मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३२१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 321

सर्वपापहरं नॄणामुन्नतस्थानवासिनाम्

ईश्वर उवाच

अथ ते कीर्तयिष्यामि रहस्यं स्थानमुत्तमम् ॥

सर्वपापहरं नॄणामुन्नतस्थानवासिनाम्

॥१॥

श्रेष्ठदेवस्य माहात्म्यं ब्रह्मणोऽव्यक्तजन्मनः ॥

उन्नतस्थानसंस्थस्य देवस्य बालरूपिणः ॥

यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते

॥२॥

देव्युवाच

बालरूपीति यत्प्रोक्तमुन्नतं तत्कथं वद ॥

स्थानेष्वन्येषु सर्वत्र वृद्धरूपी पितामहः

॥३॥

कस्मिन्स्थाने स्थितस्तत्र किमर्थं तत्र वा गतः ॥

कथं स पूज्यो विप्रेन्द्रैस्तिथौ कस्यां क्रमाद्वद

॥४॥

ईश्वर उवाच

ऋषितोयापश्चिमे तु ऐशान्यां स्थलकेश्वरात् ॥

ब्रह्मणः परमं स्थानं ब्रह्मलोक इवापरः

॥५॥

ब्रह्मा विष्णुश्च रुद्रश्च पूज्याः प्राभासिके सदा ॥

ब्रह्मभागे स्थितो ब्रह्मा ऋषितोयातटे शुभे

॥६॥

रुद्रभागेऽग्नितीर्थे च पूज्यो रुद्रः सनातनः ॥

गिरौ रैवतके रम्ये पूज्यो दामोदरो हरिः

॥७॥

सोमेन प्रार्थितो देवो बालरूपी पितामहः ॥

आगतश्चाष्टवर्षस्तु ह्युन्नते स्थान उत्तमे

॥८॥

दृष्ट्वा ब्रह्मा द्विजाञ्छ्रेष्ठांस्तत्र स्थाने स्थितो विभुः

॥९॥

नास्ति ब्रह्मसमो देवो नास्ति ब्रह्मसमो गुरुः ॥

नास्ति ब्रह्मसमं ज्ञानं नास्ति ब्रह्मसमं तपः

॥१०॥

तावद्भ्रमंति संसारे दुःखशोकभयाप्लुताः ॥

न भवंति सुरज्येष्ठे यावद्भक्ताः पितामहे

॥११॥

समासक्तं यथा चित्तं जंतोर्विषयगोचरे ॥

यद्येवं ब्रह्मणि न्यस्तं को न मुच्येत बंधनात्

॥१२॥

परमायुः स्मृतो ब्रह्मा परार्धं तस्य वै गतम् ॥

उन्नतस्थानसंस्थस्य द्वितीयं भविताऽधुना

॥१३॥

यदासावुन्नते स्थाने ब्रह्मलोकात्पितामहः ॥

आगतश्चाष्टवर्षस्तु बालरूपी तदोच्यते

॥१४॥

स्थानेष्वन्येषु विप्राणां वृद्धरूपी पितामहः ॥

युक्तं तदुन्नतस्थानं सदा च ब्रह्मणः प्रियम्

॥१५॥

स्नात्वा च विधिवत्पूर्वं ब्रह्मकुंडे नरोत्तम ॥

पूजयेत्पुष्पधूपाद्यैर्ब्रह्माणं बालरूपिणम्

॥१६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्थाने ब्रह्ममाहात्म्यवर्णनंनामैकविंशत्युत्तर त्रिशततमोध्यायः ॥ ३२१ ॥