कश्यपेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
क्रत्वीशात्पूर्वदिग्भागे धनुःषोडशकान्तरे ॥
कश्यपेश्वरनामानं महापातकनाशनम्
॥१॥तं दृष्ट्वा मानवो देवि धनवान्पुत्रवान्भवेत् ॥
सर्वपातकयुक्तोऽपि मुच्यते नात्र संशयः
॥२॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कश्यपेश्वरमाहात्म्यवर्णनंनाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥ २१३ ॥