कर्द्दमालमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि कर्दमालमनुत्तमम् ॥
तीर्थं त्रैलोक्यविख्यातं सर्वपातकनाशनम्
॥१॥तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजंगमे ॥
चन्द्रार्कतपने नष्टे ज्योतिषि प्रलयं गते
॥२॥रसातलगतामुर्वीं दृष्ट्वा देवो जनार्दनः ॥
वाराहं रूपमास्थाय दंष्ट्राग्रेण वरानने ॥
उत्क्षिप्य धरणीं मूर्ध्ना स्वस्थाने संन्यवेशयत्
॥३॥उद्धृत्य भगवान्विष्णुर्वाक्यमेतदुवाच ह
॥४॥अत्र स्थाने स्थितेनैव मया त्वं देवि चोद्धृता ॥
ममात्र नियतं वासः सदैवायं भविष्यति
॥५॥ये पितॄंस्तर्पयिष्यंति कर्दमाले वरानने ॥
आकल्पं तर्पितास्तेन भविष्यंति न संशयः
॥६॥तत्र श्राद्धं करिष्यंति शाकैर्मूलफलेन वा ॥
भविष्यति कृतं श्राद्धं सर्वतीर्थेषु वै शुभे
॥७॥अत्र तीर्थे नरः स्नात्वा यो मां पश्यति मानवः ॥
अपि कीटपतंगा ये निधनं यांति मानवाः ॥
ते मृतास्त्रि दिवं यान्ति सुकृतेन यथा द्विजाः
॥८॥ततो द्वीपेषु जायन्ते धनाढ्याश्चोत्तमे कुले ॥
दंष्ट्राभेदेन यत्तोयं निर्गतं ते शरीरतः
॥९॥तत्र स्नात्वा नरो देवि तिर्यग्योनौ न जायते
॥१०॥ईश्वर उवाच
शृणु देवि यथावृत्तमाश्चर्यं तत्र वै पुरा ॥
मृगयूथं सुसन्त्रस्तं लुब्धकैः परिपीडितम् ॥
प्रविष्टं कर्दमाले तु सद्यो मानुषतां गतम्
॥११॥अथ ते लुब्धका दृष्ट्वा विस्मयोत्फुल्ललोचनाः ॥
अपृच्छंत च संभ्रातास्तान्मर्त्यान्वरवर्णिनि
॥१२॥मृगयूथमनुप्राप्तं केन मार्गेण निर्गतम् ॥
अथोचुस्ते वयं प्राप्ता मानुषं मृगरूपिणः
॥१३॥एतत्तीर्थप्रभावोऽयं न विद्मो ह्यात्म कारणम् ॥
ततस्ते लुब्धकास्त्यक्त्वा धनूंषि सशराणि च ॥
तत्र स्नात्वा महाभागे मुक्ताश्च सर्वपातकैः
॥१४॥पार्वत्युवाच
भगवन्विस्तरं ब्रूहि कर्दमालमहोदयम् ॥
उत्पत्तिं च विधानं च क्षेत्रसीमादिकं क्रमात्
॥१५॥ईश्वर उवाच
शृणु देवि रहस्यं तु कर्द मालसमुद्भवम् ॥
गूढं ब्रह्मर्षिसर्वस्वं न देयं कस्यचित्त्वया
॥१६॥पूर्वमेकार्णवे घोरे नष्टे स्थावरजंगमे ॥
चन्द्रार्कपवने नष्टे ज्योतिषि प्रलयं गते
॥१७॥एकार्णवं जगदिदं ब्रह्मापश्यदशेषतः ॥
तस्मिन्वसुमती मग्ना पातालतलमागता
॥१८॥ततो यज्ञवराहोऽसौ कृत्वा यज्ञमयं वपुः ॥
उद्दधार महीं कृत्स्नां दंष्ट्राग्रेण वरानने
॥१९॥ईश्वर उवाच
वेदपादो यूपदंष्ट्रः क्रतुदंतःस्रुचीमुखः ॥
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षा महातपाः
॥२०॥ईश्वर उवाच
अहोरात्रेक्षणपरो वेदांगश्रुतिभूषणः ॥
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान्
॥२१॥प्राग्वंशकायो द्युतिमान्मात्रादीक्षाभिरावृतः ॥
दक्षिणा हृदयो योगी महासत्रमहो महान्
॥२२॥उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः ॥
नानाच्छन्दोगतिपथो ब्रह्मोक्तक्रमविक्रमः
॥२३॥भूत्वा यज्ञवराहोऽसावुद्दधार महीं ततः ॥
तस्योद्धृतवतः पृथ्वीं दंष्ट्राग्रं निर्गतं बहिः
॥२४॥तस्मिन्प्राभासिके क्षेत्रे कर्द्दमेन विलेपितम् ॥
तद्दंष्ट्राग्रं यतो देवि कर्द्दमालं ततः स्मृतम्
॥२५॥दण्डोद्भेदं महाकुण्डं यत्र दंष्ट्रा सुसंस्थिता ॥
तद्दंष्ट्रयोद्धृतं तोयं कोटिगंगाभिषेकवत्
॥२६॥तत्र गव्यूति मात्रं तु विष्णुक्षेत्रं सनातनम् ॥
देशांतरं गता ये च दण्डोद्भेदे म्रियंति वै ॥
यावत्कल्पसहस्राणि विष्णुलोकं व्रजंति ते
॥२७॥यस्तु पश्येन्महादेवि कर्दमाले तु सूकरम् ॥
कोटिहिंसायुतो वापि स प्राप्स्यति परां गतिम्
॥२८॥दशजन्मकृतं पापं नश्येत्तद्दर्शनात्प्रिये ॥
जन्मान्तरसहस्रेषु यत्कृतं पापसंचयम्
॥२९॥कर्दमाले तु वाराहं दृष्ट्वा तन्नाशमेष्यति ॥
हेमकोटिसहस्राणि गवां कोटिशतानि च
॥३०॥दत्त्वा यल्लभते पुण्यं सकृद्वाराहदर्शनात् ॥
कलौ युगे महारौद्रे प्राणिनां च भयावहे ॥
नान्यत्र जायते मुक्तिर्मुक्त्वा क्षेत्रं तु सौकरम्
॥३१॥एतत्सारतरं देवि प्रोक्तमुद्देशतस्तव ॥
कर्द्दमालस्य माहात्म्यं सर्वपातकनाशनम्
॥३२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कर्द्दमालमाहात्म्यवर्णनंनाम त्रिपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५३ ॥