ब्रह्मेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि तत्रैवोपरिसंस्थितम् ॥
सरस्वत्यास्तटे देवि पर्णादित्यस्य पश्चिमे
॥१॥तत्रास्ते सुमहल्लिंगं स्थापितं ब्रह्मणा पुरा ॥
ब्रह्मेश्वरेति विख्यातं सर्वपातकनाशनम्
॥२॥तत्र स्नात्वा द्वितीयायां सोपवासो जितेंद्रियः ॥
अर्चयेद्देवदेवेशं नाम्ना ब्रह्मेश्वरं शुभम् ॥
तर्पयेच्च पितॄञ्छ्राद्धे यदीच्छेच्छाश्वतं पदम्
॥३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रमास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनंनाम पञ्चचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४५ ॥