मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 8

पुनः कथय देवेश माहात्म्यं लोकशंकर

देव्युवाच

पुनः कथय देवेश माहात्म्यं लोकशंकर ॥

श्रीसोमेश्वरदेवस्य सर्वपातकनाशनम् ॥

ब्रह्मविष्ण्वीशदैवत्यं तथात्र त्रितयं वद

॥१॥

ईश्वर उवाच

शृणुष्वैकमना भूत्वा मम गोप्यं पुरातनम् ॥

तस्मिँल्लिंगे च यद्वृत्तमाश्चर्यं परमं महत्

॥२॥

षष्टिकोटि सहस्राणि ऋषीणामूर्द्ध्वरेतसाम् ॥

तस्मिँल्लिंगे प्रविष्टानि ते घृताहुतिरिवानले

॥३॥

सिद्धिर्वृद्धिस्तथा तुष्टिर्ऋद्धिः पुष्टिस्तु पंचमी ॥

कीर्तिः शांतिस्तथा लक्ष्मीस्तस्मिंल्लिंगे समुत्थिता

॥४॥

सप्तकोट्यस्तु मंत्राणां सिद्धीनां चैव संभवः ॥

दिव्ययोगरसाश्चान्ये दिव्यौषधिरसायनाः

॥५॥

गारुडं भूततंत्रं च खेचर्यो व्यंतरीस्तथा ॥

ते सर्वे सह योगेन तस्माल्लिंगात्समुत्थिताः

॥६॥

अन्याश्चैव तु याः काश्चित्सिद्धयोऽष्टौ प्रकीर्तिताः ॥

ताः सर्वाः सह लिंगेन तस्मात्स्थानात्समुत्थिताः

॥७॥

अन्यद्देवि प्रवक्ष्यामि अत्र सिद्धिं गतास्तु ये ॥

ममांशसंभवाः प्राप्ता अस्मिँल्लिंगे लयं गताः

॥९॥

तेषां च विक्रमान्सर्वान्प्रवक्ष्याम्यनुपूर्वशः ॥

पुराक्रमा ग्रहा मुण्डा गुडकाश्च सहेतुकाः

॥९॥

विमला दंडिकाश्चैव सप्तैते कुत्सिकाः स्मृताः ॥

अस्मिंल्लिंगे पुरा सिद्धा योगात्पाशुपतान्मम

॥१०॥

रुद्रो विप्रस्तथा दानश्चंद्रो मन्थोऽवलोककः ॥

सूर्यावलोकश्चेति गार्गेयाः सप्त कीर्त्तिताः

॥११॥

सोमेश्वरे च ते सिद्धाः प्रभासे वरवर्णिनि ॥

मूकमन्यः शिवश्चैव प्रकाशः कपिलस्तथा

॥१२॥

सत्कुलः कर्णिकारश्च पौरुषेयाः प्रकीर्त्तिताः ॥

सोमेश्वरे पुरा सिद्धाः प्रभासे पापनाशने

॥१३॥

युगेयुगे पुरा सिद्धास्तस्मिँल्लिंगे प्रिये मम ॥

एते चान्ये च ये विप्रा भविष्यंति कलौ युगे

॥१४॥

तत्र सिद्धिं गमिष्यंति दुर्ल्लभां त्रिदशैरपि ॥

एतत्ते सर्वमाख्यातं तल्लिंगं सिद्धिदं परम्

॥१९॥

दुर्ल्लभं सर्वमर्त्त्यानां प्रभासे तु व्यवस्थितम् ॥

न च कश्चिद्विजानाति अशुभैः कर्मभिर्वृतः

॥१६॥

ग्रहदोषास्तु ये केचिद्भूतदोषास्तथा परे ॥

डाकिनीप्रेतवेताला राक्षसा ग्रहपूतनाः

॥१७॥

पिशाचा यातुधानाश्च मातरो जातहारिकाः ॥

बालग्रहास्तथा चान्ये बुद्धाश्चैव तु ये ग्रहाः

॥१८॥

ज्वरभूत ग्रहाश्चान्ये ह्यतिसारभगंदराः ॥

अश्मरी मूत्रकृच्छ्रं च रोगाश्चान्ये सहस्रशः

॥१९॥

दुर्नामकास्तथा चान्ये कुष्ठरोगास्तथा परे ॥

क्षयरोगास्तथा चान्ये वातगुल्मास्तथैव च ॥

अन्ये चैव तु ये केचिद्व्याधयस्तु प्रकीर्त्तिताः

॥२०॥

सोमेश्वरं समासाद्य तस्य लिंगस्य दर्शनात् ॥

सर्व एव विनश्यंति वह्नौ क्षिप्तमिवेन्धनम्

॥२१॥

उपसर्गाश्च () चान्ये सर्पघोणपवृश्चिकाः ॥

सर्वे तत्र विनश्यंति श्रीसोमेश्वरदर्शनात्

॥२२॥

योऽसौ सोमेश्वरो नाम्ना पश्चिमो भैरवः स्मृतः ॥

कालाग्निरुद्रनाथेति पर्यायैर्नामभिः श्रुतः

॥२३॥

तस्मिंस्तिष्ठामि देवेशि भक्तानुग्रहकारकः ॥

सर्वं च दुष्कृतं नृणां भक्षयामि न संशयः

॥२४॥

योऽसौ प्राणः शरीरस्थो देहिनां देहसंचरः ॥

ब्रह्मांडमेतद्यस्यांतरेको यश्चाप्यनेकधा

॥२५॥

वेदाः सर्वेऽपि यं देवं प्रशंसंति महर्षयः ॥

परस्य ब्रह्मणो रूपं यस्य द्वारेण लभ्यते

॥२६॥

सोऽयं देवि महादेवः प्रभासे संव्यवस्थितः ॥

यथा गुप्तं गृहे रत्नं न कश्चिद्विंदते नरः

॥२७॥

प्रभासे तु स्थितं तद्वद्रत्नभूतं गृहे मम ॥

तच्च लिंगं पुरा कल्पे सप्तपातालभेदकम्

॥२८॥

कथितं कोटि सूर्यस्य प्रलयानलसंनिभम् ॥

तेनकालाग्निरुद्रेति प्रोक्तं सोमेश्वरः पुरा

॥२९॥

इति देवि समासेन कथितं तव पार्वति ॥

सोमेश्वरस्य माहात्म्यं सर्वपातकनाशनम्

॥३०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासमाहात्म्ये श्रीसोमेश्वरैश्वर्यवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥