मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १४७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 147

ब्रह्मकुण्डमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि ब्रह्मकुण्डमनुत्तमम् ॥

तस्यैव नैर्ऋते भागे ब्रह्मणा निर्मितं पुरा

॥१॥

यदा तु ऋक्षराजेन सोमनाथः प्रति ष्ठितः ॥

तदा ब्रह्मादयो देवाः सर्वे तत्र समागताः ॥

प्रतिष्ठार्थं हि देवस्य शशांकेन निमन्त्रिताः

॥२॥

अथाऽब्रवीन्निशानाथो ब्रह्माणं विनयान्वितः

॥३॥

कृतं भवद्भिर्जानाति स्थापनं वै यथा जनः ॥

तथा कुरु सुरश्रेष्ठ चिह्नमात्मसमुद्भवम्

॥४॥

एवं श्रुत्वा तदा ब्रह्मा ध्यानं कृत्वा तु निश्चलम् ॥

आह्वयत्सर्वतीर्थानि पुष्करादीनि सर्वशः

॥५॥

स्वर्गे वै यानि तीर्थानि तथैव च रसातले ॥

तपःसामर्थ्ययोगेन ब्रह्मणा ऽऽकर्षितानि च ॥

अतस्तस्यैव नाम्ना तु ब्रह्मकुण्डं तु गीयते

॥६॥

गणानां च सहस्रैस्तु चतुर्दशभिरीक्ष्यते ॥

अतश्चाभक्तियुक्तानां दुष्प्राप्यं तीर्थमुत्तमम्

॥७॥

अथाब्रवीत्सर्वदेवान्ब्रह्मा लोकपितामहः

॥८॥

अत्र कुण्डे नरः स्नात्वा यः पितॄंस्तर्पयिष्यति ॥

अग्निष्टोमफलं सव लप्स्यते स च मानवः ॥

तत्प्रसादात्स्वर्गलोके विमानेन चरिष्यति

॥९॥

गोदानं चाश्वदानं च तथा स्वर्णकमण्डलुम् ॥

दद्याद्विप्राय विदुषे सर्वपापापनुत्तये

॥१०॥

पौर्णमास्यां महादेवि तथा च प्रतिपद्दिने ॥

सर्वपापविनाशार्थं तत्र स्नाति सरस्वती

॥११॥

सिद्धं रसायनं देवि तत्र वै ह्युदकं प्रिये ॥

नानावर्णसमायुक्तमुपदेशेन सिद्ध्यति

॥१२॥

दारिद्र्यदुःखरुक्छोकान्मानवः सेवते कथम् ॥

ब्रह्मकुण्डमनुप्राप्य कल्पवृक्षमिवापरम्

॥१३॥

देव्युवाच

भगवन्विस्तराद्ब्रूहि ब्रह्मकुण्डमहोदयम् ॥

सर्वप्राणिहितार्थाय विस्तराद्वद मे प्रभो

॥१४॥

ब्रह्मकुंडस्य माहात्म्यं श्रोतुं मे कौतुकं महत् ॥

लोकानां दुःखनाशाय दारिद्यक्षयहेतवे

॥१५॥

भगवन्मानुषाः सर्वे दुःखशोकनिपीडिताः ॥

भ्रमंति सकलं जन्म रसायनविमोहिताः

॥१६॥

तेषां हिताय मे ब्रूहि निर्वाणं रसमुत्तमम् ॥

आदाविह शरीरं तु अक्षय्यं तु यथा भवेत्

॥१७॥

अष्टसिद्धिसमा युक्तं सर्वविद्यासमन्वितम् ॥

कामरूपं क्रियायुक्तं सर्वव्याधिविवर्जितम्

॥१८॥

ततस्तु परमं देव निर्वाणं येन वै लभेत् ॥

मानवः कृतकृत्यश्च जायते च यथा प्रभो

॥१९॥

तथा कथय मे देव दयां कृत्वा जगत्प्रभो ॥

निर्वाणपरमं कल्पं सर्वभ्रांतिविवर्जितम् ॥

प्रसिद्धं सुखदं दिव्यं समा चक्ष्व महेश्वर

॥२०॥

ईश्वर उवाच

साधुसाधु महादेवि लोकानां हितकारिणि ॥

मर्त्यलोके महादेवि तीर्थं(?) तीर्थवरं शुभम्

॥२१॥

प्रभासं परमं ख्यातं तच्च द्वादशयोजनम् ॥

तत्र सोमेश्वरो देवस्त्रिषु लोकेषु विश्रुतः

॥२२॥

तस्य पूर्वे समाख्यातः श्रीकृष्णो दैत्यसूदनः ॥

चण्डिका योगिनी तत्र सखीभिः परिवारिता

॥२३॥

ततः पूर्वे दिशां भागे चतुर्वक्त्रेण निर्मितम् ॥

तीर्थात्तीर्थं वरं दिव्यं सर्वाश्चर्यमयं शुभम्

॥२४॥

सेवितं सर्वदेवैस्तु सिद्धैः साध्यैर्ग्रहैस्तथा ॥

अप्सरोमुनिभिर्दिव्यैर्यक्षैश्च पन्नगैः सदा

॥२५॥

सिद्ध्यर्थं सर्वकामार्थं दिव्यभोगावहं शुभम् ॥

ब्रह्मकुण्डमिति ख्यातं ब्रह्मणा निर्मितं यतः

॥२६॥

तस्य वायव्यकोणे तु हिर ण्येशः स्वयं स्थितः ॥

तमाराध्य महादेवं हिरण्येश्वरमुत्तमम्

॥२७॥

महामन्त्रं जपेत्क्षिप्रं दशांशं होमयेत्सुधीः ॥

होमेन सिद्ध्यते मन्त्रः सत्यं सत्यं वरानने

॥२८॥

तस्योत्तरे तु दिग्भागे किञ्चिदीशानमाश्रितः ॥

चतुर्वक्त्रो महादेवि क्षेत्रपो लिंगरूपधृक्

॥२९॥

तत्स्थानं रक्षते देवि लिंगरूपेण शंकरः ॥

तमाराध्य प्रयत्नेन ततः कुण्डं समाश्रयेत्

॥३०॥

सर्वैश्वर्यमयं देवि नानावर्णविचित्रितम् ॥

कुण्डस्यास्येशदिग्भागे भैरवेश्वरमुत्तमम्

॥३१॥

दुर्गन्धा भासुरा देवि वहते रसरूपिणी ॥

तस्या रसेन संयुक्तं पृथग्वर्णं हि कर्बुरम्

॥३२॥

मेघवर्णं महादिव्यं राजतं च पुनः शुभम् ॥

कपिलं दुग्धवर्णं च कर्पूराभं सुशोभनम्

॥३३॥

कदा कस्तूरिकाभासं कुंकुमच्छविकावहम् ॥

सौगन्धं चंदनोपेतं कदाचिद्रौधि रोदकम्

॥३४॥

एते रसाश्च विविधा दृश्यंते तत्र सर्वदा ॥

यस्य तुष्टो महादेवः सिद्ध्यते तस्य तत्क्षणात्

॥३५॥

रजतं क्षिप्यते तत्र सुवर्ण मिव जायते ॥

प्रत्यक्षमेव तत्रैव रसायनमनुत्तमम्

॥३६॥

पश्यंति मानवा देवि कौतुकं तत्क्षणाद्भृशम् ॥

रसं हि परमं दिव्यं तत्रस्थं च कलौ युगे

॥३७॥

सिद्धं सिद्धरसं पुंसां व्याधीनां क्षयकारकम् ॥

हेमबीजमयं दिव्यं ब्रह्मकुण्डोद्भवं महत्

॥३८॥

इदानीं ते प्रवक्ष्यामि मनुष्याणां हिताय वै ॥

दारिद्र्यं क्षयमाप्नोति तत्क्षणाच्च यशस्विनि

॥३९॥

आदावेव प्रकुर्वन्ति ताम्रकुम्भं दृढं शुभम् ॥

तीर्थोदकं क्षिपेत्तत्र पत्रैस्ताम्रस्तथा युतम्

॥४०॥

निक्षिप्य भूमौ तत्कुम्भं ज्वालयेदनलं ततः ॥

चुह्लीरूपेण षण्मासं पाचयेत्तं शनैःशनैः

॥४१॥

पश्चादुद्धृत्य तं कुम्भं पुनरेव जलं क्षिपेत् ॥

मासमेकं पुनः कुर्यान्मासमेकं पुनर्भृशम्

॥४२॥

ततः सर्वाणि खण्डानि एकीकृत्य प्रयत्नतः ॥

पुनरेवोदकेनैव प्लाव्य चावर्तयेत्पुनः

॥४३॥

कांचनं जायते तत्र यदि तुष्टो महेश्वरः

॥४४॥

सिद्धिं शरीरजां देवि यदीच्छेन्मानवोत्तमः ॥

स स्नानमादितः कृत्वा संवत्सरत्रयं पुनः

॥४५॥

मौनेन नियमेनैव महामंत्रजपान्वितः ॥

पूजयेच्च हिरण्येशं क्षेत्रपालं प्रयत्नतः

॥४६॥

पंचोपचारसंयुक्तं ध्यानधारणसंयुतम् ॥

तीर्थोदकेन पाकं वै पेयं तद्वदुदुम्बरे

॥४७॥

एवं वर्षत्रयेणैव दिव्यदेहः प्रजायते ॥

तेजस्वी वलवान्प्राज्ञः सर्वव्याधिविवर्जितः

॥४८॥

जीवेद्वर्षेशतान्येव त्रीणि दुःखविवर्जितः ॥

वर्षत्रयमविच्छिन्नं यस्तत्र स्नानमाचरेत्

॥४९॥

वागीश्वरीं जपेन्नित्यं पूजाहोमसमन्वितः ॥

तस्य प्रवर्तते वाणी सिद्धिः सारस्वती भवेत्

॥५०॥

संस्कृतं प्राकृतं चैवापभ्रंशं भूतभाषितम् ॥

गांगस्रोतःप्रवाहेण उद्गिरेद्गिरमात्मवान् ॥

अश्रान्तां च वरारोहे ह्यविच्छिन्नां च संततम्

॥५१॥

वदेद्वादिसहस्रैस्तु न श्रमस्तस्य जायते ॥

तीर्थस्यास्य प्रभावेण सर्वशास्त्रविशारदाः

॥५२॥

पंडिता गर्विताः सर्वे तर्कशास्त्रविशारदाः ॥

आगच्छन्ति समं तात विद्ययोद्धतकन्धराः ॥

न शक्नुवंति ते वक्तुं द्रष्टुं वक्त्रमपि प्रिये

॥५३॥

वादिनां च सहस्राणि भनक्त्येवं निरीक्षणात्

॥५४॥

उद्वाहयति शास्त्राणि विबुद्धार्थानि सत्वरम् ॥

विमलं पाञ्चरात्रं च वैष्णवं शैवमेव च

॥५५॥

इतिहासपुराणं च भूततंत्रं च गारुडम् ॥

भैरवं च महातंत्रं कुलमार्गं द्विधा प्रिये

॥५६॥

रथप्रवरवेगेन वाणी चास्खलिता भवेत् ॥

नश्यंति वादिनः सर्वे गरुडस्येव पन्नगाः

॥५७॥

न दारिद्र्यं न रोगश्च न दुःखं मानसं पुनः ॥

राजमान्यो महामानी भवेद्ब्रह्मप्रसादतः

॥५८॥

उत्साहबलसंयुक्तो देववज्जीवते सुधीः ॥

दाता भोक्ता च वाग्ग्मी च तीर्थस्यास्य प्रसादतः

॥५९॥

तैलाभ्यक्तस्य यत्तेजो जायते मनुजेषु च ॥

स्नातमात्रे तथा तेजस्तीर्थस्यैव प्रसादतः

॥६०॥

यत्पापं कुरुते जंतुः पैशुन्यं च कृतघ्नताम् ॥

मित्रद्रोहे च यत्पापं यत्पापं पारदारिकम् ॥

तत्सर्वं विलयं याति कुंडस्नानरतस्य च

॥६१॥

मुशलं लङ्घयेद् यस्तु यो गास्त्यजति वै द्विजः ॥

तत्पापं क्षयमाप्नोति ब्रह्मकुण्डस्य दर्शनात्

॥६२॥

पृथिव्यां यानि तीर्थानि दैवतानि तथा पुनः ॥

पूजितानि च सर्वाणि कुण्डस्नानप्रभावतः

॥६३॥

सप्तजन्मार्जितं पापं दर्शनात्क्षयमाव्रजेत्

॥६४॥

यत्पापं गुरुगोघ्ने च परस्वहरणेषु च ॥

तत्पापं क्षयमाप्नोति ब्रह्मकुण्डनिषेवणात्

॥६५॥

प्रदक्षिणं च यः कुर्यात्स्नात्वा कुण्डस्य नामतः ॥

संख्यया पंचदश वै शृणु तस्यापि यत्फलम्

॥६६॥

प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥

सप्तपातालसहिता तीर्थकोटिभिरावृता

॥६७॥

आहारमात्रं यो दद्यात्तत्र वेदविदां वरे ॥

लक्षभोज्यं कृतं तेन तीर्थस्यास्य प्रभावतः

॥६८॥

ब्रह्मेश्वरं च संपूज्य हिरण्येश्वरमुत्तमम् ॥

क्षेत्रपालं चतुर्वक्त्रं पूजयेच्चिन्तितं लभेत्

॥६९॥

एकविंशत्कुलै र्युक्तः सर्वपापविवर्जितः ॥

ब्रह्मलोकं स वै याति नात्र कार्या विचारणा

॥७०॥

विरंचिकुण्डे स्नात्वा वा यो जपेद्वेदमातरम् ॥

लक्षजाप्यविधानेन स मुक्तः पातकैर्भवेत्

॥७१॥

स एव पुण्यकर्त्ता च स एव पुरुषोत्तमः ॥

यात्रा तत्र कृता येन ब्रह्मकुण्डे वरानने

॥७२॥

अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् ॥

ब्रह्मकुण्डं समाश्रित्य ब्रह्मदेवमुपासते

॥७३॥

तावद्गर्जंति तीर्थानि त्रैलोक्ये सचराचरे ॥

यावद्ब्रह्मेश्वरं तीर्थं न पश्यन्ति नराः प्रिये

॥७४॥

ब्रह्मकुण्डे च पानीयं ये पिबन्ति नराः सकृत् ॥

न तेषां संक्रमेत्पापं वाचिकं मानसं तनौ

॥७५॥

ब्रह्मांडोत्तरमध्ये तु यानि तीर्थानि संति वै ॥

तेषां पुण्यमवाप्नोति ब्रह्मकुण्डे प्रदक्षिणात्

॥७६॥

याज्ञवल्क्यो महात्मा च परब्रह्मस्वरूपवान् ॥

सोऽपि कुंडं न मुंचेत निकुं भस्तु गणस्तथा

॥७७॥

इति संक्षेपतः प्रोक्तं माहात्म्यं ब्रह्मकुण्डजम् ॥

तव स्नेहेन देवेशि किमन्यत्परिपृच्छसि

॥७८॥

य इदं शृणुयान्मर्त्यः सम्यक्छ्रद्धासमन्वितः ॥

स मुक्तः पातकैः सर्वैर्ब्रह्मलोकं च गच्छति

॥७९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्यवर्णनंनाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४७ ॥