मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २५८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 258

ततो गच्छेन्महादेवि शशापानमिति स्मृतम्

ईश्वर उवाच

ततो गच्छेन्महादेवि शशापानमिति स्मृतम् ॥

तस्यैव दक्षिणे तीर्थं सर्वपापप्रणाशनम्

॥१॥

यस्मिन्स्नात्वा नरः सम्यङ्नापमृत्युभयं लभेत् ॥

शृणु यस्मात्तदुत्पत्तिं वदतो मम वल्लभे

॥२॥

मथित्वा सागरं देवा गृहीत्वाऽमृतमुत्तमम् ॥

सत्वरास्तत्र ते गत्वा पपुश्चैव यथेप्सया

॥३॥

पिबतां तत्र पीयूषं देवानां वरवर्णिनि ॥

बिंदवः पतिता भूमौ शतशोथ सहस्रशः

॥४॥

एतस्मिन्नेव काले तु शशकस्तत्र चागतः ॥

प्रविष्टः सलिले तत्र तृषार्तो वरवर्णिनि

॥५॥

अमरत्वमनुप्राप्तो वर्द्धते सलिलालये ॥

तं दृष्ट्वा त्रिदशाः सर्वे स्पर्द्धमाना मुहुर्मुहुः ॥

ज्ञात्वामृतान्वितं तोयं मंत्रं चक्रुर्भयान्विताः

॥६॥

अमृतं पतितं भूमौ भक्षयिष्यंति मानवाः ॥

ततोऽमर्त्त्या भविष्यंति नात्र कार्या विचारणा

॥७॥

तिर्यग्योन्यां समुत्पन्नः कृपणः शशको ह्ययम् ॥

अस्माभिः स्पर्द्धते तस्मात्ततो भयमुपस्थितम्

॥८॥

अथ प्राप्तो निशानाथो व्याधिना स परिप्लुतः ॥

अब्रवीत्त्रिदशान्सर्वानमृतं मे प्रयच्छत

॥९॥

कृच्छ्रेण महता प्राप्तो नाहं शक्तो विसर्पितुम् ॥

अथोचुस्त्रिदशाः सर्वे सर्वमस्माभिर्भक्षितम्

॥१०॥

विस्मृतस्त्वं निशानाथ चिरात्कस्मादिहागतः ॥

कुरुष्व वचनं चंद्र अस्माकं तिमिरापह

॥११॥

अस्मिञ्जलेऽमृतं भूरि पतितं पिबतां हि नः ॥

तत्पिबस्व निशानाथ सर्वमेतज्जलाशयम्

॥१२॥

अर्द्धं निपतितं चात्र सत्यमेतन्निशामय ॥

तेषां तद्वचनं श्रुत्वा शीतरश्मिस्त्वरान्वितः

॥१३॥

तृषार्तो वाऽपिबत्तोयं शशकेन समन्वितम् ॥

अस्थिशेषं तु तत्तस्य कायं पीयूषभक्षणात्

॥१४॥

तत्क्षणात्पुष्टिमगमत्कांत्या परमया युतः ॥

धातुषु क्षीयमाणेषु पुष्टो हि सुधया हि सः

॥१५॥

स चापि शशकस्तस्य न मृतो जठरं गतः ॥

अद्यापि दृश्यते तत्र देहे पीयूषभक्षणात्

॥१६॥

तत्क्षणात्तुष्टिमगमत्कांत्या परमया युतः ॥

अब्रुवन्खन्यतामेतद्यथा भूयो जलं भवेत्

॥१७॥

अस्माकं संगमादेतच्छुष्कं श्वभ्रं जलाशयम् ॥

तद्युक्तं च कृतं कर्म नैतत्साधुविचेष्टितम्

॥१८॥

ततोऽखनंश्च ते सर्वे यावत्तोयविनिर्गमः ॥

अथाब्रुवंस्ततः सर्वे हर्षेण महतान्विताः

॥१९॥

यस्माच्छशेन संयुक्तं पीतमेतज्जलाशयम् ॥

चंद्रेण हि शशापानं तस्मादेतद्भविष्यति

॥२०॥

अत्रागत्य नरः स्नानं यः करिष्यति भक्तितः ॥

स यास्यति परं स्थानं यत्र देवो महेश्वरः

॥२१॥

अत्रान्नं संप्रदास्यंति ब्राह्मणेभ्यः समा हिताः ॥

सर्वयज्ञफलं तेषां भविष्यति न संशयः

॥२२॥

अस्मिन्दृष्टे सुराः सर्वे दृष्टाः स्युः सर्वदेवताः ॥

एवमुक्त्वा सुराः सर्वे जग्मुश्चैव सुरालयम्

॥२३॥

अथ कालेन महता प्राप्ता तत्र सरस्वती ॥

वडवाग्निं समादाय तयानुप्लावितं पुनः

॥२४॥

ततो मेध्यतरं जातं तीर्थं च वरवर्णिनि ॥

तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत्

॥२५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शशापानमाहात्म्यवर्णनंनामाष्टापञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५८ ॥