४८॥

एवं शक्रे च विष्णौ च रुद्रे वै पावके तथा ॥

ब्रह्मणो ब्रह्मणानां च गायत्री सा वरं ददौ ॥

तस्मिन्काले वरं दत्त्वा ब्रह्मणः पार्श्वगाऽभवत्

॥१४९॥

हरिणा तु समाख्यातं लक्ष्म्याः शापस्य कारणम् ॥

युवतीनां च सर्वासां शापस्तासां पृथक्पृथक्

॥१५०॥

लक्ष्म्यास्तदा वरं प्रादाद्गायत्री ब्रह्मणः प्रिया

॥१५१॥

अकुत्सिताः सदा पुत्रि तव वासेन शोभने ॥

भविष्यति न संदेहः सर्वेभ्यः प्रीतिदायकाः

॥१५२॥

ये त्वया वीक्षिताः सर्वे सर्वे वै पुण्यभाजनाः ॥

तेषां जातिः कुलं शीलं धर्मश्चैव वरानने

॥१५३॥

परित्यक्तास्त्वया ये तु ते नरा दुःखभागिनः ॥

सभायां ते न शोभन्ते मन्यन्ते न च पार्थिवैः

॥१५४॥

आशिषश्चैव तेषां तु कुर्वते वै द्विजोत्तमाः ॥

सौजन्यं तेषु कुर्वन्ति नप्ता भ्राता पिता गुरुः

॥१५५॥

बांधवोऽसि न संदेहो न जीवेऽहं त्वया विना ॥

त्वयि दृष्टे प्रसन्ना मे दृष्टिर्भवति शोभना ॥

मनः प्रसीदतेऽत्यर्थं सत्यंसत्यं वदामि ते

॥१५६॥

एवंविधानि वाक्यानि त्वया दृष्ट्या निरीक्षिते ॥

सज्जनास्ते वदिष्यन्ति जनानां प्रीतिदायकाः

॥१५७॥

इन्द्राणि नहुषः प्राप्य स्वर्गं त्वां याचयिष्यति ॥

अदृष्ट्वा तु हतः पापो अगस्त्यवचनाद्द्रुतम्

॥१५८॥

सर्पत्वं समनुप्राप्य प्रार्थयिष्यति तं मुनिम् ॥

दर्पेणाहं विनष्टोऽस्मि शरणं मे मुने भव

॥१५९॥

वाक्येन तेन तस्यासौ नृपस्य भगवानृषिः ॥

कृत्वा मनसि कारुण्यमिदं वचनमब्रवीत्

॥१६०॥

उत्पत्स्यति कुले राजा त्वदीये कुरुनंदन ॥

सार्पं कलेवरं दृष्ट्वा प्रश्नैस्त्वामुद्धरिष्यति

॥१६१॥

सोऽप्यजगरतां त्यक्त्वा पुनः स्वर्गं गमिष्यति ॥

अश्वमेधे कृते भर्त्रा सह यासि पुनर्दिवि ॥

प्राप्स्यसे वर दानेन ममानेन सुलोचने

॥१६२॥

देवपत्न्यस्तदा सर्वास्तुष्टया परिभाषिताः ॥

अपत्यैरपि हीनाः स्युर्नैव दुःखं भविष्यति

॥१६३॥

इति दत्त्वा वरान्देवी गायत्री लोकसंमता ॥

जगामादर्शनं देवी सर्वेषां पश्यतां तदा

॥१६४॥

सावित्री तु तदा देवी प्रभासं क्षेत्रमागता ॥

कृतस्मरस्य शृङ्गे तु श्रीसोमेश्वरपूर्वतः

॥१६५॥

मन्वन्तरे चाक्षुषे च द्वितीये द्वापरे शुभे ॥

तत्र यज्ञः समारब्धो ब्रह्मणा लोककारिणा

॥१६६॥

यज्ञे याता महात्मानो देवाः सप्तर्षयो वराः ॥

स्वायंभुवे तु ये शस्ताः शप्तास्ते चाभवन्पुरा

॥१६७॥

तस्मात्कालात्समारभ्य प्रभासं क्षेत्रमाश्रिताः

॥१६८॥

सावित्री लोकजननी लोकानुग्रहकारिणी ॥

यस्तां पूजयते भक्त्या पक्षमेकं निरंतरम् ॥

ब्रह्मपूजाविधानेन तस्य पुत्रो ध्रुवो भवेत्

॥१६९॥

पाण्डुकूपे नरः स्नात्वा दृष्ट्वा लिंगानि पञ्च वै ॥

पाण्डवैः स्थापितानीह दृष्ट्वा यज्ञफलं लभेत्

॥१७०॥

ज्येष्ठस्य पूर्णिमायां तु सावित्रीस्थलसंनिधौ ॥

पठेद्यो ब्रह्मसूक्तानि मुच्यते सर्वपातकैः

॥१७१॥

एतत्ते सर्वविख्यातमाख्यातं कल्मषापहम् ॥

यश्चेदं शृणुयाद्भक्त्या स गच्छेत्परमं पदम्

॥१७२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सावित्रीमाहात्म्यवर्णनंनाम पञ्चषष्ट्युतरशततमोऽध्यायः ॥ १६५ ॥